________________
भगवती अङ्गसूत्रं ५/-/४/२३३ श्रवणानाकाङ्क्षीतदुपासनामात्रपरः सन्नसौ केवल्युपासकः तस्य वचः श्रुत्वा जानति, भावना प्रायः प्राग्वत्, 'तप्पक्खियरस' त्ति केवलिपाक्षिकस्य स्वयंबुद्धस्येत्यर्थः, इह च श्रुत्वेति वचनेन प्रकीर्णकं वचनमात्रं ज्ञानमिमित्तताऽवसेयं, न त्वागमरूपं, तस्य प्रमाणग्रहणेन ग्रहीष्यमाणत्वादिति मू. (२३३) से किं तं पमाणे ?, पमाणे चउब्विहे पन्नत्ते, तंजहा - पञ्चक्खे अनुमाने ओवम्मे आगमे, जहा अनुओगादारे तहा नेयव्वं पमाणं जाव तेण परं नो अत्तागमे नो अनंतरागमे परंपरागमे ।
२३४
वृ. 'पमाणे 'त्ति प्रमीयते येनार्थः स्तत्प्रमाणं प्रमितिर्वा प्रमाणं 'पञ्चक्खे' त्ति अक्षं- जीवम् अक्षानि वेन्द्रियानि प्रति गतं प्रत्यक्षम् ' अनुमाणे 'त्ति अनु- लिङ्गग्रहणसम्बन्धस्मरणादेः पश्चान्मीयतेऽनेनेत्यनुमानम् 'ओवम्मे' ति उपमीयते सध्शतया गृह्यते वत्स्वनयेत्युपमा सैव औपम्यम् 'आगमे' त्ति आगच्छति गुरुपारम्पर्येणेत्यागमः, एषां स्वरूपं शास्त्रलाघवार्थः मतिदेशत आह
'जहे 'त्यादि, एवं चैतत्स्वरूपम्-द्विविधं प्रत्यक्षमिन्द्रियनोइन्द्रियभेदात्, तत्रेन्द्रिप्रत्यक्षंपञ्चधाश्रोत्रादीन्द्रियभेदात, नोइन्द्रियप्रत्यक्षं त्रिधा - अवध्यादिभेदादिति, त्रिविधमनुमानं पूर्ववच्छेषवद्दृष्टसाधर्म्यवच्चेति, तत्र पूर्ववत् पूर्वोयलब्धासाधारणलक्षणान्मात्रादि प्रमातुः प्राप्ते पुत्रादिपरिज्ञानं, शेषवत् यत्कार्यादिलिङ्गात्परोक्षार्थः ज्ञानं यथा मयूरोऽतर केकायितादिति, ध्यसाधर्म्यवत् यथैकस्य कार्षापणादेर्दर्शनादन्येऽप्येवंविधा एवेति प्रतिपत्तिरित्यादि, औपम्यं यथा गौर्गवयस्तथेत्यादि, आगमस्तु द्विधा-लौकिकलोकोत्तरभेदात्, त्रिधा वा सूत्रार्थोभयभेदात् ।
अन्यथा वा त्रिधा - आत्मागमानन्तरागमपरम्परागभेदात्, तत्रात्मागमादयोऽर्थः तः क्रमेण जिनगणधरतच्छिष्यापेक्षया द्रष्टव्याः, सूत्रतस्तु गणधरतच्छिष्यप्रशिष्यापेक्षयेति, एतस्य प्रकरणस्य सीमां कुर्वन्नाह- 'जावे'त्यादि, 'तेण परं 'ति गणधर शिष्याणां सूत्रतोऽनन्तरागमोऽर्थः तस्तु परम्परागमः ततः परं प्रशिष्याणामित्यर्थः ॥ केवलीतरप्रस्ताव एवेदमपरमाह
मू. (२३४) केवली णं भंते ! चरिमकम्मं वा चरिमनिज्जरं वा जाणति पासति ?, हंता गोयमा ! जाणति पासति । जहा णं भंते! केवली चरिमकम्मं व जहा णं अंतकरेणं आलावगो तहा चरिमकम्मेणवि अपरिसेसेओ नेयव्वो ।
वृ. 'केवली ण' मित्यादि, चरमकर्म यच्छैलेशीचरमसमयेऽनुभूयते चरमनिर्जरा तु यत्ततोऽनन्तरसमये जीवप्रदेशेभ्यः परिशटतीति ।
मू. (२३५) केवली णं भंते! पणीयं मणं वा वई वा धारेज्जा ?, हंता धारेजा, जहा णं भंते केवली पणीयं मणं वा वरं वा धारेज्जा ते णं वेमामिया देवा जाणंति पासंति ?, गोयमा ! अत्थेगतिया जाणंति पा० अत्येगतिया न जाणंति न पा०, से केणट्टेणं जाव न जाणंति न पासंति ?, गोयमा वेमामिया देवा दुविहा पन्नत्ता, तंजहा- माइमिच्छादिठ्ठिउववन्नगा य अमाइस- म्मदिट्ठिउवन्नया य, तत्थ णं जे ते माइमिच्छादिट्टीउववन्नगा ते न याणंति न पासंति, तत्थ णं जे ते अमाईसम्मदिट्ठीउववन्नगा ते णं जाणंति पासंति, से केणट्टेणं एवं वु० अमाईसम्मदिट्ठी जाव पा० ?, गोयमा अमाई सम्मदिडी दुविहा पन्नत्ता-अनंतरोववनगा य परंपरोववत्रगा य, तत्थ अनंतरोववन्नगान जा० परंपरोववन्नगा जाणंति, से केणद्वेणं भंते! एवं० परंपरोववन्नगा जाव जाणंति ?, गोयमा परंपरोववन्नगा दुविहा पन्नत्ता-पजत्तगा य अपजत्तगा य, पञ्जत्ता जा० अपजत्ता न जा०, एवं
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org