________________
शतकं -६, वर्ग:-, उद्देशकः-८
नामः प्रदेशरूपं वा नाम - कर्मविशेष इत्यर्थः प्रदेशनाम तेन सह निधत्तमायुस्तठप्रदेशनामनिधत्तायुरिति
५।
२९९
'अनुभागनामनिधत्ताउए'त्ति अनुभाग- आयुर्द्रव्याणामेव विपाकस्तल्लक्षण एव नामपरिणामोऽनुभागनामः अनुभागरूपं वा नामकर्म अनुभागनाम तेन सह निधत्तं यदायुस्तदनुभागनामनिधत्तायुरिति ६ ।
अथ किमर्थं जात्यादिनामकर्म्मणाऽऽयुर्विशेष्यते ?, उच्यते, आयुष्कस्य प्राधान्योपदर्शनार्थं यस्मान्नारकाद्यायुरुदये सि जात्यादिनामकर्म्मणामुदयो भवति, नारकादिभवोपग्राहकं चायुरेव, यस्मादुक्तमिव ।
'नेरइए णं भंते! नेरइएसु उववज्जइ अनेरइए नेरइएसु उववज्जइ ?, गोयमा ! नेरइए नेरइए उबवजइनो अनेरइए नेरइएसु उववज्जइं त्ति, एतदुक्तं भवति नारकायुः प्रथमसमयसंवेदन एव नारका उच्यन्ते तत्सहचारिणांच पञ्चेन्द्रियजात्यादिनामकर्मणामप्युदय इति, इह चायुर्बन्धस्य षड्विधत्वे उपक्षिप्ते यदायुषः षड्विधत्वमुक्तं तदायुषो बन्धाव्यतिरेकाद्वद्धस्यैव चायुर्व्यपदेशशिष्यत्वादिति । 'दंडओ' त्ति 'नेरइयाणं भंते! कतिविहे आउयबंधे पन्नते' ? इत्यादिर्वैमानि - कान्तश्चतुर्विंशतिदण्डको वाच्योऽत एवाह 'जाव वेमानियाणं 'ति ॥
अथ कर्म्मविशेषाधिकारात्तद्विशेषितानां जीवादिपदानां द्वादश दण्डकानाह- 'जीवा णं भंते !' इत्यादि, 'जातिनाम निहत्त' त्ति जातिनाम निधत्तं निषिक्तं विशिष्टबन्धं वा कृतं यैस्ते जातिनामनिधत्ताः १ एवं गतिनामनिधत्ताः २, यावत्करणात् 'ठितिनामनिहत्ता ३ ओगाहणानामनिहत्ता ४ पएसनामनिहत्ता ५ अनुभागनामनिहत्ता ६' इति ६श्यं, व्याख्या तथैव ।
नवरं जात्यादिनाम्नां या स्थितिर्ये च प्रदेशा यश्चानुभागस्तत्स्थित्यादिनाम अवगाहनानामशरीरनामेति, अयमेको दण्डको वैमानिकान्तः १ तथा 'जातिनामनिहत्ताउ' त्ति जातिनाम्ना सह निधत्तमायुर्यैस्ते जातिनामनिधत्तायुषः, एवमन्यान्यपि पदानि, अयमन्यो दण्डकः २, एवमेते 'दुवालस दंडग' त्ति अमुना प्रकारेण द्वादश दण्डका भवन्ति, तत्र द्वावाद्यौ दर्शितावपि सङ्ख्यापूरणार्थं पुनर्दर्शयति-जातिनामनिधत्ता इत्यादिरेकः, 'जाइनामनिहत्ताउया' इत्यादिर्द्वितीयः २ ।
'जीवा णं भंते! किं जाइनामनिउत्ता' इत्यादिस्तृतीयः ३, तत्र जातिनाम नियुक्तं नितरां युक्तं संबद्धं निकाचितं वेदेन वा नियुक्तं यैस्ते जातिनामनियुक्ताः एवमन्यान्यपि ५, 'जाइनामनिउत्ताउया' इत्यादिश्चतुर्थः, तत्र जातिनाम्ना सह नियुक्तं -निकाचितं वेदयितुमारब्धं वाऽऽयुर्यैस्ते तथा, एवमन्यान्यपि ५, ‘जाइगोयनिहत्ता' इयादि पञ्चमः, तत्र जाते :- एकेन्द्रियादिकाया यदुचितं गोत्रं-नीचैर्गोत्रादि तज्जातिगोत्रं तन्निधत्तं यैस्ते जातिगोत्रनिधत्ता, एवमन्यान्यपि ५, जाइगोयनिहताउयाय इत्यादि षष्ठः, तत्र जितागोत्रेण सह निधत्तमायुर्यैस्ते जातिगोत्रनिधत्तायुष एवमन्यान्यपि ५ ‘जाइगोयनिउत्ता’इत्यादिसप्तमः ७ तत्र जातिगोत्रं नियुक्तं यैस्ते तथा, एवमन्यान्यपि ५ । –‘जाइगोयनिउत्ताउया’इत्यादिरष्टमः ८ तत्र जातिगोत्रेण सह नियुक्तमायुर्यैस्ते तथा एवम- न्यान्यपि ५, 'जातिनामगोयनिहत्ता' इत्यादिर्नवमः ९ तत्र जातिनाम गोत्रं च निधत्तं यैस्ते तथा, एवमन्यान्यपि ५ ।
'जीवा णं भंते! किं जाइनामगोयनिहत्ताउया ?' इत्यादिर्दशमः १० तत्र जातिनाम्ना
For Private & Personal Use Only
www.jainelibrary.org
Jain Education International