________________
शतकं - ५, वर्ग:-, उद्देशक:-७
२४७
तिपएसओ दुपएसियं फुसमाणो पढमएणंततिएणं चउत्थछट्टसत्तमनवमेहिं फुसति, तिपएसिओ तिपएसियं फुसमाणो सव्र्व्वसुवि ठाणेसु फुसति, जहा तिपएसिओ तिपदेसियं फुसावितो एवं तिपदेसिओ जाव अनंतपएसिएण संजोएयव्वी, जहा तिपएसिओ एवं जाय अनंतपएसिओ भानियव्वो ।
वृ. 'परमाणुपोग्गले णं भंते!' इत्यादि, 'किं देसेणं देस 'मित्यादयो नव विकल्पाः, तत्र देशेन स्वकीयेन देशं तदीयं स्पृशति, देशेनेत्यनेन दशं देशान् सर्वमित्येवं शब्दत्रयपरेण त्रयः, एवं देशरित्यनेन ३, सर्वेणेत्यनेन च त्रय एवेति ३ ।
अत्र च सर्वेण सर्वमित्येक एव घटते, परमाणोर्निरंशत्वेन शेषाणामसम्भवात्, ननु यदि सर्वेण सर्वं स्पृशतीत्युच्यते तदा परमाण्वोरेकत्वापत्तेः कथमपरापरपरमाणुयोगेन घटादिस्कन्धनिष्पत्ति ? इत, अत्रोच्यते, सर्वेण सर्व्वं स्पृशतीति कोऽर्थः ?, स्वात्मना तावन्योऽन्यस्य लगतो, न पुनरर्द्धाद्यंशेन, अर्द्धादिदेशस्य तयोरभावात्, घटाद्यभावापत्तिस्तु तदैव प्रसज्येत यदा तयोरे कत्वापत्ति, न च तयोः सा स्वरूपभेदात् ।
'सत्तमनवमेहिं फुसइ' त्ति सर्वेण देशं सर्वेण सर्वमित्येताभ्यामित्यर्थः, तत्र यदा द्विप्रदेशिकः प्रदेशद्वयावस्थितो भवति तदा तस्य परमाणुः सर्वेण देशं स्पृशति, परमाणोस्तद्देशस्यैव विषयत्वात्, यदा तु द्विप्रदेशिकः परिणामसीक्ष्यादेकप्रदेशस्थो भवति तदा तं परमाणुः सर्वेण सर्वं स्पृशतीत्युच्यते, 'निपच्छिमएहिं तिहिं फुसइ' त्ति त्रिप्रदेशिकमसौ स्पृशंस्त्रिभिरन्त्यैः स्पृशति, तत्र यदा त्रिप्रदेशिकः प्रदेशत्रयस्थितो भवति तदा तस्य परमाणुः सर्वेण देशं स्पृशति परमाणोस्तद्देशस्यैव विषयत्वात्, यदा तु तस्यैकत्र प्रदेशे द्वौ प्रदेशी अन्यत्रैकोऽवस्थितः स्यात्तदा एकप्रदेशस्थितपरमाणुद्वयस्य परमाणोः स्पर्शविषयत्वेन सर्वेण देशौ स्पृशतीत्युच्यते, ननु द्विप्रदेशिकेऽपि युक्तोऽयं विकल्पस्तत्रापि प्रदेशद्वयस्य स्पृश्यमानत्वात् ?, नैवं, यतस्तत्र द्विप्रदेशमात्र एवावयवीति कस्य देशी स्पृशति ?, त्रिप्रदेशिकेतु त्रयापेक्षया द्वयस्पर्शने एकोऽवशिष्यते ततश्च सर्वेण देशौ त्रिप्रदेशिकस्य स्पृशतीति व्यपदेशः साधुः स्यादित्ति, यदा त्वेकप्रदेशावगाढोऽसौ तदा सर्वेण सर्वं स्पृशतीति स्यादिति । 'दुपएसिएण 'मित्यादि, 'तइयनवमेहिं फुसइ' त्ति यदा हिप्रदेशिकः द्विप्रदेशस्थस्तदा परमाणुं देशेन सर्वं स्पृशतीति तृतीयः, यदा त्वेकप्रदेशावगाढोऽसौ तदा सर्वेण सर्वमिति नवमः । 'दुपएसिओ दुपएसिय' मितयादि, यदा द्विप्रदेशिको प्रत्येकं द्विप्रदेशावगाढौ तदा देशेन देशमिति प्रथमः, यदा त्वेक एकत्रान्यस्तु द्वयोस्तदा देशेन सर्वमिति तृतीयः, तथा सर्वेण देशमिति सप्तमः, नवमस्तु प्रतीति एवेति, अनया दिशाऽन्येऽपि व्याख्येया इति ।। पुद्गलाधिकारादेव पुद्गलानां द्रव्यक्षेत्रभावान् कालतश्चिन्तयति, तत्र-
मू. (२५७) परमाणुपोग्गले णं भंते! कालतो केवच्चिरं होति ?, गोयमा ! जहन्नेणं एगं समयं उक्कोसेणं असंखेजं कालं, एवं जाव अनंतपएसिओ। एगपदेसोगाढे णं भंते! पोग्गले सेए तम्मि वा ठाणेसु अन्नंमि वा ठाणे कालओ केवचिरं होइ ?, गोयमा ! जह० एवं समयं उक्को० आवलियाए असंखेजइभागं, एवं जाव असंखेजपदेसोगाढे।
एगपदेसोगाढे णं भंते! पोग्गले निरेए कालओ केवचिरं होइ ?, गोयमा ! जहत्रेणं एवं समयं उक्कोसेणं असंखेज्जं कालं, एवं जाव असंखेज्जपदेसोगाढे ।
For Private & Personal Use Only
Jain Education International
www.jainelibrary.org