________________
शतकं - ५, वर्ग:-, उद्देशक:- ६
२४३
इति, अत्रोच्यते, अविरतिपरिणामाद्बन्धः, अविरतिपरिणामश्च यथा पुरुषस्यास्ति एवं धनुरादिनिर्वर्त्तकशरीरजीवानामपीति, सिद्धानां तु नास्त्यसाविति न बन्धः, पात्रादिजीवानां तु न पुण्यबन्धहेतुत्वं तद्धेतोर्विवेकादेस्तेष्वभावादिति किञ्च सर्वज्ञवचनप्रामाण्याद्यथोक्तं तत्तथा श्रद्धेयमेवेति इषुरितिशरपत्रफलादिसमुदायः ।
मू. (२४७) अहे णं से उसुं अप्पणो गुरुयत्ताए भारियत्ताए गुरुसंभारियत्ताए अहे वीससाए पचोवयमाणे जाई तत्थ पाणाइं जाव जीवियाओ ववरोवेइ तावं च णं से पुरिसे कतिकिरिए
गोयमा ! जावं च णं से उसुं अप्पणो गुरुययाए जाव ववरोवेइ तावं च णं से पुरिसे काइयाए जाव चउहिं किरियाहिं पुट्टे, जोसिंपि य णं जीवाणं सरीरेहिं धणू निव्वत्तिए तेवि जीवा चउहिं किरियाहिं, धणूपुट्टे चउहिं, जीवा चउहिं, हारू चउहिं, उसू पंचहिं, सरे पत्तणे फले हारू पंचहिं, जेवि य से जीवा अहे पच्चोवमाणस्स उवग्गहे चिट्ठति तेवि य णं जीवा कातियाए जाव पंचहिं किरियाहिं पुट्ठा ॥
वृ. 'अहे णं से उसू' इत्यादि, इह धनुष्मदादीनां यद्यपि सर्वक्रियासु कथञ्चित्रिमित्तभावोऽस्तितथाऽपि विवक्षितबन्धं प्रत्यमुख्यप्रवृत्तिकतया विवक्षितवधक्रियायास्तैः कृतत्वेनाविवक्षमाच्छेषक्रियाणां च निमित्तभावमात्रेणापि तत्कृतत्वेन विवक्षणाच्चतस्ता उक्ताः, बाणादिजीवशरीराणां तु साक्षाद् वधक्रियायां प्रवृत्तत्वात्पञ्चेति ॥ अथ सम्यक्प्ररूपणाधिकारान्मिथ्याप्ररूपणानिरासपूर्वकं सम्यकप्ररूपणामेव दर्शयन्नाह
मू. (२४८) अन्नउत्थिया णं भंते! एवमातिक्खंति जाव परूवेति से जहानामए- जुवतिं जुवाणे हत्थेणं हत्थे गेहेज्जा चक्करस वा नाभी अरगा उत्तासिया एवामेव जाव चत्तारि पंच जोयणसयाइं बहुसमाइन्ने मणुयलोए मणुस्सेहिं, से कहमेयं भंते ! एवं ?, गोयमा ! जन्नं ते अन्नउत्थिया जाव मणुस्सेहिं जे ते एवमाहंसु मिच्छा०, अहं पुण गोयमा ! एवमातिक्खामि जाव एवामेव चत्तारि पंच जोयणसयाई बहुसमाइन्ने निरयलोए नेरइएहिं ।।
बृ. ‘अन्नउत्थिए’त्यादि, 'बहुसमाइन्ने' त्ति अत्यन्तमाकीर्णं, मिध्यात्वं च तद्वचनस्य विभङ्गज्ञानपूर्वकत्वादवसेयमिति ।
मू. (२४९) नेरइया णं भंते! किं एगत्तं पभू विउव्वित्तए पहुत्तं पभू विउच्वित्तए ?, जहा जीवाभिगमे आलावग तहा नेयव्वो जाव दुरहियासे ॥
बृ. 'रइएहिं' इत्युक्तमतो नारकवक्तव्यतासूत्रम्- 'एगत्तं' ति एकत्वं प्रहरणानां 'पुहुत्तं' ति 'पृथक्त्वं' बहुत्वं प्रहरणानामेव 'जहा जीवाभिगमे ' इत्यादि, आलापकश्चैवम्- 'गोयमा ! एगत्तंपि पहू विउव्वित्तए पुहुत्तंपि पहू विउव्वित्तए, एगत्तं विउच्वमाणे एगं महं मोग्गररूवं वा मुसुंढिरूवं वा' इत्यादि, 'पुहुत्तं विउव्वमाणे मोग्गररूवानि वा' इत्यादि, ताई संखेज्जाई नो असंखेजाई एवं संबद्धाई २ सरीराई विउव्वंति विउव्वित्ता अन्नमन्नस्स कार्य अभिहणमाणा २
वेणं उदीरेति उज्जलं विउलं पगाढं कक्कसं कडुयं फरुसं निडुरं चंडं तिव्वं दुक्खं दुग्गं दुरहियासं' ति, तत्र 'उज्ज्वलां' विपक्षलेशेनाप्यकलङ्कितां विपुलां' शरीरव्यापिकां 'प्रगाढां' प्रकर्षवतीं 'कर्कश' कर्कशद्रव्योपमामनिष्टामित्यर्थः, एवं कटुकां परुषां निष्ठुरां चेति 'चण्डां' रौद्रां 'तीव्रा' झगिति शरीरव्यापिकां 'दुःखाम्' असुखरूपां 'दुर्गा' दुःखाश्रयणीयाम्, अत एव दुरधिसह्यामिति
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org