________________
शतकं-८, वर्गः-, उद्देशकः-२
नाणाई पंडियवीरियलद्धियाणं पंच नाणाई भयणाए, तस्स अलद्धियाणं मणपजवनाणवजाइं नाणाइं अनाणानि तिन्नि य भयणाए। बालपंडियवीरियलद्धियाणं भंते ! जीवा० तिनि नाणाई भयणाए, तस्स अलद्धियाणं पंच नाणाइं तिनि अन्नायाई भयणाए।
इंदियलद्धियाणं भंते ! जीवा किं नाणी अन्नाणी?, गोयमा ! चत्तारि नाणाइं तिनि य अन्नाणाई भयणाए, तस्स अलद्धियाणं पुच्छा, गोयमा ! नाणी नो अन्नाणी नियमा एगनाणी केवलनाणी, सोइंदियलद्धियाणं जहा इंदियलद्धिया, तस्सअलद्धियाणपुच्छा, गोयमा! नाणीवि अन्नाणीवि,जे नाणी ते अत्धेगतियादुन्नाणीअत्थेगतियाएगन्नाणीजे दुन्नाणी तेआभिनिबोहियनाणी सुयनाणी जे एगनाणी ते केवलनाणी, जे अन्नाणी ते नियमा दुअन्नाणी, तंजहा-मइअन्नाणी य सुयअन्नाणी य, चक्खिदियघाणिदियाणं लद्धियाणं अलद्धियाण य जहेव सोइंदियस्स, जिब्मिदियलद्धियाणं चत्तारि नाणाई तिन्नि य अन्नाणानि भयणाए।
तस्स अलद्धियाणं पुच्छा, गोयमा! नाणीवि अन्नाणीवि जे नाणी ते नियमा एगनाणी केवलनाणी, जे अन्नाणी ते नियमा दुअन्नाणी, तंजहा-मइअन्नाणी य सुयअन्नाणी य, फासिंदियलद्धियाणं अलद्धियाणं जहा इंदियलद्धिया य अलद्धिया य।।
वृ. 'कतिविहाणमित्यादि, तत्र लब्धिः-आत्मनोज्ञानादिगुणानांतत्तत्कर्मक्षयादितो लाभः, साच दशविधा, तत्र ज्ञानस्य-विशेषबोधस्यपञ्चप्रकारस्य तथाविधज्ञानानावरणक्षयक्षयोपशमाभ्यां लब्धिर्ज्ञानलब्धि, एवमन्यत्रापि, नवरंच दर्शनं-रुचिरूपआत्मनः परिणामः, चारित्रं-चारित्रमोहनीयक्षयक्षयोपशमोपशमजो जीवपरिणामः, तथा चरित्रं च तदचरित्रं चेति चरित्राचरित्रंसंयमासंयमः, तच्चाप्रत्याख्यानकषायक्षयोपशमजो जीवपरिणामः।
दानादिलब्धयस्तु पञ्चप्रकारान्तरायक्षयक्षयोपशमसम्भवाः, इहचसकृद्भोजनमशनादीनां भोगः, पौनःपुन्येन चोपभोजनमुपभोगः, सच वस्त्रभवनादेः, दानादीनि तुप्रसिद्धानीति |
तथा इन्द्रियाणां-स्पर्शनादीनांमतिज्ञानावरणक्षयोपशमसम्भूतानामेकेन्द्रियादिजातिनामकर्मोदयनियमितक्रमाणां पर्याप्तकनामकर्मादिसामर्थ्यसिद्धानां द्रव्यभावरूपाणां लब्धिरात्मनीतीन्द्रियलब्धिः ।। अथ ज्ञानलब्धेविपर्यभूताऽज्ञानलब्धिरित्यज्ञानलब्धिनिरूपणायाह'अन्नाणलद्धी'त्यादि।
'सम्मइंसणे'त्यादि, इहसम्यग्दर्शनंमिथ्यात्वमोहनीयकर्माणुवेदनोपशम २ क्षय २ क्षयोपशम ३ समुत्थ आत्मपरिणामः, मिथ्यादर्शनमशुद्धमिथ्यात्वदलिकोदयसमुत्थो जीवपरिणामः, सम्यग्मिथ्यादर्शनं त्वर्द्धविशुद्धमिथ्यात्वदलिकोदयसमुत्थ आत्मपरिणाम एव ।। _ 'सामाइयचरित्तलद्धित्तिसामायिक-सावद्ययोगविरतिरूपंएतदेवचरित्रंसामायिकचरित्रं तस्य लब्धि सामायिकचरित्रलब्धि, सामायिकचरित्रं च द्विधा-इत्वरं यावत्कथिकं च, तत्राल्पकालमित्वरं, तच्च भरतैरावतेषु प्रथमपश्चिमतीर्थःकरतीर्थेष्वनारोपितव्रतस्य शिक्षकस्य भवति, यावत्कथिकंतुयावजीविकं, तच्च मध्यमवैदेहिकतीर्थःकरतीर्थान्तर्गतसाधूनामवसेयं, तेषामुपस्थापनाया अभावात्, नन्वितरस्यापियावजीवितयाप्रतिज्ञानात् तस्यैवचोपस्थापनायां परित्यागात् कथंनप्रतिज्ञालोपः?,अत्रोच्यते, अतिचाराभावात्, तस्यैवसामान्यतः सावद्ययोगनिवृत्तिरूपेणावस्थितस्य शुद्धयन्तरापादनेन सज्ञामात्रविशेषादिति।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org