________________
३३८
तिनः २ कोटयः, कूणिकस्याप्येवमेव ।
एनं च व्यतिकरं ज्ञात्वा चेटकेनाप्यष्टादश गणराजा मिलिताः, तेषां चेटकस्य च प्रत्येकमेवमेव हस्त्यादिपरिमाणं, ततो युद्धं संप्रलग्नं, चेटकराजश्च प्रतिपन्नव्रतत्वेन दिनमध्ये एकमेव शरं मुञ्चति, अमोधबाणश्च सः, तत्र च कूनिकसैन्ये गरुडव्यूहः, चेटकसैन्ये च सागरव्यहो विरचितः, ततश्च कूणिकस्य कालोदण्डनायको युद्धयमानस्तावद्गतो यावच्चेटकः, ततस्तेनैकशरनिपातेनासौ निपातितो, भग्नं च कूणिकबलं, गते च द्वे अपि बले निजं निजमावासस्थानम् एवं च दशसु दिवसेसु चेटकेन विनाशिता दशापि कालादयः, एकादशे तु दिवसे चेटकजयार्थं देवताराधनाय कूणिकोऽष्टमभक्तं प्रजग्राह ।
ततः शक्रचमरावागतौ, ततः शक्रो बभाण- चेटकः श्रायक इत्यहं न तं प्रति प्रहरामि नवरं भवन्तं संरक्षामि, ततोऽसौ तद्रक्षार्थं वज्रप्रतिरूपकमभेद्यकवचं कृतवान्, चमरस्तु द्वौ सङ्ग्रामी विकुर्वितवान्-महाशिलाकण्डकं रथमुशलं चेति ।।
भगवती अङ्गसूत्रं ७/-/९/३७२
'जइत्थ' त्ति जितवान् 'पराजइत्थ'त्ति पराजितवान् हारितवानित्यर्थः 'वज्जि' त्ति 'वज्री' इन्द्रः 'विदेहपुत्ते 'त्ति कोनिकः, एतावेव तत्र जेतारौ नान्यः कश्चिदिति 'नव मल्लइ' त्ति मल्लकिनामानो राजविशेषाः 'नव लेच्छइ' त्ति लेच्छकिनामानो राजविशेषा एव 'कासीकोसलग' त्ति काशी-वाणारसी तजनपदोऽपि काशी तत्सम्बन्धिन आद्या नव कोशला-अयोध्या तज्जनपदोऽपि कोशला तत्सम्बन्धिनो नव द्वितीयाः, 'गणरायाणो 'त्ति समुत्पन्ने प्रयोजने ये गणं कुर्वन्ति ते गणप्रधाना राजानो गणराजाः सामन्ता इत्यर्थ::, ते च तदानीं चेटकराजत्य वैशालीनगरीनायकस्य साहाय्याय गणं कृतवन्त इति ।
अथ महाशिलाकण्टके सङ्ग्रामे चमरेण विकुर्विते सति कूणिको यदकरोत्तद्दर्शनार्थःमिदमाह - 'तएण 'मित्यादि, ततो महाशिलाकण्टकसङ्ग्रामविकुर्व्वणानन्तरमुदायिनामानं 'हस्थिरायं' ति हस्तिप्रधानं 'पडिकप्पेह' त्ति सन्नद्धं कुरुत 'पञ्चपिणह' त्ति प्रत्यर्पयत निवेदयतेत्यर्थः, ‘हट्ठतुट्ठ' इह यावत्करणादेवं दृश्यम् -'हट्ठतुट्ठचित्तमाणंदिया नंदिया पीइमणा' इत्यादि, तत्र हष्टतुष्टंअत्यर्थं तुष्टं हृष्टं वा विस्मितं तुष्टं च तोषवञ्चितं मनो यत्र तत्तथा तद् हृष्टतुष्टचित्तं यथा भवति इत्येवमानन्दिता-ईषन्मुखसौम्यतादिभावैः समृद्धिमुपगताः, ततश्च नन्दिताः समृद्धितरतामुपगताः प्रीति - प्रीणनं - आप्यायनं मनसि येषां ते प्रीतिमनसः 'अंजलिं कट्टु' त्ति ।
इदं त्वेवं दृश्यम्- 'करयलपरिग्गहियं दसण्हं सिरसावत्तं मत्थए अंजलिं कट्टु' तत्र शिरसाऽ प्राप्तं - असंस्पृष्टं मस्तकेऽञ्जलिं कृत्वेत्यर्थः ' एवं सामी ! तहत्ति आणाए विनएणं वयणं पडिसुर्णेति त्ति एवं स्वामिन्! तथेति आज्ञया इत्येवंविधशब्दभणनरूपो यो विनयः स तथा तेन वचनं राज्ञः सम्बन्धि 'प्रतिच ण्वन्ति' अभ्युपगच्छन्ति 'छेयायरिओएसमइकप्पणाविगप्पेहिं 'ति छेको-निपुणो य आचार्य-शिल्पोपदेशदाता तस्योपदेशाद् या मति-बुद्धिस्तस्या ये कल्पनाविकल्पाः - कृतिभेदास्ते तथा तैः प्रतिकल्पयन्तीति योगः 'सुनिउणेहिं' ति कल्पनाविकल्पानां विशेषणं नरैर्वा सुनिपुणैः । 'एवं जहा उववाइए 'ति तत्र चेदं सूत्रमेवम्- 'उज्जलनेवत्थहन्वपरिवच्छियं' उज्ज्वलनेपथ्येननिर्मलवेषेण 'हव्वं 'ति शीघ्र परिपक्षितः परिगृहीतः परिवृतो यः स तथा सं, सुसज्जं 'वम्मियसन्नद्धबद्धकवइयउष्पीलियवच्छकच्छगेवेज्जगबद्ध गलगवरभूसणविराइयं' वर्त्मनि नियुक्तावार्म्मि कास्तैः
For Private & Personal Use Only
www.jainelibrary.org
Jain Education International