________________
२३०
भगवतीअगसूत्रं ५/-०४/२२६ नारकादिपदेषु 'निकभङ्गः' भङ्गत्रयं वाच्यं, यतो जीवपदे पृथिव्यादिपदेषु च बहुत्वाञ्जीवानां सप्तविधबन्धकाश्चाष्टविधबन्धकाश्चेत्येवमेक एव भङ्गको लभ्यते।
नारकादिषु तुत्रयं, तथाहि-सर्व एव सप्तविधबन्धकाः स्युरित्येकः १, अथवा सप्तविधबन्धकाश्चाष्टविधबन्धकश्चेत्येवं द्वितीयः २, अथवा सप्तविधबन्धकाश्चाष्टविधबन्धकाश्चेत्येवं तृतीयः ३ इति ।
अत्रैव छद्मस्थकेवल्यधिकारे इदमपरमाह-'छउमत्थे'त्यादि, 'निदाएज्ज वत्ति निद्रांसुखप्रतिबोधलक्षणां कुर्यात् निद्रायेत ‘पयलाएन वत्ति प्रचलाम्-उर्द्धस्थितनिद्राकरणलक्षणां कुर्यात् प्रचलायेत्।
केवल्यधिकारात्केवलिनो महावीरस्य संविधानकमाश्रित्येदमाह
मू. (२२७) हरीणं भंते! हरिनेगमेसी सक्कदूए इत्थीगमं संहरणमाणे किंगब्भाओगभं साहरइ १ गब्भाओ जोणि साहरइ २ जोणीओ गब्भं साहरइ ३ जोणीओ जोणि साहरइ ४?, गोयमा ! नो गब्भाओ गब्भं साहरइ नो गब्भाओ जोणिं साहरइ नो जोणीओ जोणिं साहरइ परामुसिय २ अव्वाबाहेणं अव्वाबाहं जोणीओ गब्भं साहरइ।
पभूणं भंते! हरिनेगमेसी सक्कस्सणंदूए इत्थीगभनहसिरंसिवारोमकूवंसिवासाहरित्तए वा नीहरित्तएवा?, हंतापभू, नो चेवर्णतस्स गब्भस्स किंचिविआबाहं वा विबाहं वा उप्पाएज्जा छविच्छेदं पुण करेजा, एसुहुमं च णं साहरिज वा नीहरिज वा ।।
वृ. 'हरी'त्यादि, इहचयद्यपिमहावीरसंविधानाभिधायकंपदंन दृश्यते तथाऽपिहरिनगमेषीति वचनात्तदेवानुमीयते, हरिनैगमेषिणा भगवतो गर्भान्तरे नयनात्, यदि पुनः सामान्यतो गर्भहरणविवक्षाऽभविष्यत्तदा 'देवे णं भंते !' इत्यवक्ष्यदिति, तत्र हरि-इन्द्रस्तत्सम्बन्धित्वात् हरिनैगमेषीति, नाम, सक्छदूए'त्ति शक्रदूतः शक्कादेशकारी पदात्यनीकाधिपतिर्येन शक्रादेशाद्भगवान् महावीरो देवानन्दागर्भात्रिंशलागर्भे संहृत इति, 'इत्थीगमंतिस्त्रियाः सम्बन्धी गर्भसजीवपुद्गलपिण्डकःस्त्रीगर्भस्तं 'संहरेमाणे'त्ति अन्यत्रनयन्, इह चतुर्भङ्गिका, तत्र 'गर्भाद्' गर्भाशयादवधेः 'गर्भ' गर्घाशयान्तरं 'संहरति प्रवेशयति गर्भ सजीवपुद्गलपिण्डलक्षणमितिप्रकृतमित्येकः १, तथा गर्भादवधेः 'योनि' गर्भनिर्गमद्वारं संहरति योन्योदरान्तरं प्रवेशयतीत्यर्थः २, तथा 'योनीतो योनिद्वारेण गर्भ संहरति गर्भाशयंप्रवेशयतीत्यर्थः३,तथा योनीतः' योनेः सकाशाद्योनि 'संहरति' नयित योन्योदरानिष्काश्य योनिद्वारेणैवोदरान्तरं प्रवेशयतीत्यर्थः ४।
एतेषुशेषनिषेधेन तृतीयमनुजानन्नाह-परामुसिए'त्यादि, 'परामृश्य २'तथाविधकरणव्यापारेण संस्पृस्य र स्त्रीगर्भम् 'अव्याबाधमव्याबाधेन' सुखंसुखेनेत्यर्थः 'योनीतः' योनिद्वारेण निष्काश्य 'गर्भ' गर्भाशयं 'संहरति' गर्भमिति प्रकृतं, यच्चेह योनीतो निर्गमनं स्त्रीगर्भस्योक्तं तल्लोकव्यवहारानुवर्तनात्, तथाहि-निष्पन्नोऽनिष्पन्नो वा गर्भ स्वभावाद्योन्यैव निर्गच्छतीति ।
अयं च तस्य गर्भसंहरणे आचार उक्तः, अथ तत्सामर्थ्य दर्शयन्नाह-'पभूण मित्यादि, 'नहसिरंसित्ति नखाग्रे 'साहरित्तए'त्ति संहर्तु-प्रवेशयितुं “नीहरित्तए'त्ति विभक्तिपरिणामेन नखशिरसोरोमकूपाद्वा 'निहर्तु' निष्काशयितुम् ‘आबाहंति ईषद्बाधां विबाह'तिविशिष्टबाधा 'छविच्छेदं तिशरीरच्छेदंपुनः कुर्यात्, गर्भस्य हि छविच्छेदमकृत्वा नखाग्रादीप्रवेशयितुमशक्यत्वात्
For Private & Personal Use Only
Jain Education International
www.jainelibrary.org