________________
शतकं ७, वर्गः, उद्देशक:- ९
३३९
सन्नद्धः-कृतसन्नाहोवार्म्मिकसंनद्धः बद्धा कवचिका-सन्नाहविशेषोयस्य स बद्धकवचिकः उत्पीडितागाढीकृता वक्षसि कक्षा- हृदयरज्जुर्यस्य स तथा ग्रैवेयकं बद्धं गलके यस्य स तथा वरभूषणैर्विराजितो यः स तथा ततः कर्म्मधारयोऽतस्तम् 'अहियतेयजुत्तं विरइयवरकण्मपूरसललियपलंबावचूलचामरोयरकयंधयारं' विरचते वरकर्णपूरे-प्रधानकर्णाभरणविशेषौ यस्य स तथा सललितानि प्रलम्बानि अवचूलानि यस्य स तथा चामरोत्करेण कृतमन्धकारं यत्र स तथा ततः कर्मधारयोऽतस्तं
'चित्तपरिच्छोयपच्छयं' चित्तपरिच्छोको लघुः प्रच्छदो- वस्त्रविशेषो यस्य स तथाऽतस्तं ‘कणगघडियसुत्तगसुबद्धकच्छं' कनकघटितसूत्रकेण सुष्ठु बद्धा कक्षा-उरोबन्धनं यस्य स तथा तं 'बहुपहरणावरणाभरियजुज्झसज्झं' बहूनां प्रहरणाना ( मस्यादीना) मावरणानां च-स्फुरकंकटकादीनां भृतो युद्धसज्जश्च यः स तथाऽतस्तं 'सछत्तं सज्झयं सघंटं' 'पंचामेलियपरिमंडि-याभिरामं' पञ्चभिरापीडिकाभः- चूडाभिः परिमण्डितोऽभिरामश्च रम्यो यः स तथाऽतस्तम् 'ओसारियजमलजुलयघंटं' अवसारितं-अवलम्बितं यमलं समंयुगलं-द्वयं घण्टयोर्यत्र स तथाऽतस्तं 'विजुपिणद्धं व कालमेहं' भास्वरप्रहरणाभरणादीनां विद्युत्कल्पता कालत्वाच्च गलस्य मेघसमतेति 'उप्पाइयपव्वयं व सक्खं' औत्पादिकपर्वतमिव साक्षादित्यर्थः 'मत्तं मेहमिव गुलुगुलंतं मनपवणज - इणवेगं' मनःपवनजयी वेगो यस्य स तथाऽतस्तं, शेषं तुलिखितमेवास्ति, वाचनान्तरे त्विदं साक्षाल्लिखितमेव दृश्यत इति ।
'कयबलिकम्मे’त्ति देवानां कृतबलिकर्म्मा 'कयकोउयमंगलापायच्छित्ते' त्ति कृतानि कौतुक - मङ्गलान्येव प्रायश्चित्तानीव दुःस्वप्नादिव्यपोहायावश्यं कर्त्तव्यत्वात् प्रायश्चित्तानि येन स, तथा, तत्र कौतुकानि - मषीपुण्ड्रादीनि मङ्गलानि - सिद्धार्थः कादीनि 'सन्नद्धबद्धवम्मियकवए' त्ति सन्नद्धः संहननिकया तथा बद्धः कशाबन्धनतो वर्मितोः वर्म्मतया कृतोऽङ्गे निवेशनात् कवचः कङ्कटो येन स तथा ततः कर्मधारयः, 'उप्पीलियसरासणपट्टिए' त्ति उत्पीडिता गुणसारणेन कृतीवपीडा शरासनपट्टिका-धनुर्दण्डो येन स तथा, उत्पीडिता वा बाही बद्धा शरासनपट्टिका - बाहुपट्टिका येन स तथा, 'पिणद्धगेवेज्ज विमलवरबद्धचिंधपट्टे' त्ति पिनद्धं परिहितं ग्रैवेयकं ग्रीवाभरणं येन स तथा विमलवरो बद्धश्चिह्नपट्टी-योधचिह्नपट्टो येन स तथा, ततः कर्म्मधारयः ।
'गहियाउहपहरणे' त्ति गृहीतानि आयुधानि शस्त्रानि प्रहरणाय परेषां प्रहारकरणाय येन स तथा, अथवाऽऽयुधानि - अक्षेप्यशस्त्रानि खङ्गादीनि प्रहरणानि तु क्षेप्यशस्त्रानि नाराचादीनि ततो गृहीतान्यायुधप्रहरणानि येन स तथा, 'सकोरिंटमल्लदामेणं' ति सह कोरिण्टप्रधानैः - कोरिण्टकाभिधानकुसुमगुच्छैर्माल्यदामभि-पुष्पमालाभिर्यत्तत्तथा तेन, 'चउचामरवालवीइयंगे' ति चतुर्णां चामराणां वालैर्वीजितमङ्गं यस्य स तथा, 'मंगलजयसद्दकयालोए' त्ति मङ्गलो- माङ्गल्यो जयशब्दः कृतो- जनैर्विहित आलोके-दर्शने यस्य स तथा
'एवं जहा उववाइए जाव' इत्यनेनेदं सूचितम् -'अनेगगणनायगदंडनायगराईसरतलवरमाडंबियकोडुंबियमंतिमहामंतिगणगदवारिय अमञ्चचेडपीढमद्दणगरनिगम सेट्टे सेनावइसत्थवाहदूयसंघिपाल सद्धिं संपरिवुडे धवलमहामेहनिग्गएविव गहगणदिप्पंतरिक्ख- तारागणाण मज्झे ससिव्व पियदंसणे नरवई मज्झणधराओ पडिनिक्खमइ मज्जणधराओ पडिनिक्खमित्ता जेणेव बाहिरिया उचट्ठाणसाला जेणामेव उदाई हत्थिराया तेणामेव उवागच्छइ'त्ति
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org