SearchBrowseAboutContactDonate
Page Preview
Page 364
Loading...
Download File
Download File
Page Text
________________ शतकं-८, वर्गः-, उद्देशकः-१ ३६१ नकेत्वाभ्यामेकः पुनर्विपर्ययेणैक इत्येवं द्वादश त्रिकयोगे तु चत्वार इत्येवं सर्वेऽपि विंशतिरिति सूत्रेतु कांश्चिदुपदर्य शेषानतिदेशतआह-‘एवं दुयासंजोगो'इत्यादि, 'एत्थवितहेव'त्ति अत्रापिद्रव्यत्रयाधिकारे तथैव वाच्यं सूत्रं यथा द्रव्यद्वयाधिरे उक्तं, तत्र च मनोवाक्कायप्रभेदतो यः प्रयोगपरिणामो मिश्रतापरिणामो वर्णादिभेदतश्च विश्रसापरिणाम उक्तः स इहापि वाच्य इति भावः, किमन्तं तत्सूत्रं वाच्यम् ? इत्याह-'जावे'त्यादि, इह च परिमण्डलादीनि पञ्च पदानि तेषु चैकत्वेपञ्च विकल्पाः द्विकसंयोगेतुविंशति, कथम्?,आद्यस्यैकत्वे शेषाणां च क्रमेणानेकत्वे तथाऽऽधस्यानेकत्वे शेषाणांतुक्रमेणैवैकत्वे एवं द्वितीयस्यैकत्वेऽनेकत्वेचशेषत्रयस्य चानेकवे एकत्वे च षट् तथा तृतीयस्यैकत्वेचद्वयोश्चानेकत्वे एकत्वेचचत्वारः तथा चतुर्थःस्यैकत्वेऽनेकत्वे च पञ्चमस्य चानेकवे एकत्वे च द्वावित्येवं सर्वेऽपि विंशतिः। त्रिकयोगे तु दश अत्रच अहवा एगे तंससंठाणे इत्यादिना त्रिकयोगानां दशमो दर्शित इति । ___ अथ द्रव्यचतुष्कमाश्रित्याह-'चत्तारि भंते !' इत्यादि, इह प्रयोगपरिणतादित्रये एकत्वे त्रयो द्विकसंयोगे तु नव, कथम्?, आद्यस्यैकत्वे द्वयोश्च क्रमेण त्रित्वे द्वौ, तथाऽऽद्यस्य द्वित्वे द्वयोरपिक्रमेणैव द्वित्वेऽन्यौ द्वौ, तथाऽऽद्यस्य त्रित्वे द्वयोश्च क्रमेणैवैकत्वेऽन्यौ द्वौ, तथा द्वितीयस्यैकत्वेऽन्यस्य त्रित्वे तथा द्वयोरपि द्वित्वे तथा द्वितीयस्य त्रित्वेऽन्यस्य चैकत्वे त्रयोऽन्ये इत्येवं सर्वेऽपि नव त्रययोगे तु त्रय एव भवन्तीत्येवं सर्वेऽपि पञ्चदश इति। 'जइ पओगपरिणया किं मणप्पओगे'त्यादिनाचोक्तशेषं द्रव्यचतुष्कप्रकरणमुपलक्षितं, तच पूर्वोक्तानुसारेण संस्थानसूत्रान्तमुचितभङ्गकोपेतं समस्तमध्येयमिति । अथ पञ्चादिद्रव्यप्रकरणान्यतिदेशतोदर्शयन्नाह-'एवं एएण'मित्यादि,एवंचाभिलापः-'पंचभंते! दव्वा किंपओगपरिणया ३?, गोयमा! पओगपरिणया ३ अहवा एगे पओगपरिणए चत्तारि मीसापरिणया' इत्यादि, इह च द्विकसंयोगे विकल्पा द्वादश, कथम् ?, एकं चत्वारि च १ द्वे त्रीनि च २ त्रीनि द्वे च ३ चत्वार्येकं च ३ इत्येवं चत्वारो विकल्पा द्रव्यपञ्चकमाश्रित्यैकत्र द्विकसंयोगे पदत्रयस्य त्रयो द्विकसंयोगास्ते च चतुर्भिर्गुनिता द्वादशेति, निकयोगे तु षट्, कथम्?, त्रीण्येकमेकं च १ एकं त्रीण्येकं च २ एकमेकं त्रीनि च ३ द्वे द्वे एकंच ४ द्वे एक द्वेच ५ एकं द्वे द्वे च ६ इत्येवं षट्, 'जाव दससंजोएणं ति इह यावत्करणाच्चतुष्कादिसंयोगाः सूचिताः, तत्रचद्रव्यपञ्चकापेक्षया सत्यमनप्रयोगादिषु चतुर्षु पदेषु द्विकत्रिकचतुष्कसंयोगा भवन्ति । तत्र च द्विकसंयोगाश्चतुर्विंशति २४, कथम् ?, चतुर्णां पदानां षट् द्विकसंयोगाः, तत्र चैकैकस्मिन्पूर्वोक्तक्रमेण चत्वारो विकल्पाः पन्नांच चतुर्भिगुणने (च) चतुर्विंशतिरिति, त्रिकसंयोगा अपि चतुर्विंशति, कंथम् ?, चतुर्णां पदानां त्रिकसंयोगाश्चत्वारः, एकैकस्मिन् पूर्वोक्तक्रमेण षड् विकल्पाः, चतुर्णां च षभिर्गुणने चतुर्विंशतिरिति, चतुष्कसंयोगे तु चत्वारः, कथम् ?, आदौ, द्वे त्रिषु चैकैकं १ तथा द्वितीयस्थाने द्वेशेषेषु चैकैकं २ तथा तृतीये स्थाने द्वेशेषेषु चैकैकं ३ तथा चतुर्थे द्वे शेषेषु चैकैकम् ४ इत्येवं चत्वार इति, एकेन्द्रियादिषु तु पञ्चसु पदेषु द्विकचतुष्कपञ्चकसंयोगा भवन्ति, तत्र च द्विकसंयोगाश्चत्वारिंशत् ।। ___कथम्?, पञ्चानांपदानां दशद्विकसंयोगा एकैकस्मिंश्चद्विकसंयोगेपूर्वोक्तक्रमेण चत्वारो Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.003339
Book TitleAgam Sutra Satik 05 Bhagavati AngSutra 05
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherAgam Shrut Prakashan
Publication Year2000
Total Pages1096
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari, Agam, Canon, Agam 05, & agam_bhagwati
File Size23 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy