SearchBrowseAboutContactDonate
Page Preview
Page 31
Loading...
Download File
Download File
Page Text
________________ भगवतीअङ्गसूत्रं 9/19/१२ अभिक्खणं नीससंतिआहच्च आहारेति ४?, हंता गोयमा! नेरइया सब्बओ आहारेंति । 'सव्वओ'त्ति सर्वात्मप्रदेशः अभिक्खणं तिअनवरतं पर्याप्तत्वेसति आहच्चे'तिकदाचित् न सर्वदा अपर्याप्तकावस्थायामिति। तथा 'कइभागं'तिआहारतयोपात्तपुद्गलानांकतिथं भागमाहारयन्ति इति वाच्यं, तचैवम्'नेरइयाणं भंते! जे पोग्गले आहारत्ताए गिर्हति तेणंतेसिं पोग्गलाणंसेयालंसि कइभागमाहारैति कइमागं आसायंति?, गो०! असंखेज्जइमार्ग आहारेंति अणंतमागं आसाइंति' 'सेया सित्ति एष्यत्काले, ग्रहणकालोत्तरकालमित्यर्थः, 'असंखेज्जइभागमाहारेति' इत्यत्र केचिद्वयाचक्षतेगवादिप्रथमवृहदग्रासग्रहणइवकांश्चिद्रगृहीतासद्धेयभागमात्रान् पुद्गलानाहारयन्तितदन्येतुपतन्तीति अन्ये त्वाचक्षते-ऋजुसूत्रनयदर्शनात्स्वशरीतया परिणतानामसङ्घयेयभागमाहारयन्ति, ऋजुसूत्रो हि गवादिप्रथमबृद्ग्रासग्रहण इव गृहीतानां शरीरत्वेनापरिणतानामाहारतां नेच्छति, शरीरतयापरिणानामपि केषाञ्चिदेविशिष्टाहारकार्यकारिणां तामभ्युपगच्छति, शुद्धनयत्वात्तस्येति अन्ये पुनरिस्थमभिदधि-'असंखेज्जइभागमाहारेति'त्ति शरीरतयापरिणमन्ति, शेषास्तु किट्टीभूय मनुष्याभ्यवहताहारवन्मलीभवन्ति, न शरीरत्वेन परिणमन्तीत्यर्थः। अनंतभागं आसाइंति'त्ति आहारतया गृहीतानामनन्तभागमास्वादयन्ति, तद्रसादीन् रसनादीन्द्रियद्वारेणोपलभन्ते इत्यर्थः ___सव्वाणि वत्ति दारं, तत्र सर्वाण्येवाहारद्रव्याण्याहारयन्तीति वाच्यं, वाशब्दः समुच्चये, तच्चैवम्-'नेरइयाणं भंते ! जे पग्गले आहारत्ताए परिणति ते किं सव्वे आहारेंति नो सव्वे आहरेंति?, गोया! सव्वे अपरिसेसिएआहारेति' इह विशिष्टग्रहणगृहीता आहारपरिणामयोग्या एव ग्राह्याः,उज्झितशेषा इत्यर्थः, अन्यथा पूर्वापरसूत्रयोर्विरोधः स्यात्, इयचैवंव्याख्या, यदाह “जंजह सुत्ते भणियंतहेव जइ तं वियालणा नत्थि। किंकालियानुओगो दिट्ठो दिट्ठिप्पहाणेहिं ।। 'कीसवभुजोर परिणमंति'त्तिद्वारगाथापदं, तब कीस'त्तिपदाक्यवेपदसमुदायोपचारात् 'कीसत्ताए'त्ति हश्य, किंस्वतया-किंस्वभावतया कीशतया वा केन प्रकारेण किंस्वरूपतयेत्यर्थ वाशब्दः समुच्चये, ‘भुजोत्ति भूयो भूयः' पुनः पुनः परिणमन्तिआहारद्रव्याणीति प्रकृतमित्येतदत्र वाच्यं, तच्चैवम् । ___ "नेरइया णं भंते ! जे पोग्गले आहारत्ताए गेहति ते णं' तेसिं पोग्गलर कीसत्ताए भुजो भुजो परिणमंति?, गो० सोइंदियत्ताए जावफासिदियत्ताए अणित्ताए अकंतत्ताए अपियत्ताए अमणुन्नत्ताए अमणामत्ताए अणिच्छियत्ताए अभिज्झियत्ताए अहत्ताए नो उडुत्ताए दुखत्ताए नो सुहत्ताए एएसि भुजो भुजो परिणमंति' तत्र ‘अनिष्टतया' सदैव तेषां सामान्येनावल्लभतया, तथा अकान्ततया' सदैवतद्भावेनाकमनीयतया, तथा 'अप्रियतया' सर्वेषामेव द्वेष्यतया,तथा 'अमनोज्ञतया' कथयाऽप्यमनोरमतया, तथा 'अमनोऽगम्यतया चिन्त-याऽपि अमनोगम्यतया, तथा 'अनीप्सिततया' आप्तुमनिष्टतया, एकाविते शब्दाः, “एहिल्झिय-त्ताए'त्तिअभिध्येयतया तृप्तेरनुत्पादकत्वेन पुनःपुनरप्यभिलाषनिमित्ततया, अहृद्यत्वेनेत्यन्ये, अशुभत्वेनेत्यर्थः, 'अहत्ताए'त्ति गुरुपरिणामतया ‘ने उद्दत्ताए'त्ति नो लघुपरिणामतयेति सङ्ग्रहगाथार्थः । इदं च सङ्ग्रहणिगाथाविवरणसूत्रं क्वचित् सूत्रपुस्तक एव ६श्यत इति । Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.003339
Book TitleAgam Sutra Satik 05 Bhagavati AngSutra 05
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherAgam Shrut Prakashan
Publication Year2000
Total Pages1096
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari, Agam, Canon, Agam 05, & agam_bhagwati
File Size23 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy