________________
शतक-२, वर्ग:-, उद्देशकः-१०
१६१
'स्कन्धप्रदेशाः', तस्यैव निरंशाअंशाः ‘परमाणुपुद्गलाः' स्कन्धभावमनापन्नाः परमाणव इति, ततो लोकाकाशेरूपिद्रव्यापेक्षया 'अजीवाविअजीवदेसावि अजीवपएसावि' इत्येतदर्थतः स्याद्, अणूनां स्कन्धानां चाजीवग्रहणेन ग्रहणात् ।
'जे अस्वी ते पंचविहे'त्यादि, अन्यत्रारूपिणो दशविधा उक्ताः, तद्यथा-आकाशास्तिकायस्तद्देशस्तप्रदेशश्चेत्येवं धर्माधर्मास्तिकायौ समयश्चेति दश, इह तुसभेदस्याकाशस्याधारत्वेन विवक्षितत्वात्तदाधेयाः सप्त वक्तव्या भवन्ति, न च तेऽत्र विवक्षिताः, वक्ष्यमाणकारणात्, येतु विवक्षितास्तानाह-पञ्चेति, कथमित्याह -
'धम्मस्थिकाए' इत्यादि, इह जीवानां पुद्गलानां च बहुत्वादेकस्यापि जीवस्य पुद्गलस्य वा स्थाने सङ्कोचादितथाविधपरिणामवशाबहवो जीवाः पुद्गलाश्च तथा तद्देशास्तप्रदेशाश्च संभवन्तीतिकृत्वा जीवाश्च जीवदेशाश्च जीवप्रदेशाच, तथा रूपिद्रव्यापेक्षयाऽजीवाश्थाजीवदेशाश्चाजीवप्रदेशाश्चेति संगतम्, एकत्राप्याश्रयेभेदवतो वस्तुत्रयस् सद्भावात, धर्मास्तिकायादौ तु द्वितयमेव युक्तं, यतोयदा संपूर्ण वस्तुविवक्ष्यते तदा धर्मास्तिकायादीत्युच्यते, तदंशविवक्षायां तु तत्प्रदेशा इति, तेषामवस्थितरूपत्वात्, तद्देशकल्पना त्वयुक्ता, तेषामनवस्थितरूपत्वादिति, यद्यपि चानवस्थितरूपत्वं जीवादिदेशानामप्यस्ति तथाऽपि तेषामेकत्राश्रये भेदेन सम्भवः प्ररूपणाकारणम् इह तु तन्नास्तिधर्मास्तिकायादेरेकत्वादसङ्कोचादिधर्मकत्वाचेति, अत एव धर्मास्तिकायादिदेशनिषेधायाह ।
'नोधम्मस्थिकायस्स देसे' तथा 'नो अधम्मस्थिकायस्स देसे 'त्ति।
चूर्णिकारोऽप्याह-'अलविणो दव्वा समुदयसद्देणं भन्नति, नीसेसा, पएसेहिं वा नीसेसा भनिना, नो देसेणं, तस्स अणवट्टियप्पमाणत्तणओ, तेण न देसेण निद्देसो, जो पुण देससद्दो एएसु कओ सो सविसयगयववहारत्थं परदव्वफुसणादिगयववहारत्थं चेति, तत्र स्वविषयेधर्मास्तिकायादिविषये यो देशस्य व्यवहारो-यथा धर्मास्तिकायः स्वदेशेनोलोकाकाशं व्याप्नोतीत्यदिस्तदर्थं, तथा परद्रव्येण-उर्ध्वलोकाकाशादिना यः स्वस्य स्पर्शनादिगतो व्यवहारो यथोलोकाकाशेन धर्मास्तिकायस्य देशः स्पृश्यते इत्यादिस्तदर्थःमिति।
'अद्धासमय'त्ति अद्धा-कालस्तल्लक्षणः समयः-क्षणोऽद्धासमयः, सचैक एव वर्तमानक्षणलक्षणः, अतीतानागतयोरसत्त्वादिति ।
कृतं लोकाकाशगतप्रश्नषट्कस्य निर्वचनम्, अथालोकाकाशं प्रति प्रश्नयनाह
मू. (१४६) अलोगागासे णं भंते ! किंजीवा? पुच्छा तह चेव, गोयमा! नो जीवा जाव नोअजीवप्पएसा एगे अजीवदव्वदेसे अगुरुयलहुए अनंतेहिं अगुरुयलहुयगुणेहिं संजुत्तेसव्वागासे अनंतभागूणे।
वृ. 'पुच्छातह चेव'त्ति यथा लोकप्रश्ने, तथाहि-'अलोकाकासेणंभंते! किंजीवाजीवदेसा जीवप्पएसा अजीवा अजीवदेसा अजीवप्पएस'त्ति ।
निर्वचनं त्वेषांषन्नामपि निषेधः, तथा 'एगे अजीवदव्वदेसे'त्ति अलोकाकाशस्य देशत्वं लोकालोकरूपाकाशद्रव्यस्य भागरूपत्वात् 'अगरुयलहुए'त्ति गुरुलघुत्वाव्यपदेश्यत्वात् 'अनंतेहिं
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org