________________
३०६
भगवतीअङ्गसूत्रं७/-1-1३२७ प्रज्ञापनार्थःश्चतुर्थः ४ ‘पक्खी यत्ति खचरजीवयोनिवक्तव्यतार्थः पञ्चमः ५।
_ 'आउ'त्तिआयुष्कवक्तव्यतार्थःषष्ठः अनगार'त्तिअनगारवक्तव्यतार्थःसप्तमः ७ छउमत्य'त्ति छद्मस्थमनुष्यवक्तव्यतार्थोऽष्टमः ८ 'असंवुड'त्ति असंवृतानगारवक्तव्यतार्थो नवमः ९ 'अन्नउस्थिय'त्ति कालोदायिप्रभृतिपरतीर्थिःकवक्तव्यतार्थो दशमः १० इति ॥
-शतकं-७ उद्देशक:-१:मू. (३२८) तेणं कालेणं तेणं समएणंजावएवं वदासी-जीवेणं भंते! कंसमयमनाहारए भवइ ?, गोयमा! पढमे समए सिय आहारएसिय अनाहारए बितिए समए सिय आहारए सिय अनाहारए ततिए समए सियआहारए सिय अणाहारए चउत्ये समए नियमा आहारए, एवंदंडओ।
जीवा य एगिंदिया य चउत्थे समए सेसा ततिए समए।
जीवेणंभंते! 'कंसमयंसव्वप्पाहारएभवति?, गोयमा! पढमसमयोववन्नए वाघरमसमए भवत्थे वा एत्थ णं जीवेणं सव्वप्पाहारए भवइ, दंडओ भानियव्वो जाव वैमानियाणं ।।
वृ. 'कं समयं अणाहारए'त्ति परभवं गच्छन् कस्मिन् समयेऽनाहारको भवति? इति प्रश्नः, उत्तरंतुयदाजीव ऋजुगत्योत्पादस्थानं गच्छतितदापरभवायुषःप्रथमएवसमये आहारको भवति, यदातु विग्रहगत्या गच्छति तदा प्रथमसमये वक्रेऽनाहारको भवति, उत्पत्तिस्थानानवाप्ती तदाहारणीयपुद्गलानामभावाद्, अत आह
___ "पढमे समए सिय आहारए सियअणाहारए'त्ति, तथायदैकेन वक्रेण द्वाभ्यां समयाभ्यामुत्पद्यते तदा प्रथमेऽनाहारको द्वितीये त्वाहारकः, यदा तु वक्रद्वयेन त्रिभिः समयैरुत्पद्यते तदा प्रथमे द्वितीयेचानाहारक इत्यत आह -
'बीयसमये सियआहारए सियअनाहारए'त्ति, तथा यदा वक्रद्वयेन त्रिभिः समयैरुत्पद्यते तदाऽऽद्ययोरनाहारकस्तृतीये त्वाहारकः, यदा तु वक्रत्रयेणचतुर्भिः सयमैरुत्पद्यते समयत्रयेऽनाहारकश्चतुर्थे तु नियमादाहारक इतिकृत्वा_ -'तइए समए सिय' इत्याधुक्तं, वक्रत्रयं चेत्यं भवति-नाड्या बहिर्विदिगव्यवस्थितस्य सतो यस्याधोलोकादूर्ध्वलोके उत्पादो नाड्या बहिरेव दिशि भवति सोऽवश्यमकेने समयेन विश्रेनितः समश्रेणी प्रतिपद्यते द्वितीयेन नाडीप्रविशति तृतीयेनोर्द्धलोकंगच्छति चतुर्थेन लोकनाडीतोनिर्गत्योत्पत्तिस्थाने उत्पद्यते, इहचाघेसमयत्रयेवक्रत्रयमवगन्तव्यं, समश्रेण्यैवगमनात्।
अन्ये त्याहुः-वक्रचतुष्टयमपि संभवति, यदा हि विदिशो विदिश्येवोत्पद्यते तत्र समयत्रयं प्राग्वत् चतुर्थे समये तु नाडीतो निर्गत्य समश्रेणिं प्रतिपद्यते पञ्चमेन तूत्पत्तिस्थान प्राप्नोति, तत्र चाघे समयचतुष्टये वक्रचतुष्टयं स्यात्, तत्र चानाहारक इति, इदं च सूत्रे न दर्शितं, प्रायेणेत्थमनुत्पत्तेरिति।
‘एवंदंडओ तिअमुनाऽभिलापेनचतुर्विशतिदण्डकोवाच्यः, तत्रचजीवपदेएकेन्द्रियपदेषु चपूर्वोक्तभावनयैवचतुर्थे समयेनियमादाहारक इति वाच्यं, शेषेषुतृतीयसमये नियमादाहारक इति, तत्र यो नारकादित्रसस्त्रसेष्वेवोत्पद्यते तस्य नाड्या बहिस्तादागमनं गमनं च नास्तीति तृतीयसमये नियमादाहारकत्वं, तथाहि -
यो मत्स्यादिभरतस्य पूर्वभागादैरवतपश्चिमभागस्याधो नेरकेषूत्पद्यते स एकेन समयेन
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org