SearchBrowseAboutContactDonate
Page Preview
Page 270
Loading...
Download File
Download File
Page Text
________________ शतकं ६, वर्ग:-, उद्देशकः- १ २६७ यो महावेदनः स महानिर्जर इति यदुक्तं तत्र व्यभिचारं शङ्कमान आह- 'छट्टी' त्यादि, 'दुधोयतराए 'त्ति दुष्करतरधावनप्रक्रियं 'दुवातमतराए' त्ति 'दुर्वाम्यतरकं' दुस्त्याज्यतरकलङ्कं 'दुष्परिकम्मतराए' त्ति कष्टकर्त्तव्यतेजोजननभङ्गकरणादिप्रक्रियम्, अनेन च विशेषणत्रयेणापि दुस्त्याज्यतरकलङ्कं 'दुष्परिकम्मतराए' त्ति कष्टकर्त्तव्यतेजोजननभङ्गकरणादिप्रक्रियम्, अनेन च विशेषणत्रयेणापि दुर्विशोध्यमित्युक्तं, 'गाढीकयाई' ति आत्मप्रदेशैः सह गाढबद्धानि सनसूत्रगाढबद्धसूचीकलापवत् 'चिक्कणीकयाई' ति सूक्ष्मकर्मस्कन्धानां सरसतया परस्परं गाढसम्बन्धकरणतो दुर्भेदीकृ तानि तताविधमृत्पिण्डवत् । (अ)सिलिट्ठिकयाइं’तिनिधत्तानि सूत्रबद्धाग्नितप्तलोहशलाकाकलापवत् 'खिलीभूतानि' अनुभूतिव्यतिरिक्तोपायान्तरेण क्षपयितुमशक्यानि निकाचितानीत्यर्थः, विशेषणचतुष्टयेनाप्येतेन दुर्विशोध्यानि भवन्तीत्युक्तं भवति, एवं च 'एवामेवे' त्याद्युपनयवाक्यं सुघटनं स्याद्, यतश्च तानि दुर्विशोध्यानि स्युस्ततः 'संपगाढ' मित्यादि 'नो महापजवसाणा भवंति त्ति, अनेन महानिर्जराया अभावस्य निर्वाणाभावलक्षणं फलमुक्तमिति नाप्रस्तुतत्वमित्याशङ्कनीयमिति । तदेवं यो महावेदनः स महानिर्जर इति विशिष्टजीवापेक्षमवगन्तव्यं न पुनर्नारिकादिक्लिष्टकर्मजीवापेक्षं, यदपि यो महानिर्जरः स महावेदन इत्युक्तं तदपि प्रायिकं, यतो भवत्ययोगी महानिर्जरो महावेदनस्तु भजनयेति । 'अहिगरनि' त्ति अधिकरणी यत्र लोहकारा अयोधनेन लोहानि कुट्टयन्ति 'आउडेमाणे' त्ति अकुट्टयन् 'सणं'ति अयोधनघातप्रभवेण ध्वनिना पुरुषहुङ्कृतिरूपेण वा 'घोसेणं' ति तस्यैवानुनादेन 'परंपराघाएणं ति परम्परा - निरन्तरता तप्रधानो घातः- ताडनं परम्पराघातस्तेन उपर्युपरिघातेनेत्यर्थः, 'अहाबायरे 'त्ति स्थूलप्रकारान्, 'एवामेवे 'त्याद्युपनये 'गाढीकयाइं' इत्यादिविशेषणचतुष्केण दुष्परिशाटनीयानि भवन्तीत्युक्तं भवति, 'सुधोयतराए' इत्यादि । अनेन सुविशोध्यं भवतीत्युक्तं स्यात्, 'अहाबायराई' ति स्थूलतरस्कन्धान्यसाराणीत्यर्थः 'सिढिलीकयाई' ति श्लथीकृतानि मन्दविपाकीकृतानि 'निट्टियाइं कयाई' ति निस्सत्ताकानि विहितानि ‘विपरिणामियाई’ति विपरिणामं नीतानि स्थितिधातरसघातादिभिः, तानि च वेदना उक्ता, सा च करणतो भवतीति करणसूत्रं, तत्र मू. (२७४) कतिविहे णं भंते! करणे पत्रत्ते ?, गोयमा ! चउव्विहे करणे पन्नत्ते, तंजहामनकरणे वइकरणे कायकरणे कम्मकरणे। नेरइयाणं भंते! कतिविहे करणे पन्नत्ते ?, गोयमा चउव्विहे पन्नत्ते, तंजहा- मनकरणे वइकरणे कायकरणे कम्मकरणे ४, पंचिंदियाणं सव्वेसिं चउव्विहे करणे पत्ते | एगिंदियाणं दुविहे कायकरणेय, विगलेदियाणं ३-वइकरमे कायकरणे कम्मकरणे नेरइयाणं भंते! किं करणओ असायं वेयणं वेयंति अकरणओ असायं वेयणं वेदेति ?, गोयमा ! नेरइयाणं करणओ असायं वेयणं वेयंति नो अकरणओ असायं वेयणं वेयंति । से केणट्टेणं ० ?, गोयमा ! नेरइयाणं चउव्विहे करणे पन्नत्ते, तंजहा- मणकरणे वइकरणे कायकरणे कम्मकरणे, इच्चेएणं चउव्विहेणं करणेणं नेरइया करणओ असायं वेयणं वेयंति नो अकरणओ, से तेणट्टेणं० । असुरकुमाराणं किं करणओ अकरणओ ?, गोयमा ! करणओ नो अकरणओ, से केण For Private & Personal Use Only www.jainelibrary.org Jain Education International
SR No.003339
Book TitleAgam Sutra Satik 05 Bhagavati AngSutra 05
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherAgam Shrut Prakashan
Publication Year2000
Total Pages1096
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari, Agam, Canon, Agam 05, & agam_bhagwati
File Size23 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy