SearchBrowseAboutContactDonate
Page Preview
Page 363
Loading...
Download File
Download File
Page Text
________________ ३६० भगवतीअङ्गसूत्रं ८/-19/३८७ जत्थ जत्तिया संजोगा उडेति ते सव्वे भानियव्वा, एए पुण जहा नवमसए पवेसणए भनिहामि तहा उपजुञ्जिऊण भानियव्वा जाव असंखेज्जा अनंता एवं चेव, नवरं एकंपदं अब्भहियं, जाव अहवा अनंता परिमंडलसंठाणपरिणया जाव अनंता आययसंठाणपरिणया।। वृ. 'दोभंते!' इत्यादि, इह प्रयोगपरिणतादिपदत्रये एकत्वत्रयो विकल्पाः, द्विकयोगेऽपि त्रय एवेत्येवं षट्, एवं मनः-प्रयोगादित्रयेऽपि, सत्यमनःप्रयोगपरिणतादीनि तु चत्वारि पदानि तेष्वेकत्वे चत्वारि द्विकयोगे तु षट् एवं सर्वेऽपि दश, आरम्भसत्यमनःप्रयोगपरिणतादीनि च षट्पदानि, तेष्वेकत्वे षड् द्विकयोगे तु पञ्चदश सर्वेऽप्येकविंशति६।। सूत्रेच अहवाएगेआरंभसच्चमणप्पओगपरिणए'इत्यादिनेहद्विकयोगे प्रथम एव भङ्गको दर्शितः, शेषांस्तदन्यपदसम्भवांश्चातिदेशेन पुनर्दर्शयतोक्तम्-एवंएएणंगमेणं इत्यादि एवमेतेन गमेनारम्भसत्यमनःप्रयोगादिपदप्रदर्शितेन द्विकसंयोगेननेतव्यंसमस्तंद्रव्यद्वयसूत्रं, द्विकसंयोगस्य चैकत्वविकल्पाभिधानपूर्वकत्वादेकत्वविकल्पैश्चेति दृश्य, तत्र च यत्रारम्भसत्यमनः प्रयोगादिपदसमूहे यावन्तो द्विकसंयोगा उत्तिष्ठन्ते सर्वे ते तत्र भनितव्याः, तत्र चारम्भसत्यमनः प्रयोगा दर्शिता एव, आरम्भादिपदषट्कविशेषितेषु पुनरित्थमेव त्रिषु मृषामनःप्रयोगादिषु, चतुषु च सत्यवाक्प्रयोगादिषुतु प्रत्येकमेकत्वे षड् विकल्पाः। द्विकसंयोगे तु पञ्चदशेत्येवं प्रत्येकमेवमेव सर्वेष्वप्येकविंशति, औदारिकशरीरकायप्रयोगादिषुतुसप्तसुपदेष्वेकत्वे सप्त द्विकयोगे त्वेकविंशतिरित्येवमष्टाविंशतिरिति एवमेकेन्द्रियादिपृथिव्यादिपदप्रभृतिभि पूर्वोक्तक्रमेणौदारिकादिकायप्रयोगपरिणतद्रव्यद्वयंप्रपञ्चनीयं, कियबरं यावत्? इत्याह-'जाव सव्वट्ठसिद्धग'त्ति, एतच्चैवं-'जाव सव्वसिद्धअनुत्तरोववाइयकप्पातीतगवेमानियदेवपंचेदियकम्मासरीरकायप्पओगपरिणया किं पञ्जत्तसव्वट्ठसिद्धजावपरिणया अपजत्त सवठ्ठसिद्धजावपरिणयावा?,गोयमा! पज्जत्तसम्बठ्ठसिद्ध जाव परिणयावाअपज्जत्तसवठ्ठसिद्ध जावपरिणयावा?, अहवाएगे पञ्जत्तसव्वट्ठसिद्ध जाव परिणए एगेअपज्जत्त सव्वट्ठसिद्ध जाव परिणए'त्ति। “एवं वीससापरिणयाविति एवमिति-प्रयोगपरिणतद्रव्यद्वयवप्रत्येकविकल्पैद्विकसंयोगैश्च विश्रसापरिणते अपि द्रव्ये वर्णगन्धरसस्पर्शसंस्थानेषु पञ्चादिभेदेषु वाच्ये, कियडूरं यावत् ? इत्याह-'जाव अहवेगे'इत्यादि, अयंच पञ्चभेदसंस्थानस्य दशानां द्विकसंयोगानां दशम इति । ___ अथ द्रव्यत्रयं चिन्तयन्नाह-'तिनी' त्यादि, इह प्रयोगपरिणतादिपदत्रये एकत्वे विकल्पाः द्विकसंयोगे तुषट्, कथम् ?,आद्यस्यैकत्वे शेषयोः क्रमेण द्वित्वे द्वौ तथाऽऽद्यस्य द्वित्वे शेषयोः क्रमेणैकत्वेऽन्यौ द्वौ ४ तथा द्वितीयस्यैकत्वे तृतीयस्य च द्वित्वेऽन्यः ५ तथा द्वितीयस्य द्वित्वे तृतीयस्यचैकत्वेऽन्यः ६इत्येवंषट्, त्रिकयोगेत्वेकएवेत्येवंसर्वे दश,एवंमनःप्रयोगादिपदत्रयेऽपि, अतएवाह 'एवमेक्कगसंजोगो' इत्यादि, सत्यमनःप्रयोगादिनि तु चत्वारि पदानीत्यत एकत्वे चत्वारो द्विकसंयोगे तु द्वादश, कथम्?, आद्यस्यैकत्वेन शेषाणां त्रयाणां क्रमेणानेकत्वेन त्रयो लब्धाः, पुनरन्ये त्रय आद्यस्यानेकत्वेन शेषाणां त्रयाणां क्रमेणैकत्वेन ६, तथा द्वितीयस्यैकत्वेन शेषयोः क्रमेणानेकत्वेन द्वौ, पुनर्द्वितीयस्यानेकत्वेनशेषयोः क्रमेणैवैकत्वेन द्वावेव तृतीय चतुर्थःयोरेकत्वा Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.003339
Book TitleAgam Sutra Satik 05 Bhagavati AngSutra 05
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherAgam Shrut Prakashan
Publication Year2000
Total Pages1096
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari, Agam, Canon, Agam 05, & agam_bhagwati
File Size23 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy