SearchBrowseAboutContactDonate
Page Preview
Page 370
Loading...
Download File
Download File
Page Text
________________ शतकं-८, वर्ग:-, उद्देशकः-२ ३६७ यथा राजप्रश्नकृते द्वितीयोपाङ्गे ज्ञानानां भेदो भनितस्तथैवेहापि भनितव्यः, सचैवम् "से किं तं उग्गहे?, उग्गहे दुविहे पन्नत्ते, तंजहा-अत्थोग्गहे यवंजणोग्गहेय इत्यादिरिति, यच्च वाचनान्तरे श्रुतज्ञानाधिकारे यथा नन्द्यामङ्गप्ररूपणेत्यभिधाय 'जाव भवियअभविया तत्तो सिद्धा असिद्धा येत्युक्तं तस्यायमर्थः-श्रुतज्ञानसूत्रावसाने किल नन्द्यां श्रुतविषयं दर्शयतेदमभिहितम्-'इच्चेयंमिदुवालसंगे गनिपिड अनंता भावा अनंता अभावाजाव अनंता भवसिद्धिया अनंता अभवसिद्धिया अनंता सिद्धाअनंताअसिद्धा पन्नत्ते'ति, अस्यच सूत्रस्य या सङ्गहगाथा॥१॥ "भावमभावा हेऊमहेउ कारणमकारणा जीवा। अजीव भवियाऽभविया तत्तो सिद्धा असिद्धाय ।।" इत्येवंरूपातस्याः खण्डमिदमेतदन्तं श्रुतज्ञानसूत्रमिहाध्येयमिति ॥ज्ञानविपर्ययस्त्वज्ञानमिति तत्सूत्रम्-तत्रच 'अन्नाणेत्ति नञः कुत्सार्थःत्वात् कुत्सितं ज्ञानमज्ञानं, कुत्सितत्वं च मिथ्यात्वसंवलितत्वात्, उक्चञ्च॥१॥ "अविसेसिया मइच्चिय सम्मद्दिष्ट्ठिस्स सा मइन्नाणं । मइअन्नाणं मिच्छद्दिहिस्स सुयंपिएमेव ।।" 'चिभंगनाणे' त्तिविरुद्धाभङ्गा-वस्तुविकल्पायस्मिंस्तद्विभङ्गतच्चतज्ज्ञानंच अथवा विरूपो भङ्गः-अवधिभेदो विमङ्गः सचासौ ज्ञानं चेति विभङ्गज्ञानम्, इहचकुत्सा विभङ्गशब्देनैव गमितेति न ज्ञानशब्दो नञा विशेषितः। 'अत्थोग्गहेय'त्तिअर्थ्यत इत्यर्थःस्तस्यावग्रहःअर्थावग्रहः-सकलविशेषनिरपेक्षानिर्देश्यार्थःग्रहणमेकसामयिकमितिभावार्थः, 'वंजणोग्गहे यत्तिव्यज्यतेऽनेनार्थः प्रदीपेनेवघटइतिव्यञ्जनं तचोपकरणेन्द्रियं शब्दादिपरणतद्रव्यसङ्घातोवा, ततश्च व्यञ्जनेन-उपकरणेन्द्रियेण व्यञ्जनानांवाशब्दादिपरिणतद्रव्याणाभवग्रहो व्यञ्जनावग्रहः, अत्रार्थावग्रहस्य सुलक्ष्यत्वात् सकलेन्द्रियारथव्यापकत्वाच्च प्रथममुपन्यासः, “एवंजेहेव'त्यादि, यथैवाभिनिबोधिकज्ञानमधीतं तथैव मत्यज्ञानमप्यध्येयं, तच्चैवम्-1 _ 'से किंतंबंजणोग्गहे ?,२ चउबिहे पत्रत्ते, तंजहा-सोइंदियवंजणोग्गहेधाणिदियवंजजोग्गहे जिभिदियवंजणोग्गहे फार्सिदियवंजणोग्गहे' इत्यादि, यश्चेह विशेषस्तमाह-'नवरं एगठियवनं ति इहाभिनिबोधिकज्ञाने' 'उग्गिण्हणया अवधारणया सवणया अवलंबणया मेहे त्यादीनि पञ्च पञ्चैकार्थिःकान्यवग्रहादीनामधीतानि, मत्यज्ञानेतुन तान्यध्येयानीति भावः, 'जाव नोइंदियधारण'त्ति इदमन्त्यपदं यावदित्यर्थः । इमंअनानिएहितियदिदम् अज्ञानिकैः निनिः, तत्राल्पज्ञानभावादधनवदशीलवद्वा सम्यग्दृष्टयोऽप्यज्ञानिकाः प्रोच्यन्तेऽतएवाह-मिथ्याष्टिभिः, 'जहानंदीए'त्ति, तत्रैवमेतत्सूत्रम्'सच्छंदबुद्धिमइविगप्पियं तंजहा-भारहं रामायण'मित्यादि, तत्रावग्रहेहे बुद्धिः अवायधारणेच मतिः, स्वच्छन्देन-स्वाभिप्रायेण तत्त्वतः सर्वज्ञप्रणीतार्थानुसारमन्तरेण बुद्धिमतिभ्यां विकल्पितं स्वच्छन्दबुद्धिमतिविकल्पितं-स्वबुद्धिकल्पनाशिल्पनिर्मितमित्यर्थः 'चत्तारिय वेय'त्ति नाम ऋक् यजुः अथर्वा चेति 'संगोवंग'त्ति इहाङ्गानि-शिक्षादीनि षट् उपाङ्गानि च-तद्वयाख्यानरूपानि 'गामसंठिए'त्तिग्रामालम्बनत्वाद्ग्रामाकारम्, एवमन्यान्यपि, नवरं वाससंठिए'त्ति भरतादिवर्षा Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.003339
Book TitleAgam Sutra Satik 05 Bhagavati AngSutra 05
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherAgam Shrut Prakashan
Publication Year2000
Total Pages1096
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari, Agam, Canon, Agam 05, & agam_bhagwati
File Size23 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy