SearchBrowseAboutContactDonate
Page Preview
Page 163
Loading...
Download File
Download File
Page Text
________________ १६० भगवतीअङ्गसूत्रं २/-/१०/१४४ वृ. 'जीवेण मित्यादि, इह च ‘सउट्ठाणे इत्यादीनि विशेषणानि मुक्तजीवव्युदासार्थानि 'आयभावेणं ति आत्मभावेन-उत्थानशयनगमनभोजनादिरूपेणात्मपरिणामविशेषेण जीवभाव'ति जीवत्वं चैतन्यम् ‘उपदर्शयति' प्रकाशयतीति वक्तव्यं स्याद् ?, विशिष्टस्योत्थानादेविशिष्टचेतनापूर्वकत्वादिति। ___'अनंताणंआभिनिबोहिए'त्यादि, पर्यवाः प्रज्ञाकृता अविभागाः पलिच्छेदाः, तेचानन्ता आभिनिबोधिकज्ञानस्यातोऽनन्तानामाभिनिबोधिकज्ञानपर्यवाणां सम्बन्धिनम्, अनन्ताभिनिबोधिकज्ञानपर्यवात्मकमित्यर्थः, 'उपयोग चेतनाविशेषं गच्छतीति योगः, उत्थानादावात्मभावेवर्तमान्इतिहृदयम्, अथ यद्युत्थानाद्यात्मभावेवर्तमानो जीव आभिनिबोधिकज्ञानाद्युपयोग गच्छति तत्किमेतावतैव जीवभावमुपदर्शयतीति वक्तव्यं स्यात् ? इत्याशङ्कयाह ‘उवओगे'त्यादि, अत उपयोगलक्षणंजीवभावमुत्थानाद्यात्मभावेनोपदर्शयतीति वक्तव्यं स्यादेवेति ॥अनन्तरंजीवचिन्तासूत्रमुक्तम्, अथ तदाधारत्वेनाकाशचिन्तासूत्राणि मू. (१४५) कतिवहे णं भंते ! आगासे पन्नते?, गोयमा ! दुविहे आगासे प० तंजहालोयागासे य अलयागासे य। लोयागासे णं भंते ! किं जीवा जीवदेसा जीवपदेसा अजीवा अजीवदेसा अजीवपएशा गोयमा! जीवाविजीवदेसावि जीवपदेसावि अजीवदेसावि अजीवपदेसाविजे जीवा ते नियमा एगिदिया बेंदिया तेइंदिया चउरिदिया पंचेंदिया अनिंदिया। जेजीवदेसातेनियमाएगिदियदेसाजाव अनिंदियदेसा, जेजीवपदेसाते नियमाएगिदियपदेसा जाव अनिंदियपदेसा। जे अजीवा ते दुविहा पन्नत्ता, तंजहा-रूवी य अरूवी य, जे रूवी ते चउब्विहा पन्नत्ता, तंजहा-खंधा खंधदेसा खंधपदेसा परमाणुपोग्गला, जे अरूवी ते पंचविहा पन्नत्ता, तंजहाधम्मस्थिकाए नोधम्मत्थिकायस्स देसे धम्भस्थिकायस्स पदेसाअधम्मस्थिकाए नोअधम्मस्थिकायस देसे अधम्मस्थिकायस्स पदेसा अद्धासमए।। वृ. तत्र लोकालोकाकाशयोर्लक्षणमिदं॥१॥ “धर्मादीनां वृत्तिर्द्रव्याणां भवति यत्र तत्क्षेत्रम् । _ तैव्यैः सह लोकस्तद्विपरीतं ह्यलोकाख्यम् ।। इति ।। 'लोगागासे ण'मित्यादी षट् प्रश्नाः, तत्र लोकाकाशेऽधिकरणे 'जीव'त्ति संपूर्णानि जीवद्रव्याणि 'जीवदेस'त्तिजीवस्यैव बुद्धिपरिकल्पिता द्वयादयोविभागाः, 'जीवपएस'त्ति तस्यैव बुद्धिकृता एव प्रकृष्टा देशाः प्रदेशा, निर्विभागा भागा इत्यर्थः । 'अजीवत्तिधर्मास्तिकायादयो, ननुलोकाकाशेजीवाअजीवाश्चेत्युक्तेतद्देशप्रेशास्तत्रोक्ता एव भवन्ति, जीवाद्यव्यतिरिक्तत्वाद्देशादीनां, ततो जीवाजीवग्रहणे किं देशादिग्रहणेनेति ?, नैवं, निरवयवा जीवादय इति मतव्यवच्छेदार्थत्वादस्येति, अत्रोत्तरं ____ 'गोयमा ! जीवावी'त्यादि, (जे जीवेत्यादि) अनेन चाद्यप्रश्नत्रयस्य निर्वचनमुक्तम् । अथान्त्यस्य प्रश्नत्रयस्य निर्वचनमाह-रूवीय'त्तिमूत्ताः, पुद्गला इत्यर्थः, अरूवी यत्ति अमूत्ताः, धर्मास्तिकायादयइत्यर्थः, खंध'त्ति परमाणुप्रचयात्मकाः स्कन्धाः स्कन्धदेशाः द्वयादयो विभागाः Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.003339
Book TitleAgam Sutra Satik 05 Bhagavati AngSutra 05
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherAgam Shrut Prakashan
Publication Year2000
Total Pages1096
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari, Agam, Canon, Agam 05, & agam_bhagwati
File Size23 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy