SearchBrowseAboutContactDonate
Page Preview
Page 316
Loading...
Download File
Download File
Page Text
________________ शतकं-७, वर्ग:-, उद्देशकः-१ ३१३ 'अकयमकारियमसंकप्पियमणाहूयमकीयगडमणुष्टुिं' अकृतं-साध्वर्थःमनिवर्तितं दायकेन, एवमकारितंदायकेनैव, अनेन विशेषणद्वयेनानाधाकर्मिकउपात्तः असङ्कल्पितं' स्वार्थं संस्कुर्वता साध्वर्थःतया न सङ्कल्पितम्, अनेनाप्यनाधाकर्मिक एव गृहीतः, स्वार्थःमारब्धस्य साध्वर्थं निष्ठां गतस्याप्याधाकर्मिकत्वात्, न च विद्यते आहूतं-आह्वानमामन्त्रणं नित्यं मद्गृहे पोषमात्रमन्नं ग्राह्यमित्येवंरूपं कर्मकराद्याकारणं वा साध्वर्थं स्थानान्तरादन्नाद्यानयनाय यत्र सोऽनाहूतःअनित्यपिण्डोऽनभ्याहृतो वेत्यर्थः, स्पर्धा वाऽऽहूतं तन्निषेधादनाहूतो, दायकेनास्पर्द्धया दीयमानमित्यर्थः, अनेन भावतोऽपरिणताभिधानएषणादोषनिषेधउक्तोऽतस्तम् ‘अक्रीतकृतं' क्रयेण साधुदेयं न कृतम्, अनुद्दिष्टम्-अनौद्देशिकं, 'नवकोडीपरिसुद्धंति इह कोटयो विभागा स्ताश्चेमाः बीजादिकं जीवं न हन्ति न घातयति घ्नन्तं नानुमन्यते ३, एवं न पचति ३ न क्रीणाति ३ इत्येवंरूपाः, 'दसदोसविप्पमुक्कं ति दोषाः-शङ्कितभ्रक्षितादयः 'उग्गमुपायणेसणासुपरिसुद्ध'ति उद्गमश्च-आघाकादि षोडशविधः उत्पादनाच-धात्रीदूत्यादिका षोडशविधैव उद्गमोत्पादने एतद्विषया या एषणा-पिण्डविशुद्धिस्तया सुष्टु परिशुद्धो यः स उद्गमोत्पादनैषणा- सुपरिशुद्धोऽतस्तम्, अनेन चोक्तानुक्तसङ्ग्रहः कृतः, वीताङ्गारादीनि क्रियाविशेषणान्यपि भवन्ति प्रायोऽनेन च ग्रासैषणाविशुद्धिरुक्ता। 'असुरसुरंत अनुकरणशब्दोऽयम्एमचवचवमित्यपि, ‘अदुयंतिअशीघ्रम् अविलंबियं'ति नातिमन्थरं 'अपरिसाडिति अनवयवोज्झनम् 'अक्खोवंजणवणानुलेवणभूयं तिअक्षोपाञ्जनं च-शकटधूम्रक्षणं व्रणानुलेपनं च-क्षतस्यौषधेन विलेपनं अक्षोपाञ्जनव्रणानुलेपने तेइव विवक्षितार्थःसिद्धिरसादिनिरभिष्वङ्गतासाधादयः सोऽक्षोपाञ्जनव्रणानुलेपनभूतोऽतस्तं, क्रियाविशेषणं वा, 'संजमजायामायावत्तिय'ति संयमयात्रा-संयमानुपालनं सैव मात्रा-आलम्बनसमूहांशः संयमयात्रामात्रा प्रत्ययो यत्र स तथाऽतस्तं संयमयात्रामात्राप्रत्ययं वा यथा भवति, एतदेव वाक्यान्तरेणाह। 'संयमभारवहणट्ठयाए'त्तिसंयम एव भारस्तस्यवहन-पालनंस एवार्थः संयमभारवहनार्थः स्तद्भावस्तत्तातस्यै, 'विलमिव पन्नगभूएणं अप्पाणेण तिबिलेइव-रन्ध्रेइव ‘पन्नगभूतेन' सर्पकल्पेन आत्मना करणभूतेनाहारमुक्तविशेषणम् ‘आहारयति' शरीरकोष्ठ के प्रक्षिपति, यथा किल बिले सर्पआत्मानं प्रवेशयति पावनिसंस्पृशन्एवंसाधुर्वदनकन्दरपावनिसंस्पृश-नाहारेण तदसञ्चारणतो जठरविले आहारं प्रवेशयतीति । _ 'एसणं ति एषः'अनन्तरोक्तविशेषणआहारः शस्त्रातीतादिविशेषणस्य पानभोजनस्य अर्थः-अभिधेयः प्रज्ञप्त इति ।। शतकं-७ उद्देशकः-१ समाप्तः __-शतकं-७ उद्देशकः-२:वृ. प्रथमोद्देशके प्रत्याख्यानिनो वक्तव्यतोक्ता द्वितीये तु प्रत्याख्यानं निरूपयन्नाह मू. (३३९) से नूनं भंते ! सव्वपाणेहिं सब्वभूएहिं सववजीवेहिं सव्वसत्तेहिं पञ्चक्खायमिति वदमाणस्स सुपञ्चक्खायंभवति दुपच्चक्खायंभवति?, गोयमा! सबपाणेहिंजाव सव्वसत्तेहिं For Private & Personal Use Only Jain Education International www.jainelibrary.org
SR No.003339
Book TitleAgam Sutra Satik 05 Bhagavati AngSutra 05
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherAgam Shrut Prakashan
Publication Year2000
Total Pages1096
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari, Agam, Canon, Agam 05, & agam_bhagwati
File Size23 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy