SearchBrowseAboutContactDonate
Page Preview
Page 32
Loading...
Download File
Download File
Page Text
________________ शतकं-१, वर्ग:-, उद्देशकः-१ अथ नैरयिकाऽऽहाराधिकारात्तद्विषयमेव प्रश्नचतुष्टयमाह मू. (१३) नेरइयाणं भंते! पुवाहारिया पोग्गला परिणया १?,आहारिया आहारिज्जमाणा पोग्गला परिणया २?, अणाहारिया आहारिजिस्समाणा पोग्गला परिणया ३?, अणाहारिया अणाहारिजिस्समाणा पोग्गला परिणया? ४/ गोयमा! नेरइयाणपुव्वाहारिया पोग्गला परिणया १,आहारिया आहारिजमाणा पोग्गला परिणया परिणमंति य २, अणाहारिया आहारिजिस्समाणा पोग्गला नो परिणया परिणमिस्संति ३, अणाहारिया अणाहारिजिस्समाणा पोग्गला नो परिणता नो परिणमिस्संति ४। वृ. पुन्वाहारियत्ति ये पूर्वमाहताः-पूर्वकाल एकीकृताः संगृहीता इतियावत् अभ्यवहता वा 'पोग्गले ति स्कन्धाः 'परिणय'त्ति ते 'परिणताः' पूर्वकाले शरीरेण सह संपृक्ताः परिणति गता इत्यथः, इतिप्रथमः प्रश्नः १, इहच सर्वत्र प्रश्नत्वं काकुपाठादवगम्यते। तथा आहारिय'त्ति पूर्वकाले आहृताः' संगृहीताअभ्यवहृतावा, आहरिजमाण'त्तियेच वर्तमानकाले 'आह्रियमाणाः' सङगृह्यमाणा अभ्यवह्रियमाणा वा पुद्गलाः परिणय'त्ति ते परिणता इति द्वितीयः २ । तथा 'अणाहारिय'त्ति येऽतीतकालेऽनाहृताः ‘आहारिजिस्समाणे'त्ति ये चानागते काले आहरिष्यमाणाः पुद्गलास्ते परिणता इति तृतीयः ३। तथा 'अणाहारिया अणाहारिजिस्समाणा' इत्यादि अतीतानागताहरणक्रियानिषेधाच्चतुर्थः ४ । इह च यद्यपि चत्वार एव प्रश्ना उक्तास्तथाऽप्येते त्रिषष्टिः संभवन्ति, यतः पूर्वाहृता आहियमाणा आहरिष्यमाणा अनाहता अनाहियमाणाअनाहरिष्यमाणाश्चेतिषट्पदानीह सूचितानि, तेषु चैकैकपदाश्रयणेन षड्, द्विकयोगे पञ्चदश, त्रिकयोगेविंशतिः, चतुष्कयोगे पञ्चदश, पञ्चकयोगे षट्, षड्योगे एक इति । अत्रोत्तरमाह-'गोयमे त्यादि व्यक्तं, नवरं ये पूर्वमाहृतास्ते पूर्वकाल एव परिणताः, ग्रहणानन्तरमेव परिणामभावात् ११ ये पुनराहता आह्रियमाणाश्च ते परिणताः, आहृतानां परिणामभावादेव, परिणमन्तिच आह्रियमाणानां परिणामभावस्य वर्तमानत्वादिति २। वृत्तिकृतातुद्वितीयप्रश्नोत्तरविकल्पएवंविधो दृष्टः-यदुतआहृताआहरिष्यमाणाः पुद्गलाः परिणताः परिणंस्यन्ते च, यतोऽयं तेनैवं व्याख्यातः-यदुत ये पुनराहता आहरिष्यन्ते पुनस्तेषां केचित्परिणताः परिणताश्चये संपृक्ताः शरीरेण सह, येतुन तावत्संपृच्यन्ते कालान्तरे तुसंपृक्ष्यन्ते तेपरिणंस्यन्त इति ।ये पुनरनाहृता आहरिष्यन्तेपुनस्ते नो परिणताः, अनाहतानांसंपाभावेन परिणामाभावात्, यस्मात्त्वाहरिष्यन्ते ततः परिणस्यन्ते, आहृतस्यावश्यं परिणामभावादिति ३ । चतुर्थस्त्वतीतभविष्यदाहरणक्रियाया अभावेन परिणामाभावादवसेय इति ।। एतदनुसारेणैव प्राग्दर्शितविकल्पानामुत्तरसूत्राणि वाच्यानीति ।। अथ शरीरसंपर्कलक्षणपरिणामात्पुद्गलानांचयादयो भवन्तीति तद्दर्शनार्थं प्रश्नयन्नाह मू.(१४) नेरइयाणं भंते! पुवाहारिया पोग्गला चिया पुच्छ, जहा परिणया तहा चियावि, एवं चिया उवचिया उदीरिया वेइया निजिन्ना, गाहा वृ. 'नेरइयाणमित्यादिचयादिसूत्राणि परिणामसूत्रसमानीतिकृत्वाऽतिदेशतोऽधीतानीति, तथाहि-'जहा परिणया तहा चियावी'त्यादि, इह च पुस्तकेषु वाचनाभेदो दृश्यते तत्र न संमोहः Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.003339
Book TitleAgam Sutra Satik 05 Bhagavati AngSutra 05
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherAgam Shrut Prakashan
Publication Year2000
Total Pages1096
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari, Agam, Canon, Agam 05, & agam_bhagwati
File Size23 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy