________________
शतकं-१, वर्गः-, उद्देशकः-१
२५ आयुःकर्मवशानरकेऽवस्थानं 'पन्नत्त'त्ति 'प्रज्ञप्ता' प्ररूपिता? भगवद्भिरन्यतीर्थकरैश्चेतिप्रश्नः
___ 'गोयमे' त्यादि निर्वचनं व्यक्तमेव, नवरं दसवाससहस्साई तिप्रथमपृथिवीप्रथमप्रस्तटापेक्षया तेत्तीसं सागरोवमाईति सप्तमपृथिव्यपेक्षयेति, मध्यमातुजघन्यापेक्षया समया-घधिका सामर्थ्यगम्येति ।। अनन्तरंनारकाणां स्थितिरुक्ता,ते चोच्छसादिमन्त इत्युच्छ-सादिनिरूपणायाह
‘नेरइयाण मित्यादि व्यक्तं, नवरं केवइकालस्सत्ति प्राकृतशैल्या कियत्कालात् कियता कालेनेत्यर्थः, 'आणमंति'त्ति आनन्ति ‘अन प्राणने' इति धातुपाठात् मकारस्यागमिकत्वात्, 'पाणमंति'त्ति प्राणन्ति, वाशब्दौ समुच्चयार्थी, एतदेव पदद्वथं क्रमेणार्थतः स्पष्टयन्नाह 'ऊससंति वानीससंतिवत्तियदेवोक्तमानन्ति तदेवोक्तमुच्छसन्तीति, तथा यदेवोक्तं प्राणन्ति तदेवोक्तं निश्वसन्तीति, अथवा आनमन्तिप्राणमन्तीति ‘णमुप्रत्ये' इत्येतस्थानेकार्थत्वेन श्वसनार्थत्वात्, अन्येत्वाहुः-'आनन्तिवाप्राणन्तिवा' इतियनेनाध्यात्मक्रियापरिगृह्यते, 'उच्छवसन्ति वानिश्वसन्ति वा' इत्यनेन च बाह्येति ।
'जहाऊसासपए'त्ति' एतस्य प्रश्नस्य निर्वचनं यथा उच्छ्वासपदे प्रज्ञापनायाः सप्तमपदे तथा वाच्यं, तच्चेदम्-‘गोयमा ! सययंसंतयामेवआणमंतिवा पाणर्मति वाऊससन्तिवानीससंति वा' इति, तत्र 'सततम् अनवरतम्, अतिदुःखिता हिते, अतिदुःखव्याप्तस्यच निरन्तरमेवोच्छवसनिश्वासौ दृश्येते, सततत्वं च प्रायोवृत्त्याऽपि स्यादित्यत आह-'संतयामेव त्ति सन्ततमेव नैकसमयेऽपि तद्विरहोऽस्तीति भावः, दीर्घत्वं चेह प्राकृतत्वात्, आनमन्तीत्यादेः पुनरुच्चारणं शिष्यवचने आदरोपदर्शनार्थं, गुरुभिराद्रियमाणवचना हि शिष्याः सन्तोषवन्तो भवन्ति, तथा च पौनःपुन्येन प्रश्नश्रवणार्थनिर्णयादिषुधटन्ते लोके चादेयवचना भवन्ति, तथा च भव्योपकारस्तीर्थाभिवृद्धिश्चेति । अथ तेषामेवाहारंप्रश्नयन्नाह'णेरइयाणमि'त्यादि व्यक्तं, नवरम् 'आहारठि'त्तिआहार-मर्थयन्ते-प्रार्थयन्त इत्येवंशीलाः अर्थोवा-प्रयोजनमेषामस्तीत्यर्थिनः, आहारेणभोजनेनार्थिन आहारार्थिनः,आहारस्य-भोजनस्य वाऽर्थिन आहारार्थिनः, 'जहा पन्नवणाए'त्ति 'आहारट्ठी' इत्येतत्पदप्रभृति यथा प्रज्ञापनायाश्चतुर्थोपाङ्गस्य पढमए'त्तिआधे 'आहारउद्देसए'त्ति आहार-पदस्यायविंशतितमस्योद्देशकः पदशब्दलोपाच्चाहारोद्देशकः तत्र भणितं 'तहाभाणियव्यंति तेन प्रकारेण वाच्यमिति । तत्र च नारकाहारवक्तव्यतायां बहूनि द्वाराणि भवन्ति, तत्सङ्ग्रहार्थ पूर्वो- क्तस्थित्युच्छसलक्षणद्वारद्वयदर्शनपूर्विकां गाथामाह। मू. (१२) ठिई उस्साहारे किं वाऽऽहारेति सव्वओ वावि।
कतिभागं? सव्वाणि व कीस व भुञ्जो परिणमंति ।। वृ. 'ठिइगाहा' व्याख्या, स्थिति रकाणां वाच्या, उच्छ्वासश्च, तौ चोक्तावेव ।
तथा 'आहारे'त्ति आहारविषयो विधिर्वाच्यः, स चैवम्-'नेरइयाणं भंते! आहारठ्ठी ?, हंताआहारट्ठी ३॥नेरइयाणं भंते! केवइकालस्सआहारट्ठे समुप्पजइ?, 'आहारार्थ" आहारप्रयोजनमाहारार्थित्वमित्यर्थः, 'गोयमा ! नेरइयाणं दुविहे आहारे पन्नत्ते' अभ्यवहारक्रियेत्यर्थः 'तंजहाआभोगनिव्वत्तिएयअनाभोगनिव्वत्तिए य' तत्राभोगः-अभिसन्धिस्तेन निर्वर्तितः-कृत आभोगनिर्वर्तितः, आहारयामीतीच्छपूर्वक इत्यर्थः, अनाभोगनिर्वर्तितस्तु आहारयामीति
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org