________________
शतकं-१, वर्गः-, उद्देशकः-१
२१ वलिकाचलनसमयानां क्षयः स्यात्, यदि हि तत्समयचलननिरपेक्षाण्यन्यसमयचलनानि भवन्ति तदोत्तरचलनानुक्रमणं युज्येत नान्यथा, तदेवं चलदपि तत्कर्म चलितं भवतीति ।
तथा 'उदीरिजमाणे उदीरिए'त्ति, उदीरणा नाम अनुदयप्राप्तं चिरेणाऽऽगामिना कालेन यद्वेदयितव्यं कर्मदलिकंतस्य विशिष्टाध्यवसायलक्षणेन करणेनाकृष्योदये प्रक्षेपणं साचासङ्घयेयसमयवर्तिनी, तया च पुनरुदीरणया उदीरणप्रथमसमय एवोदीर्यमाणं कर्म पूर्वोक्तपटदृष्टान्तेनोदीरितं भवतीति २।
तथा वेइज्जमाणे वेइए'-त्ति, वेदनं-कर्मणो भोगः,अनुभवइत्यर्थः, तच्च वेदनं स्थितिक्षयादुदयप्राप्तस्य कर्मण उदीरणाकणेन वोदयमुपनीतस्य भवति, तस्य च वेदनाकालस्यासङ्खयेसमयत्वादाधसमये वेद्यमानमेव वेदितं भवतीति ३ ।
तथा पहिजमाणे पहीणे' त्ति, प्रहाणंतु-जीवप्रदेशैः सह संश्लिष्टस्य कर्मणस्तेभ्यः पतनम्, एतदप्यसवयेसमयपरिमाणमेव, तस्यतुप्रहाणस्यादिताकरणं, तच्चापवर्तनाभिधानेन करणविशेषेण करोति, तदपि च छेदनमसङ्ख्येयसमयपरिमाणमेव, तस्य तु प्रहाणस्यादिसमये प्रहीयमाणं कर्म प्रहीणं स्यादिति ।।
तथा “छिञ्जमाणे छिन्नेत्ति, छेदनं तु-कर्मणो दीर्घकालानां स्थितीनां ह्रस्वताकरणं, तच्चापवर्तनाभिधानेन करणविशेषेण करोति, तदपिच छेदनमसङ्घयेयसमयमेव, तस्य त्वादिसमये स्थितितस्तच्छिद्यमनं कर्म छिन्नमिति ५ ।
तथा भिजमाणे भिन्नेत्तिभेदस्तु-कर्मणः शुभस्याशुभस्य वा तीव्ररसस्यापवर्तनाकरणेन मन्दताकरणं, मन्दस्य चोद्वर्तनारणेन तीव्रताकरणं, सोऽपिचासङ्घयेयसमयएव, ततश्चतदाद्यसमये रसतो भिद्यमानं कर्म भिन्नमिति ६।।
तथा 'डज्झमाणे दडे'त्ति, दाहस्तु-कर्मदलिकदारूणां ध्यानाग्निना तद्रूपापनयनमकर्मात्वजननमित्यर्थः, यथा हि काष्ठस्याग्निनादग्धस्य काष्ठरूपापनयनं भस्मात्मनाचभवनं दाहस्तथा कर्मणोऽपीति, तस्याप्यन्तर्मुहूर्त्तवर्त्तित्वेनासङ्घयेसयस्यादिसमये दह्यमानं कर्म दग्धमिति ७।
तथा मिज्जमाणेमडे'त्ति, नियमाणमायुःकर्ममृतमिति व्यपदिश्यते, मरणं ह्यायुःपुद्गलानां क्षयः, तच्चासङ्खयेयसमयवर्त्तिभवति, तस्यचजन्मनःप्रथमसमयादारभ्यावीचिकमरणेनानुक्षणं मरणस्य भावान्नियमाणं मृतमिति ८॥
तथा 'निजरिज्जमाणेनिजिण्णे'त्ति, निर्जीयमाणं-नितरामपुनविनक्षीयमाणं कर्म निजीर्णक्षीणमिति व्यपदिश्यते, निर्जरणस्यासङ्खयेयसमयभावित्वेन तत्प्रथमसमय एवपटनिष्पत्तिदृष्टान्तेन निर्जीर्णत्वस्योपपद्यमानत्त्वादिति, पटदृष्टान्तश्च सर्वपदेषु सभावनिको वाच्यः ९।।
तदेवमेतान्नव प्रश्नान् गौतमेन भगवता भगवान् महावीरः पृष्टः सन्नुवाच-"हंते' त्यादि, अथ कस्माद् भगवन्तं गौतमः पृच्छति?, विरचितद्वादशाङ्गतया विदितसकलश्रुतविषयतत्वेन निखिलसंशयातीतत्वेन च सर्वज्ञकल्पत्वात्तस्य, आह घ॥१॥ "संखाईए उ भवे साहइ जंवा परो उ पुच्छेज्जा ।
ण यणं अणाइसेसी वियाणई एस छउमत्थो ।। -नैवम्, उक्तगुणत्वेऽवि छद्मस्थतयाऽनाभोगसम्भवात, यदाह -
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org