________________
२६१
शतकं-५, वर्गः, उद्देशकः-८ गेवेजदेवाणं ति इह यद्यपि प्रैवेयकधस्तनत्रये सङ्ख्यातानि वर्षाणां शतानि मध्यमे सहस्राणि उपरिमे लक्षानि विरह उच्यते तथापि द्विगुनितेऽपि च सङ्ख्यातवर्षत्वं न विरुध्यते, विजयादिषु त्वसङ्ख्या-तकालो विरहः सचद्विगुणोतोऽपि स एव, सर्वार्थःसिद्धे पल्योपमसङ्खयेयभागः सोऽपि द्विगुनितः सङ्घयेयभाग एव स्यादतएव उक्तं 'विजयवेजयंतजयंतापराजियाणं असंखेज्जाई वाससहस्साई' इत्यादीति।
जीवादीनेव भङ्गयन्तरेणाह-'जीवाण' मित्यादि, 'सोपचयाः' सवृद्धयः प्राक्तनेष्वन्येषामुत्पादात् “सापचयाः'प्राक्तनेभ्यः केषाञ्चिदुद्वर्तनात्सहानयः ‘सोपचयसापचयाः' उत्पादोद्वर्त्तनाभ्यां वृद्धिहान्योर्युगपद्भावात् ‘सापचयाः' प्राक्तनेभ्यः केषाञ्चिदुद्वर्त्तनात्सहानयः ‘सोपचयसापचयाः' उत्पादोद्वर्त्तनाभ्यां वृद्धिहान्योर्युगपद्भावात्, निरुपचयनिरपचयाः उत्पादोद्वर्त्तनयोरभावेन वृद्धिहान्योरभावात्, ननूपचयो वृद्धिरपचयस्तु हानि, युगपद्द्वयाभावरूपञ्चावस्थितत्वं, एवं च शब्दभेदव्यतिरेकेण कोऽनयोः सूत्रयोर्भेदः?, उच्यते, पूर्वं परिमाण मात्रमभिप्रेतम् ।
इह तु तदनपेक्षमुत्पादोद्वर्त्तनामात्रं, ततश्चेह तृतीयभङ्कके पूर्वोक्तवृद्धयादिविकल्पानां त्रयमपि स्यात्, तथाहि-बहुतरोत्पादे वृद्धिर्वहुत्तरोद्वर्त्तने च हानि, समोत्पादोद्वर्तनयोश्चावस्थितत्वमित्येवं भेद इति ।
‘एगिदिया तइयपए'त्ति सोपचयसापचया इत्यर्थः, युगपदुत्पादोद्वर्तनाभ्यां वृद्धिहानिभावात, शेषभङ्गकेषु तु ते न संभवन्ति, प्रत्येकमुत्पादोद्वर्तनयोस्तद्विरहस्य चाभावादिति । 'अवट्ठिएहिंति निरपचयनिरपचयेषु 'वक्कंतिकालो भानियध्वो'त्ति विरहकालो वाच्यः॥
शतकं-५ उद्देशकः-८ समाप्तः
-शतकं-५ उद्देशकः-९:वृ. इदं किलार्थःजातं गौतमो राजगृहे प्रायः पृष्टवान् बहुशो भगवतस्तत्र विहारादिति राजगृहादिस्वरूपनिर्णयपरसूत्रप्रपञ्च नवमोद्देशकमाह
मू. (२६४) तेणं कालेणं तेणं समएणं जाव एवं वयासी-किमिदं भंते ! नगरं रायगिहति पवुच्चइ?, किं पुढवी नगरं रायगिहंति पवुच्चइ, आऊ नगरं रायगिहंति पवुच्चइ ? जाव वणस्सइ ?, जहा एयणुद्देसइ पंचिंदियतिरिक्खजोनियाणं वत्तव्वया तहा भानियव्वं जाव सचित्ताचितमीसयाई दव्वाइं नगरं रायगिहंति पवुच्चइ? गोयमा ! पुढवीवि नगरं रायगिहति पयुच्चइ जाव सद्यत्ताचित्तमीसियाई दव्वाइं नगरं रायगिहंति पवुयइ ।
से केणटेणं?, गोयमा ! पुढवी जीवातिय अजीवातिय नगरं रायगिहति पवुच्चई जाव सचित्ताचित्तमीसियाइं दव्वाइं जीवातिय अजीवातिय नगरं रायगिहंति पवुच्चति से तेणद्वेणं तं चेव॥
वृ. 'तेण'मित्यादि, ‘जहा एयणुद्देसए"त्तिएजनोद्देशकोऽस्यैव पञ्चमशतस्य सप्तमः, तत्र पञ्चेन्द्रियतिर्यग्वक्तव्यता 'टङ्काकूडा सेला सिहरी'त्यादिका योक्ता सा इह भनितव्येति ।
अत्रोत्तरं-'पुढवीवि नगर'मित्यादि, पृथिव्यादिसमुदायोराजगृहं, न पृथिव्यादिसमुदायाध्ते राजगृहशब्दप्रवृत्ति, पुढवी जीवाइय अजीवाइयनगरं रायगिहंतिपवुच्चइत्तिजीवाजीवस्वभावं राजगृहमितिप्रतीतं, ततश्च विवक्षिता पृथिवी सचेतनाचेतनत्वेनजीवाश्चाजीवाश्चेति राजगृहमिति
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org