________________
शतकं-३, वर्गः-, उद्देशकः-१
१६५ 'अरगउत्त'त्ति अरकैरायुक्ता-अभिविधिनाऽन्विताअरकायुक्ता सिय'त्ति स्यात् भवेत् अथवाऽरका उत्तासिता-आस्फालिता यस्यां साऽरकोत्तासिता, एवमेव त्ति निरन्तरतयेत्यर्थः प्रभुर्जम्बूद्वीप बहुभिर्देवादिभिराकीर्ण कर्तुमिति योगः, वृद्धैस्तु व्याख्यातं-यथा यात्रादिषु युवतियूनो हस्ते लग्ना-प्रतिबद्धा गच्छति बहुलोकप्रचिते देशे, एवं यानि रूपानि विकुर्चितानि तान्येकस्मिन् कर्तरि प्रतिबद्धानि, यथा वा चक्रस्य नाभिरेका बहुभिररकैः प्रतिबद्धा घना निश्छिद्रा, एवमात्मशरीरप्रतिबद्धैरसुरदेवैर्देवीभिश्च पूरयेदिति। ____ 'वेउब्वियसमुग्धाएणंति वैक्रियकरणाय प्रयलविशेषेण 'समोहणइत्ति समुपहन्यते समुपहतो भवति समुपहन्ति वा-प्रदेशा विक्षिपतीति। तत्स्वरूपमेवाह-'संखेज्जाई'इत्यादि, दण्ड इव दण्डः-ऊर्ध्वाधआयतः शरीरबाहल्यो जीवप्रदेशकर्मपुद्गलसमूहः तत्रच विविधपुद्गलानादत्त इतिदर्शयन्नाह-तद्यथा- रत्नानां कर्केतनादीनाम, इहच यद्यपि रत्नादिपुद्गलाऔदारिकावैक्रियसमुदघातेच वैक्रिया एव ग्राह्याभवन्ति तथाऽपीहतेषांरलादिपुद्गलानामिव सारताप्रतिपादनाय रलानामित्याधुक्तं, तच्चरत्नानामिवेत्यादिव्याख्येयम्, अन्ये त्वाहुः औदारिका अपि ते गृहिताः सन्तो वैक्रियतया परिणमन्तीति, यावत्करणादिदं दृश्यम्-‘वइराणं वेरुलियाणं लोहियक्खाणं मसारगल्लाणंहंसगब्माणं पुलयाणंसोगंधियाणंजोतीरसाणंअंकाणंअंजणाणंरयणाणंजायसवाणं अंजणपुलयाणं फलियाणं'ति, किम् ?
अत आह-'अहाबायरे'त्ति यथाबादरान्-असारान् पुद्गलान् परिशातयति दण्डनिसगगृहीतान्, यत्रोक्तं प्रज्ञापनाटीकायां 'यथास्थूलान् वैक्रियशरीरनामकर्मपुद्गलान् प्राग्बद्धान् शातयतीति तत्समुदघातशब्दसमर्थनार्थःमनाभोगिकं वैक्रियशरीरकर्मनिर्जरणमाश्रित्येति, 'अहासुहुमे'त्ति यथासूक्ष्मान् सारान् परियाएति' पर्यादत्ते, दण्डनिसर्गगृहीतान् सामस्त्येनादत्त इत्यर्थः, 'दोचंपित्तिद्वितीयमपिवारंसमुद्घातं करोति, चिकीर्षितरूपनिर्माणार्थं, ततश्च 'पभुत्ति समर्थः केवलकप्पं तिकेवलः-परिपूर्ण कल्पत इति कल्पः-स्वकार्यकरणसामोर्पतस्ततःकर्मधारयः, अथवा 'केवलकल्पः' केवलज्ञानसदृशः परिपूर्णतासाधात्, संपूर्णपर्यायो वा केवलकल्प इतिशब्दः । 'आइन्न'मित्यादय एकार्था अत्यन्तव्याप्तिदर्शनायोक्ताः।
___ 'अदुत्तरंचणं तिअथापरंच, इदंचसामथ्यातिशयवर्णन 'विसए'त्तिगोचरो वैक्रियकरणशक्तेः, अयं च तत्करणयुक्तोऽपिस्यादित्यत आह-'विउब्बिसुवा' विकुर्वितवान् विकुर्वति वा विकुर्विष्यति वा, विकुर्व इत्ययं धातुः सामयिकोऽस्ति, विकुर्वणेत्यादिप्रयोगदर्शनादिति ।
मू.(१५३) जति णं भंते ! चमरे असुरिंदे असुरराया एमहिद्दीए जाव एवइयं च णं पभू विकुञ्चित्तए, चमरस्स गंभंते! असुरिंदस्स असुररन्नो सामानिया देवा केमहिड्डीया जाव केवतियं चणं पभू विकुवित्तए?, गोयमा ! चमरस्स असुरिंदस्स असुररनो सामानिया देवा महिडिया जाव महानुभागा, तेणंतत्थ साणं २ भवणाणं साणं २ सामानियाणं साणं २ अग्गमहिसीणंजाव दिव्वाइं भोगभोगाइं जमाणा विहरति ।
एवंमहिड्डीया जाव एवइयं च णं पभूचिकुवित्तए, से जहानामए-जुवतिं जुवाणे हत्थेणं हत्थे गेण्हेजा चक्कस्स वा नामी अरयाउत्ता सिया एवामेव गोयमा! चमरस्स असुरिंदस्सअसुररन्नो एगमेगे सामानिए देवे वेउब्वियसमुग्घाएणं समोहणइ जाव दोचंपि वेउब्वियसमुग्घाएणं
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org