SearchBrowseAboutContactDonate
Page Preview
Page 189
Loading...
Download File
Download File
Page Text
________________ भगवती अङ्गसूत्रं ३/-/२/१७२ भयानीताऽतस्ताम्, अथवा भयं भयहेतुत्दानीकं तत्परिवारभूतमुल्कास्फुलिङ्गादि सैन्यं यस्याः सा भयानीकाऽतस्तां 'गंभीरं' ति गम्भीरां विकीर्णावयवत्वात् 'उत्तासणयं 'त्ति उत्त्रासनिकां 'सी उद्वेगे' इति वचनात् स्मरणेनाप्युद्वेगजनिकां 'महाबोदि' न्ति महाप्रभावतनुम् 'अप्फोडेइ' ति करास्फोटं करोति 'पायदद्दरगं' ति भूमेः पादेनास्फोटनम् 'उच्छोलेइ' त्ति अग्रतोमुखां चपेटां ददाति 'पच्छोलेइ' त्ति पृष्ठतोमुखां चपेटां ददाति 'तिवई छिंदइ' त्ति मल्ल इव रङ्गभूमौ त्रिपदीच्छेदं करोति 'ऊसवेइ' त्ति उच्छतं करोति 'विडंबेइ' त्ति विवृतं करोति 'साकहंतेव' त्ति समाकर्षयन्निव 'विउज्झाएमाणे' त्ति व्युद्राजमानः- शोभमानो विजृम्भमाणो वा व्युद्राजयन् वाऽम्बरतलेपरिघरत्न- मिति योगः " 'इंदकील 'त्ति गोपुरकपाटयुगसन्धिनिवेशस्थान्म। 'नाहि ते' त्ति नैव तव । 'फुलिंगजाले' त्यादि स्फुलिङ्गानां ज्वालानां च या मालास्तासां च यानि सहानि तानि यथा तैः, चक्षुर्विक्षेपश्च-चक्षुर्भ्रमः दृष्टिप्रतिघातश्च-दर्शनाभावः चक्षुर्विक्षेप दृष्टिप्रतिघातं तदपि कुर्वत्, 'अपि' विशेषणसमुच्चये 'हुतवहे' त्यादि, हुतवहातिरेकेण यत्तेजस्तेन दीप्यमानं यत्तत्तथा 'जइणवेगं 'ति जयी शेषवेगवद्वेगजयी वेगो यस्य तत्तथा 'महमयं' ति महतां भयमस्मादिति महद्भयं कस्मादेवमित्यत आह- 'भयङ्करं' भयकर्तृ । 'झियाइ' त्ति ध्यायति किमेतत् ? इति चिन्तयति, तथा 'पिहाइ' त्ति 'स्पृहयति' यद्येवंविधं प्रहरणं ममापि स्यादित्येवं तदभिलषति स्वस्थानगमनं वाऽभिलषति, अथवा 'पिहाइ' त्ति अक्षिणी पिधत्ते - निमीलयति, 'पिहाइ झियाइ'त्ति पूर्वोक्तमेव क्रियाद्वयं व्यत्ययेन करोति, अनेन च तस्यातिव्याकुलतोक्ता, 'तहेव 'त्ति यथा ध्यातवांस्तथैव तत्क्षण एवत्यर्थः, 'संभग्गमउडविडवे 'त्ति संभग्नो मुकुटविटपः- शेखरकविस्तारो यस्य स तथा । 'सालं हत्याभरणे' त्ति सह आलम्बेन प्रलम्बेन वर्त्तन्ते सालम्बानि तानि हस्ताभरणानि यस्याधोमुखगमनवशादसौ सालम्बहस्ताभरणः 'कक्खागयसेयंपिव'त्ति भयातिरेकात्कक्षागतं स्वेदमिव मुञ्चयन्, देवानां किल स्वेदो न भवतीति संदर्शनार्थः पिवशब्दः 'झत्ति वेगेणं' ति वेगेन समवपतितः कथं ? - 'झगिति' झटितिकृत्वा - यू. (१७३) तए णं तस्स सक्क रस देविंदस्स देवरन्नोइमेयारूवे अज्झत्थिए जाव समुप्पजित्थानो खलु पभू चमरे असुरिंदे असुरराया नो खलु समत्ये चमरे असुरिंदे असुरराया नो खलु विसए चमरस्स असुरिंदरस असुररन्नो अप्पणो निस्साए उड्डुं अप्पइत्ता जाव सोहम्मो कप्पो । नन्नत्थ अरिहंते वा अरिहंतचेइयानि वा अनगारे वा भावियप्पणो नीसाए उड्डुं उप्पयति जाव सोहम्मो कप्पो, तं महादुक्खं खलु तहारूवाणं अरहंताणं भगवंताणं अनगाराणय अच्चासायणाएत्तिकट्टु ओहिं पउंजति २ ममं ओहिणा आभोएति २ हा हा अहो हतोऽहमंसित्तिकट्टु ताए उक्किट्ठाए जाव दिव्वाए देवगतीए वज्रस्स वीहिं अनुगच्छमाणे २ तिरियमसंखेजाणं दीवसमुद्दाणं मज्झमज्झेणं जाव जेणेव असोगवरपायवे जेणेव ममं अंतिए तेणेव उवागच्छइ २ ममं चउरंगुलमसंपत्तं वज्रं पडिसाहरइ । घृ. 'पभु' त्ति शक्तः 'समत्ये' त्ति सङ्गतप्रयोजनः 'हा हा' इत्यादेः संस्कारोऽयं हा हा अहो हतोऽहमस्मीति कृत्वा, व्यक्तं चैतत् । मू. (१७४) अवियाई मे गोयमा! मुट्ठिवाएणं केसग्गे वीइत्था, तए णं से सक्के देविंदे देवराया वज्रं पडिसाहरिता ममं तिक्खुत्तो आयाहिणं पयाहिणं करेइ २ वंदइ नमसइ २ एवं For Private & Personal Use Only www.jainelibrary.org १८६ Jain Education International
SR No.003339
Book TitleAgam Sutra Satik 05 Bhagavati AngSutra 05
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherAgam Shrut Prakashan
Publication Year2000
Total Pages1096
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari, Agam, Canon, Agam 05, & agam_bhagwati
File Size23 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy