________________
२४२
भगवती सूत्रं ५/-/६/२४५
धणाओ आरंभिया ४ मिच्छादंसणवत्तिया किरिया सिय कज्जइ सिय नो कजइ, कइयस्स णं ताओ सव्वाओ पयणुईभवंति' धने उपनीते धनप्रत्ययत्वात्तासां गृहपतेर्महत्यः, क्रयिकस्य तु प्रतनुकाः धनस्य तदानीमतदीयत्वात्, एवं च प्रथमसूत्रसममिदं चतुर्थः मित्येतदनुसारेण च सूत्रपुस्तकाक्षराण्यनुगन्तव्यानि ।
क्रियाऽधिकारादिदमाह- 'अगनी' त्यादि, 'अहुणोज्जलिए 'त्ति 'धुनोज्वलितः सद्यः प्रदीप्तः 'महाकम्मतराए 'त्ति विध्यायमानानलापेक्षयाऽतिशयेन महान्ति कर्मानि ज्ञानावरणादीनि बन्धमाश्रित्य यस्यासौ महाकर्म्मतरः, एवमन्यान्यपि, नवरं क्रिया-दाहरूपा आश्रयो - नवकर्मोपादानहेतुः वेदना- पीडा भाविनि तत्कर्मजन्या परस्परशरीरसंबाधजन्या वा 'वोक्कसिज्जमणे 'त्ति ‘व्यवकृष्यमाणः' अपकर्ष गच्छन् 'अप्पकम्मतराए' त्ति अङ्गाराद्यवस्थामाश्रित्य, अल्पशब्दः स्तोकार्थः, क्षारावस्थायां त्वभावार्थः ॥ क्रियाऽधिकारादेवेदमाह
मू. (२४६) पुरिसे णं भंते ! घणुं परामुसइ घणुं परामुसित्ता उसुं परामुसइ २ ठाणं ठाइ ठाणं ठिचा आयतकन्नाययं उसुं करेति आययकन्नाययं उसुं करेत् उड्डुं वेहासं उसुं उव्विहइ २ ततो णं से उसुं उहूं वेहासं उव्चिहिए समाणे जाई तत्थ पाणाई भूयाइं जीवाई सत्ताई अभिहणइ यत्तेति लेस्सेति संधाएइ संघट्टे परितावेइ किलाभेइ ठाणाओ ठाणं संकामेइ जीवियाओ ववरोवेइ तए णं भंते! से पुरिसे कतिकिरिए ?
गोयमा ! जावं च णं से पुरिसे घणुं परामुसइ २ जाव उव्विहइ तावं च णं से पुरिसे कातियाए जाव पाणातिवायकिरियाए पंचहिं किरियाहिं पुट्टे, जेसिंपि य णं जीवाणं सरीरेहिं धणू निव्वत्तिए तेऽवि यणं जीवा काइयाए जाव पंचहि किरियाहिं पुट्टे, एवं धणुपुट्टे पंचहि किरियाहिं, जीवा पंचहिं, हारू पंचहिं, उसू पंचहिं, सरे पत्तणे फले हारू पंचहिं, ।
वृ. 'पुरिसेण 'मित्यादि 'परामुसइ' ति 'परामृशति' गृह्णाति 'आययकन्नाययं' ति आयतःक्षेपाय प्रसारितः कर्णायतः कर्णं यावदाकृष्टस्ततः कर्मधारयाद् आयतकर्णायतः अतस्तं, 'इषु' बाणं 'उहुं वेहासं' ति उर्ध्वमिति वृक्षशिखराद्यपेक्षयाऽपि स्यादत आह- 'विहायसि' इत्याकाशे 'उव्विहइ' त्ति 'ऊर्ध्वं विजहाति' ऊर्ध्वक्षिपतीत्यर्थः, 'अभिहणइ' त्ति अभिमुखमागच्छतो हन्ति 'वत्तेइ' त्ति वर्तुलीकरोति शरीरसङ्कोचापादनात् 'लेसेइ' त्ति 'श्लेषयति' आत्मनि श्लिष्टान् करोति 'संधाएइ' त्ति अन्योऽन्यं गात्रैः संहतान् करोति 'संघट्टेइ' त्ति मनाक् स्पृशति 'परितावेइ'त्ति समन्ततः पीडयति 'किलामेइ' त्ति मारणान्तिकादिसमुद्घातं नयति 'ठाणाओ ठाणं संकामेइ' स्वस्थानात्स्थानान्तरं नयति 'जीवियाओ ववरोवेइ' त्ति च्युतजीवितान् करोतीति ।
'किरियाहिं पुढे'त्ति क्रियाभि स्पृष्टः, क्रियाजन्येन कर्मणा बद्ध इत्यर्थः, 'धणु'त्ति धनुःदण्डगुणादिसमुदायः, ननु पुरुषस्य पञ्च क्रिया भवन्तु, कायादिव्यापाराणां तस्य दृश्यमानत्वात्, धनुरादिनिर्वर्त्तकशरीराणां तु जीवानां कथं पञ्च क्रियाः ?, कायमात्रस्यापि तदीयस्य तदानीमचेनत्वात्, अचेतनकायमात्रादपि बन्धाभ्युपगे सिद्धानामपि तत्प्रसङ्गः, तदीयशरीराणामपि प्राणातिपातहेतुत्वेन लोके विपरिवर्त्तमानत्वात् !
किञ्च यथा धनुरादीनि कायिक्यादिक्रियाहेतुत्वेन पापकर्मबन्धकारणानि भवन्ति तज्जीवानामेवं पात्रदण्डकादीनि जीवरक्षाहेतुत्वेन पुण्यकर्मनिबन्धनानि स्युः, न्यानस्य समानत्वाद्
For Private & Personal Use Only
www.jainelibrary.org
Jain Education International