________________
२३
शतकं-१, वर्गः-, उद्देशकः-१ केवलज्ञानोत्पत्तिः- पर्यायोऽभ्युगतः एषां च पदानामेकार्यानामपि सतामयमर्थः सामर्थ्य प्राप्ति
क्रमः
यदुत-पूर्वंतञ्चलति-उदेतीत्यर्थः उदितंचवेद्यते, अनुभूयत इत्यर्थः, तच्च द्विधा-स्थितिक्षयादुदयप्राप्तमुदीरणया चोदयमुपनीतं, ततश्चानुभवानन्तरं तत् प्रहीयने, दत्तफलत्वाज्जीवादपयातीत्यर्थः, एतच्च टीकाकारमतेन व्याख्यातम्, अन्ये तु व्याख्यान्ति-स्थितिबन्धाद्यविशेषितसामान्यकर्माश्रयत्वादेकाथिकान्येतानि केवलोत्पादपक्षस्य च साधकानीति, चत्वारि चलनादीनिस्थितिबन्धाधविशेषितसामान्यकर्माश्रयत्वादेकाथिकान्येतानि केवलोत्पादपक्षस्यचसाधकानीति, चत्वारि चलनादीनि पदान्येकाथिकानीत्युक्ते शेषाण्यनेकार्थिकानीति सामदिवगतमपि सुखावबोधाय साक्षात्प्रतिपादयितुमाह-छिज्जमाणे' इत्यादि, व्यक्तं ।
नवरं 'नाणट्टत्ति नानार्थानि, नानार्थत्वं त्वेवं-छिद्यमानं छिन्नमित्येतत्पदं स्थितिबन्धाश्रयं, यतःसयोगिकेवली अन्तकाले योगनिरोधं कर्तुकामो वेदनीयनामगोत्राख्यानां तिसृणां प्रकृतीनां दीर्घकालस्थितिकानां सर्वापवर्तनयाऽऽन्तर्मोहूर्तिकं स्थितिपरिमाणं करोति । तथा 'भिद्यमानं भिन्न' मित्येतत्पदमनुभागबन्धाश्रयं, तत्र च तस्मिन् काले स्थितिधातं करोति तस्मिन्नेव काले रसधातमपि करोति, केवलं रसघातः स्थितिखण्डकेभ्यः क्रमप्रवृत्तेभ्योऽनन्तगुणाभ्यधिकः, अतोऽनेन रसघातकरणेन पूर्वस्माद्भिन्नार्थ पदं भवति।
तथा 'दह्यमानं दग्ध'मित्येतत्पदं प्रदेशबन्धाश्रयं, प्रदेशबन्धस्त्वनन्तानामनन्तप्रदेशानां स्कन्धानां कर्मत्वापादनं, तस्य च प्रदेशबन्धकर्मणः सत्कानांपञ्चहस्वाक्षरोचारणकालपरिमाणयाऽसङ्घयातसमययागुणश्रेणीरचनया पूर्वरचितानां शैलेश्यवस्थाभाविमुच्छिन्नक्रियध्यानाग्निनाप्रथमसमयादारभ्य यावदन्त्यसमयस्तावप्रतिसमयंक्रमेणासङख्येयगुणवृद्धानां कर्मपुद्गलानां दहनं-दाहः, अनेनच दहनार्थेनेदं पूर्वस्मात्पदाभिन्नार्थं पदं भवति, दाहश्चान्यत्रान्यथा 'नियमाणं मृत'मित्यनेनायुःकर्मैवोक्तं, यतः कर्मैव तिष्टजीवतीत्युच्यते, कर्मैव च जीवादपगच्छत् नियत इत्युच्यते, तच मरणं सामान्येनोक्तमपि विशिष्टमेवाभ्युपगन्तव्यं, यतः संसारवर्तीनि मरणानि अनेकशोऽनुभूतानिदुःखरूपाणि चेति किं तैः ?, इह पुनः पदेऽपुनर्भवमरणमन्त्यं सर्वकर्मक्षयसहचरितमपवर्गहेतुभूतं विवक्षितमिति ।
तथा 'निर्जीर्यमाणं निजीर्ण'मित्येतत्पदं सर्वकर्माभावविषयं, यतः सर्वकर्मनिर्भरणं न कदाचिदप्यनुभूतपूर्वंजीवेनेति, अतोऽनेन सर्वकर्माभावरूपनिर्जरार्थेन पूर्वपदेभ्यो भिन्नार्थत्वाभिन्नार्थं पदं भवति।अथैतानिपदानि विशेषतो नानार्थान्यपि सन्तिसामान्यतः कस्यपक्षस्याभिधायकतया प्रवृत्तानीत्यस्यामाशङ्कायामाह - ___ 'विगयपक्खस्स'त्ति, विगतं विगमो-वस्तुनोऽवस्थान्तरापेक्षया विनाशः, स एव पक्षोवस्तुधर्म, तस्य वा पक्षः-परिग्रहो विगतपक्षस्तस्य विगतपक्षस्य वाचकानीति शेषः, विगतत्वं विहाशेषकर्माभावोऽभिमतो, जीवेन तस्याप्राप्तपूर्वतयाऽत्यनतमुपादेयत्वात्, तदर्थत्वाच्च पुरुषप्रयासस्येति, एतान चैवंविगतार्थानि भवन्ति, छिद्यमानपदे हि स्थितिखण्डनं विगम उक्तः, मिद्यमानपदे त्वनुभावभेदो विगमः, दह्यमानपदे त्वकर्मताभवनं विगमः, म्रियमाणपदे पुनरायुःकर्माभावो विगमः, निर्जीर्यमाणपदे त्वशेषकर्माभावो विगमः उक्तः, तदेवमेतानि विगतपक्षस्य
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org