SearchBrowseAboutContactDonate
Page Preview
Page 373
Loading...
Download File
Download File
Page Text
________________ ३७० भगवतीअगसूत्रं ८/-/२/३९२ उत्पद्यमानास्त्वज्ञानिनो भवप्रत्ययविभङ्गस्य सद्भावाद् अतस्तेषां नारकाणाविमोच्यते-'तिन्न अन्नाणाइंभयणाएत्ति। सिद्धिगइयाण'मित्यादि, यथा सिद्धाः केवलज्ञानिन एव एवं सिद्धिगतिका अपि वाच्या इति भावः, यद्यपि च सिद्धाना सिद्धिगतिकानां चान्तरगत्यभावान विशेषोऽस्ति तथाऽपीहगतिद्वारबलायातत्वात्त दर्शिताः, एवंद्वारान्तरेष्वपि परस्परान्तर्भावेऽपितत्तद्विशेषापेक्षयाऽपौनरुक्त्यं भावनीयमिति ।। __ अथेन्द्रियद्वारे 'सइंदिये'त्यादि, सेन्द्रियाः' इन्द्रियोपयोगवन्तस्तेच ज्ञानिनोऽज्ञानिनश्च, तत्र ज्ञानिनां चत्वारि ज्ञानानि भजनया स्यात् द्वे स्यात् त्रीणी स्याञ्चत्वारि, केवलज्ञानं तु नास्ति तेषाम्, अतीन्द्रियज्ञानत्वात्तस्य, द्वयादिभावश्च ज्ञानानांलब्ध्यपेक्षया, उपयोगापेक्षयातुसर्वेषामेकदैकमेवज्ञानम्, अज्ञानिनांतुत्रीण्यज्ञानानि भजनयैव-स्यात्द्वे स्यात्रीणीति, 'जहापुढविकाइय'त्ति एकेन्द्रिया मिथ्याष्टित्वादज्ञानिनस्ते च द्वयज्ञाना एवेत्यर्थः । "बेइंदिये' त्यादि, एषां द्वे ज्ञाने, सासादनस्तेषूत्पद्यत इतिकृत्वा, सासादनश्चोत्कृष्टतः षडावलिकामानोऽतो द्वे ज्ञाने तेषु लभ्येत इति । 'अनिंदिय'त्ति केवलिनः । ___ कायद्वारे-'सकाइयाणमित्यादि, सह कायेन-औदारिकादिनाशरीरेण पृथिव्यादिषट्कायान्यतरेण वा कायेन ये ते सकायास्त एव सकायिकाः, तेच केवलिनोऽपि स्युरिति सकायिकानां सम्यग्दृशां पञ्च ज्ञानानि मिथ्याद्दशांतु त्रीण्यज्ञानानि भजनयास्युरिति। अकाइयाण'ति नास्ति कायः-उक्तलक्षणो येषां तेऽकायास्त एवाकायिकाः सिद्धाः। सूक्ष्मद्वारे-'जहा पुढचिकाइय'त्ति द्वयज्ञानिनः सूक्ष्मा मिथ्याष्टित्वादित्यर्थः 'जहा सकाइय'त्तिबादराः केवलिनोऽपि भवन्तीतिकृत्वातेसकायिकवद्भजनया पञ्चज्ञानिनस्त्रयज्ञानिनश्च वाच्या इति। पर्याप्तकद्वारे-'जहा सकाइय'त्ति पर्याप्तकाः केवलिनोऽपिस्युरितितेसकायिकवत्पूर्वोक्तप्रकारेण वाच्याः । पर्याप्तकद्वार एव चतुर्विंशतिदण्डके पर्याप्तनारकाणां तिनि अन्नाणा नियम'त्ति अपर्याप्तकानामेवासज्ज्ञिनारकाणां विभङ्गाभाव इति पर्याप्तकावस्थायां तेषामज्ञानत्रयमेवेति । "एवं जाव चउरिदिय'ति द्वीन्द्रियत्रीन्द्रियचतुरिन्द्रियाः पर्याप्तका द्वयज्ञानिन एवेत्यर्थः । 'पजत्ता णं भंते ! पंचिंदियतिरिक्खे' त्यादि, पर्याप्तकपञ्चेन्द्रियतिरश्चामवधिविभङ्गो वा केषाञ्चित्स्यात्केषाञ्चित्पुनर्नेति त्रीनि ज्ञानान्यज्ञानानि वा द्वेवा ज्ञाने अज्ञाने वा तेषां स्यातामिति 'बेइंदियाणंदो नाणे'त्यादि, अपर्याप्तकद्वीन्द्रियादीनांकेषाञ्चित्सासादनसम्यग्दर्शनस्य सद्भावाद् द्वेज्ञाने केषाञ्चित्पुनस्तस्यासभावाद्दे एवाज्ञाने।अपर्याप्तकमनुष्याणांपुनः सम्यग्धशामवधिभावे त्रीनि ज्ञानानियथातीर्थःकराणां, तदभावेतुद्वेज्ञाने, मिथ्याध्शांतुद्वेएवाज्ञाने, विभङ्गस्यापर्याप्तकत्वे तेषामभावात्, अत एवोक्तं 'तिनि नाणाई भयणाए दो अन्नाणाई नियम'त्ति। वाणमंतरे त्यादि, व्यन्तरा अपर्याप्तकानारका इव त्रिज्ञानाद्वयज्ञानास्त्र्यज्ञानावावाच्याः, तेष्वप्यसज्ञिभ्य उत्पद्यमानानामपर्याप्तकानां विभङ्गाभावात् शेषाणांचावधेर्विभङ्गस्यवाभावात् 'जोइसिए'त्यादि, एतेषु हि सज्ज्ञिभ्य एवोत्पद्यन्ते,तेषां चापर्याप्तकत्वेऽपि भवप्रत्ययस्यावधेर्विभङ्गस्य चावश्यम्भावात् त्रीनिज्ञानान्यज्ञानानि वास्युरिति। नोपजत्तगनोअपजत्तगति सिद्धाः। For Private & Personal Use Only Jain Education International www.jainelibrary.org
SR No.003339
Book TitleAgam Sutra Satik 05 Bhagavati AngSutra 05
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherAgam Shrut Prakashan
Publication Year2000
Total Pages1096
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari, Agam, Canon, Agam 05, & agam_bhagwati
File Size23 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy