SearchBrowseAboutContactDonate
Page Preview
Page 310
Loading...
Download File
Download File
Page Text
________________ शतकं -७, वर्ग:-, उद्देशकः - १ ३०७ भरतस्य पूर्वभागात्पश्चिमं भागं याति द्वितीयेन तु तत ऐरवतपश्चिमं भागं ततस्तृतीयेन नरकमिति, अत्र चाद्ययोरनाहारकस्तृतीये त्वाहारकः, एतदेव दर्शयति- 'जीवा एगिंदिया य चउत्थे समये सेसा तइयसमए' त्ति । 'कं समयं सव्वप्पाहारए' त्ति कस्मिन् समये सर्वाल्पः सर्वथा स्तोको न यस्मादन्यः स्तोकतरोऽस्ति स आहारो यस्य स सर्वाल्पाहारः य एव सर्वालपाहारकः, 'पढमसमयोववन्नए'त्ति प्रथमसमय उत्पन्नस्य प्रथमो वा समयो यत्र तत् प्रथमसमयं तदुत्पन्नं- उत्पत्तिर्यस्य स तथा, उत्पत्तेः प्रथमसमय इत्यर्थः, तदाहारग्रहणहेतोः शरीरस्याल्पत्वात्सर्वाल्पाहारता भवतीति । 'चरमसमयभवत्थेव 'त्ति चरमसमये भवस्य जीवितस्य तिष्ठति यः स तथा, आयुषश्चरमसमय इत्यर्थः, तदानीं प्रदेशानां संहतत्वेनाल्पेषु शरीरावयवेषु स्थितत्वात्सर्वाल्पाहारतेति अनाहारकत्वं च जीवानां विशेषतो लोकसंस्थानवशाद्भवीति लोकप्ररूपणसूत्रम् - मू. (३२९) किंसंठिए णं भंते! लोए पन्नत्ते ?, गोयमा ! सुपइट्ठगसंठिए लोए पन्नत्ते, हेट्ठा विच्छिन्ने जाव उपिं उहंमइंगागारसंठिए । तेसिं णं सासयंसि लोगंसि हेट्ठा विच्छिन्नंसि जाव उपिं उहंमुइंगागारसंटियंसि उप्पन्ननाणदंसणधरे अरहा जिणे केवली जीवेवि जाणइ पासइ अजीवेवि जाणइ पासइ तओ पच्छा सिज्झति जाव अंतं करेइ ॥ बृ. 'सुपइट्टगसंठिए 'त्ति सुप्रतिष्ठकं शरयन्त्रकं तच्चेह उपरिस्थापितकलशादिकं ग्राह्यं, तथाविधेनैव लोकसाध्श्योपपत्तेरिति, एतस्यैव भावनार्थ: माह- 'हेट्ठा विच्छिन्ने' इत्यादि, यावत्करणात् 'भज्झे संखित्ते उप्पिं विसाले अहे पलियंकसंठाणसंटिए मज्झे वरवयरविग्गहिए' त्तिध्श्यं, व्याख्या चास्य प्राग्वदिति । अनन्तरं लोकस्वरूपमुक्तं, तत्र यत्केवली करोती तद्दर्शयन्नाह - 'तंसी' त्यादि 'अंतं करेइ' त्ति, अत्र क्रियोक्ता, अथ तद्विशेषमेव शरमणोपासकस्य दर्शयन्नाह मू. (३३०) समणोवासगस्स णं भंते ! सामाइयकडस्स समणोवासए अच्छमाणस्स तस्स गंभंते! किं इरियावहिया किरिया कज्जइ ? संपराइया किरिया कज्जइ ?, गोयमा ! नो इरियावहिया किरिया कजइ संपराइया किरिया कज्जइ, से केणट्टेणं जाव संप० गो० समणोवासयस्स णं सामाइयकडस्स समणोवासए अच्छमाण्स्स आया अहिगरणी भवइ आयाहिगरणवत्तियं चणं तस्स नो ईरियावहिया किरिया कज्जर संपराइया किरिया कजजई, से तेणट्टेणं जाव संपराइया वृ. 'समणे' त्यादि, 'सामाइयकडस्स' त्ति कृतसामायिकस्य, तथा 'श्रमणोपाश्रये' साधुवसता- वासीनस्य - तिष्ठतः 'तस्सण' न्ति यो यथार्थः स्तस्य श्रमणोपासकस्यैवेति, किलाकृतसामायिकस्य तथा साध्याश्रयेऽनवतिष्ठमानस्य भवति साम्परायिकी क्रिया, विशेषणद्वययोगे पुनरैर्यापथिकी युक्ता निरुद्धकषायत्वादित्याशङ्का अतोऽयं प्रश्नः । उत्तरं तु 'आयाहिकरणीभवति त्ति आत्मा जीवः अधिकरणानि हलशकटादीनि कषायाश्रयभूतानि यस्य सन्ति सोऽधिकरणी, ततश्च 'आयाहिकरणवत्तियं चणं' ति आत्मनोऽधिकरणानि आत्माधिकरणानि तान्येव प्रत्ययः - कारणं यत्र क्रियाकरणे तदात्माधिकरणप्रत्ययं साम्परायिकी क्रिया क्रियत इति योगः । मू. (३३१) समणोवासगस्स णं भंते! पुव्वामेव तसपाणसमारंभे पञ्चखाए भवति For Private & Personal Use Only www.jainelibrary.org Jain Education International
SR No.003339
Book TitleAgam Sutra Satik 05 Bhagavati AngSutra 05
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherAgam Shrut Prakashan
Publication Year2000
Total Pages1096
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari, Agam, Canon, Agam 05, & agam_bhagwati
File Size23 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy