________________
भगवतीअगसूत्रं १/-19/१४ कार्यः, सर्वत्राभिधेयस्य तुल्यत्वात्, केवलं परिणतसूत्रानुसारेण प्रश्नसूत्राणि व्याकरणानि च मतिमताऽध्येयानीति, तत्र 'चिताः' शरीरे चयं गताः, उपचिताः' पुनर्बहुशः प्रदेशसामीप्येन शरीरे चिताएवेति, उदीरितास्तुस्वभावतोऽनुदितान्पुद्गलानुदयप्राप्ते कर्मदलिके करणविशेषेण प्रक्षिप्य यान् वेदयते, उदीरणा लक्षणंचेदम्-“जंकरणेणाकड्डिय उदए दिजइ उदीरणा एसा तथा 'वेदिताः' स्वेनरसविपाकेन प्रतिसमयमनुभूयमानाः अपरिसमाप्ताशेषानुभावाइति।तथा निर्जीणा' कार्थेनानुसमयमशेषतद्विपाकहानियुक्ता इति।
'गाह'त्तिपरिणतादिसूत्राणां संग्रहणाय गाथा भवति, सा चेयम् - मू. (१५) परिणय चिया उवचिय उदीरिया वेइया य निजिन्ना ।
एकेक्कमि पदमि चउब्विहा पोग्गला होति। वृ. 'परिणये'त्यादि व्याख्यातार्था, नवरम्-एकैकस्मिन्पदे परिणतचिपचितादौ चतुर्विधाः आहृताः १आहृता आह्रियमाणाश्च२ अनाहृता आहरिष्यमाणाश्च ३अनाहताअनाहरिष्यमाणाश्च ४, इत्येवं चतूरूपाः पुद्गला भवन्ति, प्रश्ननिर्वचनविषयाः स्युरिति।
पुद्गलाधिकारादेवेमामष्टादशसूत्रीमाह
मू. (१६) नेरइयाणं भंते ! कइविहा पोग्गला भिञ्जति ?, गोयमा ! कम्मदव्ववग्गणमहिकिच्च दुविहा पोग्गला भिजंति, तंजहा-अणू चेव बायरा चेव १/
__नेरइयाणं भंते ! कतिविहा पोग्गला चिजंति?, गोयमा! आहारदव्यवग्गणमहिकिच्च दुविहा पोग्गला चिजति, तंजहा-अणूंचेव बायरा चेव२। एवं उवचिजति ३ ।
नेर० क० पो० उदीरेति ? गो० ! कम्मदब्बवग्गणमहिकिच दुविहे पोग्गले उदीरेति, तं०-अणूं चेव बायरा चेव, सेसावि एवं चेव भाणियब्वा, एवं वेदेति ५ निजरेंति ६ उयटिंसु७ उबट्टेति ८ उव्वट्टिस्संति ९ संकामिंसु १० संकामेति ११ संकामिस्संति १२ निहत्तिसुं१३ निहत्तेति १४ निहत्तिस्संति १५ निकायंसु १६ निकायंति १७ निकाइस्संति १८ सब्वेसुवि कम्मदव्ववग्गणमहिकिञ्च गाहा
वृ. 'नेरइयाणंभंते! कइविहापोग्गला भिजती त्यादिव्यक्तं, नवरं भिजंतित्ति तीव्रमनदमध्यतयाऽनुभागभेदेन भेदवन्तो भवन्ति, उद्वर्तनकरणापवर्लकरणाभ्यां मन्दरसास्तीवरसाः तीव्ररसास्तुमन्दरसा भवन्तीत्यर्थः उत्तरम् ‘कम्मदव्ववग्गणमहिकिच्च'त्तिसमानजातीयद्रव्याणां राशिव्यवर्गणा, सा चौदारिकादिद्रव्याणामप्यस्तीत्यत आहकर्मरूपा द्रव्वर्गणा कर्मद्रव्याणां वा वर्गणाकर्मद्रव्यवर्गणा तामधिकृत्य-तामाश्रित्य, कर्मद्रव्यवर्गणासत्काइत्यर्थः कर्मद्रव्याणामेव च मन्देतरानुभावचिन्ताऽस्ति न द्रव्यान्तराणामितिकृत्वा कर्मद्रव्यवर्गणामधिकृत्येत्युक्तम् -
'अणूंचेव बायरा चेव'त्ति चेवशब्दः समुच्चायार्थः ततश्चाणवश्व बादराश्च, सूक्ष्माश्च स्थूलाश्चेत्यर्थः, सूक्ष्मत्वं स्थूलत्वं चैषां कर्मद्रव्यापेक्षयैवावगन्तव्यं नान्यापेक्षया, यत औदारिकादिद्रव्याणांमध्ये कर्मद्रव्याण्येव सूक्ष्माणीति। एवंचयोपचयोदीरणवेदननिर्जराःशब्दार्थभेदेन वाच्याः, किन्तु चयसूत्रे उपचयसूत्रे च आहारदब्बवग्गणमहिकिच्चेति यदुक्तं तत्रायमभिप्रायःशरीरमाश्रित्य चयोपचयौ प्राग व्याख्यातौ, तौ चाहारद्रव्येभ्य एव भवतो नान्यतः, अत आहारद्रव्यवर्गणामधिकृत्येत्युक्तमिति, उदीरणादयस्तु कर्मद्रव्याणामेव भवन्त्यतस्तत्सूत्रेषूक्तं
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org