SearchBrowseAboutContactDonate
Page Preview
Page 315
Loading...
Download File
Download File
Page Text
________________ ३१२ भगवतीअङ्गसूत्रं७/-/१/३३७ कुक्कुट्यण्डकप्रमाणमात्रान्कवलानाहारम् 'आहारयति' कुर्वति साधौ ‘अल्पाहारः' स्तोकाहारः, चतुर्थाशरूपत्वात्तस्य, एवमुत्तरत्रापि 'आहारेमाणे' इत्येतत्पदंप्रथमैकवचनान्तंसप्तम्येकवचनान्तं वा व्याख्येयम्। _ 'अवड्डोमोयरिय'त्तिअवमस्य-ऊनस्योदरस्यकरणमवमोदरिका, अपकृष्टं-किञ्चिदूनमर्द्ध यस्यां साऽपार्द्धा द्वात्रिंशत्कवलापेक्षया द्वादशानामपार्द्धरूपत्वात् अपार्द्धा चासाववमोदरिका चेति समासः सा भवतीत्येवं सप्तम्यन्तव्याख्यानं नेयं, प्रथमान्तव्याख्यानं तु धर्मधर्मिणोरभेदादपा_वमौदरिकः साधुर्भवतीत्येवं नेतव्यं, 'दुभागप्पत्ते'त्ति द्विभागः-अर्द्ध तत्प्राप्तो द्विभागप्राप्त आहारो भवतीति गम्यं, द्विभागो वा प्राप्तोऽनेनेति द्विभागप्राप्तः साधुर्भवतीति गम्यम्। 'ओमोयरियत्तिअवमोदरिकाभवतिधर्मधर्मिणोरभेदाद्वाऽवमोदरिकः साधुर्भवतीति गम्यं, 'पकामरसभोइत्ति प्रकामं-अत्यर्थं रसानां-मधुरादिभेदानां भोगी-भोक्ताप्रकारमरसभोगीति मू. (३३८) अह भंते! सत्यातीयस्स सत्थपरिणामियस्स एसियस वेसियस समुदानियस्स पाणभोयणस्स के अड्डे पन्नत्ते? गोयमा! जेणं निग्गथे वा निग्गंधी वा निक्खित्तसत्थमुसले ववगयमालावन्नगविलेवणे ववगयधुयइयत्तत्तदेहं जीवविप्पजढं अकयमकारियमसंकप्पियमणाहूयमकीयकडमणुढ़ि नवकोडीपरिसुद्धं दसदोसविप्पमुक्कं उग्गमुप्पायसेसणासुपरिसुद्धं वीतिगालं वीतधूमं संजोयणादोसविप्पमुक्कं असुरसुरं अचवचवं अदुयमविलंबियं अपरिसाडी अक्खोवंजणवणाणुलेवणभूयं संयमजायामायावत्तियं संजमभारवहणट्टयाए बिलमिव पन्नगभूएणं अप्पाणेणं आहारमाहारेति एसणं गोयमा! सत्थातीयस्स सत्थपरिणामियस्स जाव पाणभोयणस्स अयमढे पन्नत्ते। . सेवं भंते ! सेवं भंते ! ति।। वृ. 'सत्थातीतस्स'त्ति शश्नाद्-अग्न्यादेरतीतं-उत्तीर्णं शस्त्रातीतम्, एवंभूतं च तथाविधपृथुकादिवदपरिणतमपि स्यादत आह- 'सत्थपरिणामियस्स'त्ति वर्णादीनामन्यथाकरणेनाचित्तीकृतस्येत्यर्थः, अनेन प्रासुकत्वमुक्तम्, 'एसियस्स'त्ति एषणीयस्य गवेषणाविशुद्ध्या वागवेषितसय 'वेसियस्सत्तिविशेषेणविविधैर्वाप्रकारेषितं-व्येषितं ग्रहणैषणाग्रासैषणाविशोधितं तस्य,अथवा वेषो मुनिनेपथ्यंसहेतुलभियस्यतद्वैषिकम्-आकारमात्रदर्शनादवाप्तंन त्वावर्जनया, अनेन पुनरुत्पादनादोषापोहमाह, सामुदानियस्स'त्तिततस्ततोभिक्षारूपस्य, किंभूतो निर्ग्रन्थः? इत्याह 'निक्खित्तसत्थमुसले'त्ति त्यक्तखङ्गादिशस्त्रमुशलः 'ववगयमालावन्नगविलेवणे'त्ति व्यपगतपुष्पमालाचन्दनानुलेपनः, स्वरूपविशेषणे चेमे न तु व्यवच्छेदाथै, निर्ग्रन्थानामेवंरूपत्वादेवेति, ‘ववगयचुयचइयचत्तदेहं तिव्यपगताः-स्वयं पृथग्भूता भोज्यवस्तुसंभवा आगन्तुका वाकृम्यादयःच्युता-मृताः स्वतएवपरतोवाऽभ्यवहार्यवस्त्वात्मकाः पृथिवीकायिकादयः चइयत्ति त्याजिता-भोज्यद्रव्यात्पृथक्कारितादायकेन 'चत्त'त्ति स्वयमेवदायकेन त्यक्ता-भक्ष्यद्रव्यात्पृथक्वता 'देहा' अभेदविवक्षया देहिनो यस्मात्स तथा तमाहारं, वृद्धव्याख्यातु व्यपगतः-ओघतश्चेतनाप यादपेतः च्युतः-जीवनक्रियातो भ्रष्टः च्यावितः-स्वत एवायुष्कक्षयेण भ्रंशितः त्यक्तदेहःपरित्यक्तजीवसंसर्गजनिताहारप्रभवोपचयः,___-तत एषांकर्मधारयोऽतस्तं, किमुक्तंभवति? इत्याह-'जीवविष्पजढं'तिप्रासुकमित्यर्थः For Private & Personal Use Only Jain Education International www.jainelibrary.org
SR No.003339
Book TitleAgam Sutra Satik 05 Bhagavati AngSutra 05
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherAgam Shrut Prakashan
Publication Year2000
Total Pages1096
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari, Agam, Canon, Agam 05, & agam_bhagwati
File Size23 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy