________________
२२
भगवतीअङ्गसूत्रं 9/19/९ ॥१॥ "न हि नामानाभोगश्छद्मस्थस्येह कस्यचिन्नास्ति ।
यस्माज्ज्ञानावरणं ज्ञानावरणप्रकृति कर्म ॥ इति अथवा जानतवतस्य प्रश्नःसंभवति, स्वकीयबोधसंवादनार्थमज्ञलोकबोधनार्थंशिष्याणां वा स्ववचसि प्रत्ययोत्पादनार्थं सूत्ररचनाकल्पसंपादरनार्थं वेति । तत्र 'हंता गोयमे ति, हन्तेति कोमलामन्त्रणार्थं, दीर्घत्वंचमागधदेशीप्रभवमुभयत्रापि, ‘चलमाणे' इत्यादेः प्रत्युच्चारणं तुचलदेव चलितमित्यादीनां स्वानुमतत्वप्रदर्शनार्थम् ।
वृद्धाः पुनराहुः-'हंता गोयमा' इत्यत्र 'हन्ते'ति एतमेतदिति अभ्युपगमवचनः, यदनुमतं तत्प्रदर्शनार्थं चलमाणे' इत्यादि प्रत्युच्चारितमिति, इहच यावत्करणलभ्यानिपदानि सुप्रतीतान्येव ।। एवमेताना नव पदानि कर्माधिकृत्य वर्तमानातीतकालसामानाधिकरण्यजिज्ञासया पृष्टानि निर्णीतानि च, अर्थतान्येव चलनादीनि परस्परतः किं तुल्यार्थानि भिन्नानि वेति पृच्छं निर्णय च दर्शयितुमाह--
मू. (१०) एएणंभंते! नव पया किंएगट्ठा नानाधोसा नानावंजणा उदाहु नाणठ्ठा नानाघोसा नानावंजणा?,
गोयमा! चलमाणे चलिए १ उदीरिजमाणए उदीरिए २ वेइज्जमाणे वेइए ३ पहिज्जमाणे पहीणे ४ ते एएणं चत्तारि पया एगट्ठा नानाघोसा नानावंजणा उप्पन्नपक्खस्स, छिज्जमाणे छिन्ने भिज्जमाणे भिन्ने दव-(डज्झ)-माणे दड्डे मिजमाणे मडे निजरिजमाणे निजिण्णे एए णं पंच पया नाणठ्ठा नानाघोसा नानावंजणा विगयपक्खस्स।
वृ. व्यक्तं, नवरम् ‘एगट्ट'त्ति एकार्थानि' अनन्यविषयाणि एकप्रयोजनानि वा 'नाणाघोस'त्तिइहघोषाः-उदात्तादयः 'नाणावंजण'त्तिइह व्यञ्जनानि-अक्षराणि उदाहुत्ति उताहोनिपातो विकल्पार्थः 'नाणट्ठ'त्ति भिन्नाभिधेयानि, इह च चतुर्भङ्गी पदेषु दृष्टा, तत्र कानिचिदेकार्थानि एकव्यअनानि यथा क्षीरं क्षीरमित्यादीनि १, तथाऽन्यानि एकार्थानि नानाव्यञ्जनानि यथा क्षीरं पय इत्यादीनि२,तथाऽन्यान्येनेकार्थान्येकव्यज्जनानि यथाव्यमाहिषाणिक्षीराणि-३ तथाऽन्यानि नानार्थानि नानाव्यअनानि यथा घटपटलकुटादीनि ४।
तदेवं चतुर्भङ्गीसंभवेऽपि द्वितीयचतुर्थभङ्गको प्रश्नसूत्रे गृहीतौ, परिदृश्यमाननानाव्यञ्जनतयातदन्ययोरसम्भवात, निर्वचनसूत्रेतुचलनादीनिचत्वारि पदान्याश्रित्य द्वितीयः, छिद्यमानादीनितुपञ्च पदान्याश्रित्य चतुर्थइति। ननु चलनादीनामर्थानांव्यक्तभेदत्वात् कथमाद्यानि चत्वारि पदान्येकार्थानि? इत्याशङ्कयाह-'उप्पन्नपक्खस्स'त्ति उत्पन्नमुप्तादो, भावे क्लीबेक्तप्रत्ययविधानात्, तस्य पक्षः-परिग्रहोऽङ्गीकारः 'पक्षपरिग्रहे' इति धातुपाठादिति उत्पन्नपक्षः, इहच षष्ठयास्तृतीयार्थत्वाद् उत्पन्नपक्षण-उत्पादाङ्गीकारेण-उत्पादाख्यं पर्यायं परिगृह्य एकार्थान्येतान्युच्यन्ते,अथवा उत्पन्नपक्षस्य उत्पादाख्यवस्तुविकल्पस्याभिधायकानीति शेषः, सर्वेषामेषामुत्पाद माश्रित्यैकार्थकारित्वादेकान्तर्मुहूर्तमध्यभावित्वेन तुल्यकालत्वाच्चैकार्थिकत्वमिति भावः, स पुनरुत्पादाख्यः पर्यायो विशिष्टः केवलोत्पाद् एव, यतः कर्मचिन्तायां कर्मणः प्रहाणेः फलद्वयं केवलज्ञानमोक्षप्राप्ती, तत्रैतानि पदानि केवलोत्पादविषयत्वादेकार्थान्युक्तानि, यस्मात् केवलज्ञानपर्यायो जीवेन न कदाचिदपि प्राप्तपूर्व यस्माच्च प्रधानस्ततस्तदर्थ एव पुरुषप्रयासः तस्मात्स एव
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org