________________
शतकं -१, वर्ग:-, उद्देशक:- 9
कर्म्मद्रव्यवर्गणामधिकृत्येति । 'उयट्टिसु'त्ति अपवर्त्तितवन्तः, इहापवर्तनंकर्म्मणां स्थित्यादेरध्यवसायविशेषेण हीनताकरणम्, अपवर्त्तनस्य चोपलक्षणत्वादुद्वर्त्तनमपीह दृश्यं तच स्थित्यादेवृद्धिकरणस्वरूपं, 'संकामेंसु 'त्ति संक्रमितवन्तः, तत्र संक्रमणं मूलप्रकृत्यभिन्नानामुत्तरप्रकृतीनामध्यवसायविशेषेण परस्परं संचारणं, तथा चाह
119 11
119 ||
“मूलप्रकृत्यभिन्नाः संक्रमयति गुणत उत्तराः प्रकृतीः । नन्वात्माऽमूर्त्तत्वादध्यवसायप्रयोगेण ॥
-अपरस्त्वाह
"मोत्तूण आउयं खलु दंसणमोहं चरित्तमोहं च । साणं पगईणं उत्तरविहिसंकमो भणिओ ||
३१
एतदेव निदर्श्यते यथा कस्यचित्सद्वेद्यमनुभवतोऽशुभकर्मपरिणतिरेवंविधा जाता येन तदेव सद्वेद्यमसद्वेद्यतया संक्रामतीति, एवमन्यत्रापियोज्यमिति । 'निधत्तेंसु' त्तिनिधत्तान् कृतवन्तः, इह च विश्लिष्टानां परस्परतः पुद्गलानां निचयं कृत्वा धारणं रूढिशब्दत्वेन निधत्तमुच्यते, उद्वर्त्तनापवर्त्तनव्यतिरिक्तकरणा नामविषयत्वेन कर्म्मणोऽवस्थानमिति । 'निकाइंसु'त्त निकाचितवन्तः, नितरां बद्धवन्त इत्यर्थः, निकाचनं चैषामेव पुद्गलानां परस्परविश्लिष्टानामेकीकरणमन्योऽन्यावगाहिता अग्निप्रतप्तप्रतिहन्यमानशूचीकलापस्येव, सकलकरणानामविषयतया कर्मणो व्यवस्थापनमितियावत् । 'भिजंती'त्यादिपदानां संग्रहणी यथा ।
मू. (१७)
भेइयचिया उवचिया उदीरिया वेइया य निजिन्ना । उपट्टणसं कामणनिहत्तणनिकायणे तिविह कालो ॥
बृ. 'भेइय' इत्यादिगाथा गतार्था, नवरम्- अपवर्त्तनसंक्रमनिधत्तनिकाचनपदेषु त्रिविधः काली निर्देष्टव्यः, अतीतवर्त्तमानानागतकालनिर्देशेन तानि वाच्यानीत्यर्थः, इह चापवर्त्तनादीनामिव दादीनामपि त्रिकालता युक्ता, न्यायस्य समानत्वात्, केवलमविवक्षणान्न तन्निर्देशः सूत्रे कृत इति । अथ पुद्गलाधिकारादिदं सूत्रचतुष्टयमाह
मू. (१८) नेरइयाणं भंते! जे पोग्गले तेयाकम्मत्ताए गेव्हंति ते किं तीतकालसमए गेण्हंति पडुप्पन्नकालसमए गेण्हंति ? अणा० का० समए गेण्हंति ?, गोयमा ! नो तीयकालसमए गेण्हंति पडुप्पन्नकालसमए गेण्हंति नो अणा० समए गिण्हंति १ ।
नेरइयाणं भंते! जे पोग्गला तेयाकम्मत्ताए गहिए उदीरेति ते किं तीयकालसमयगहिए पोग्गले उदीरेति पडुप्पन्नकालसमए धेप्पमाणे पोग्गले उदीरेति गहणसमयपुरक्खडे पोग्गले उदीरेति गोयमा ! अतीयकालसमयहिए पोग्गले उदीरेति नो पडुप्पन्नकालसमए धेप्पमाणे पोग्गले उदीरेति नो गहणसमयपुरकूखडे पोग्गले उदीरेति २, एवं वेदेति ३ निज्जरेति ।
Jain Education International
वृ. 'नेरइयाण' मित्यादि व्यक्तं, नवरं 'तेयाकम्भत्ताए 'त्ति तेजः शरीरकार्म्मणशरीरतया, तद्रूपतयेत्यर्थः, 'अतीतकालसमए' त्ति कालरूपः समयो न तु समाचाररूपः कालोऽपि समयरूपो न तु वर्णादिस्वरूप इति परस्परेण विशेषणात् कालसमयः अतीतः कालसमयः अतीतकालस्य चोत्सर्पिण्यादेः समयः परमनिकृष्टोऽशोऽतीतकालसमयस्तत्र । पडुप्पन्न त्तिप्रत्युत्पन्नो वर्त्तमानः, नोऽतीतकालेत्यादी अतीतानगतकालविषय- ग्रहणप्रतिषेधो विषयातीतत्वात्, विषयातीतत्त्वं
For Private & Personal Use Only
www.jainelibrary.org