SearchBrowseAboutContactDonate
Page Preview
Page 242
Loading...
Download File
Download File
Page Text
________________ शतकं - ५, वर्ग:-, उद्देशक:-६ त्योत्कर्षणादिनाऽऽधाकर्मादिकरणेन च प्राणातिपातादिषु वर्त्तते तस्य वधादिविरतिनिरवद्यदाननिमित्तायुष्कापेक्षयेयमल्पायुष्कताऽवसेया । अथ नैवं निर्विशेषणत्वात्सूत्रस्य, अल्पायुष्कत्वस्य च क्षुल्लकभवग्रहणरूपस्यापि प्राणातिपतादिहेतुतो युज्यमानत्वाद् अतः अथमभिधीयते सविशेषणप्राणातिपातादिवर्त्ती जीव आपेक्षिकी चाल्पायुष्कता इति ?, उच्यते, अविशेषणत्वेऽपि सूत्रस्य प्राणातिपातादेर्विशेषणमवश्यं वाच्यं, यत इतस्तृतीयसूत्रे प्राणातिपातादि एवाशुभदीर्घायुष्कता वक्ष्यति, न हि सामान्यहेतौ कार्यवैषम्यं युज्यते, सर्वत्रानाश्वासप्रसङ्गात् । तथा 'समणोवासयस्स णं भंते! तहारूवं समणं वा माहणं वा अफासुएणं २ असणं ४ पडिला भेमाणस्स किं कज्जइ ?, गोयमा ! बहुतरिया निजरा कज्जइ अप्पतरे से पावे कम्मे कज्जइ' त्ति वक्ष्यमाणवचनादवसीयते नैवेयं क्षुल्लकभवग्रहणरूपाऽल्पायुष्कता, न हि स्वल्पपापबहुनिर्जरानिबन्धनस्यानुष्ठानस्य क्षुल्लकभवग्रहणनिमित्ता संभाव्यते, जनपूजाद्यनुष्ठानस्यापि तथाप्रसङ्गात् नन्वेवं धर्मार्थ प्राणातिपातमृषावादाप्रा सुकदानंच कर्त्तव्यमापन्नमिति, अत्रोच्यते, आपद्यतां नाम भूमिकापेक्षया को दोषः ?, यतो यतिधर्माशक्तस्य गृहस्थस्य द्रव्यस्तवद्वारेण प्राणातिपातादिकमुक्तमेव प्रवचने, दानाधिकारे श्रूयते द्विविधाः श्रमणोपासकाः संविग्नभाविता लुब्धकदृष्टान्तभाविताश्च भवन्ति, यथोक्तम् ॥१॥ २३९ "संविग्गभावियाणं लोद्धयदिट्टंत भावियाणं च । मोत्तूण खेत्तकाले भावं च कहिंति सुद्धुंछं ॥" तत्र लुब्धकध्टान्तभाविता आगमार्थानभिज्ञत्वाद्यथाकथञ्चिद्ददति, संविग्नावितास्त्वागमज्ञत्वात्साधुसंयमबाधापरिहारित्वात्तदुपष्टम्भकत्वाञ्चौचित्येन, आगमश्चैवम् 119 11 "संथरणंमि असुद्धं दोपहवि गेण्हंतदिंतयाणऽहियं । आउरदिठ्ठतेणं तं चैव हियं असंथरणे ।।" (तथा) नायागयाणं कम्पनिज्जाणं अन्नपाणाईणं दव्वाण मित्यादि, अथवेहाप्रासुकदानमल्पायुष्कतायां मुख्यं कारणं, इतरे तु सहकारिकारणे इति व्याख्येयं प्राणातिपातनमृषावादनयोर्दानविशेषणत्वात्, तथाहि प्राणानतिपात्याधाकर्मादिकरणतो मृषोक्त्वा यथा भोः साधो ! स्वार्थ: मिदं सिद्धं भक्तादि कल्पनीयं चातो नानेषणीयमिति शङ्का कार्येति, ततः प्रतिलभ्य तथा कर्म कुर्वन्तीति प्रक्रम इति, गम्भीरार्थं चेदं सूत्रमतोऽन्यथाऽपि यथाऽऽगमं भावनीयमिति । अथ दीर्घायुष्कताकारणान्याह - 'कहन्न' मित्यदि, भवति हि जीवदयादिमतो दीर्घमायुर्यतोऽत्रापि तथैव भवन्ति दीर्घायुषं दृष्ट्वा वक्तारो - जीवदयादि पूर्वं कृतमनेन तेनायं दीर्घायुः संवृत्तः, तथा सिद्धमेव वधादिविरतेदीर्घमायुस्तस्य देवगतिहेतुत्वात्, आह च-"अनुव्वयमहव्वएहि य बालतवोऽकामनिज्जराए य । 119 11 देवाउयं निबंधइ सम्मदिट्ठी य जो जीवो ॥" देवगतौ च विवक्षया दीर्घमेवायुः, दानं चाश्रित्येहैव वक्ष्यति "समणोवासयस्स णं भंते ! तहारूवं समणं वा २ फासुएणं २ असण ४ मेणं पडिलाभेमाणस्स किं कज्जइ ?, गोयमा ! एगंतसो निज्जरा कज्जइ "त्ति, यच्च निर्जराकारणं तद्विशिष्टदीर्घायुःकारणतया न विरुद्धं महाव्रतवदिति, व्याख्यानान्तरमपि पूर्ववदेवेति । Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.003339
Book TitleAgam Sutra Satik 05 Bhagavati AngSutra 05
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherAgam Shrut Prakashan
Publication Year2000
Total Pages1096
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari, Agam, Canon, Agam 05, & agam_bhagwati
File Size23 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy