SearchBrowseAboutContactDonate
Page Preview
Page 137
Loading...
Download File
Download File
Page Text
________________ १३४ भगवती अङ्गसूत्रं २//१/११४ लङ्घनेनेत्यर्थः 'अहासम्म' ति यथासाम्यं समभावानतिक्रमेण 'काएणं' ति न मनोरथमात्रेण 'फासेइ' त्ति उचितकाले विधिना ग्रहणात् 'पालेइ' त्ति असकृदुपयोगेन प्रतिजागरणात् 'सोहेइ' त्ति शोभयति पारणकदिने गुर्वादिदत्तशेषभोजनकरणात् शोधयति वाऽतिचारपङ्कक्षालनात् 'तीरेइ'त्ति पूर्णेऽपि तदवधी स्तोककालावस्थानात् 'पूरेइ' त्ति पूर्णेऽपि तदवधी तत्कृत्यपरिमाणपूरणात् । - 'किट्टेइ' त्ति कीर्त्तयति पारणकदिने इदं चेदं चैतस्याः कृत्यं तच्च मया कृतमित्येवं कीर्त्तनात् 'अनुपालेइ' त्ति तत्समाप्तौ तदनुमोदनात्, किमुक्तं भवति ? इत्याह- आज्ञयाऽऽराधयतीति एवमेताः सप्त सप्तमासान्ताः, ततोऽष्टमी प्रथमा सप्तरात्रिन्दिवा सप्ताहोरात्रमानाः एवं नवमी दशमी चेति, एतास्तिस्रोऽपि चतुर्थभक्तेनापानकेनेति, उत्तानकादिस्थानकृतस्तु विशेषः, 'राइंदिय'ति रात्रिन्दिवा, एकादशी अहोरात्रपरिमाणा, इयं च षष्ठभक्तेन, 'एगराइय'त्ति एकरात्रिकी, इयं चाष्टमेन भवतीति । 'गुणरयणसंवच्छरं 'ति गुणानां निर्जराविशेषाणां रचनं करणं संवत्सरेण-सत्रिभागवर्षेण यस्मिंस्तपसि तद् गुणरत्नसंवत्सरं, गुणा एव वा रत्नानि यत्र स तथा गुणरत्नः संवत्सरो यत्र तदुणरत्नसंवत्सरं तपः, इह च त्रयोदश मासाः सप्तदशदिनाधिकास्तपः कालः, त्रिसप्ततिश्च दिनानि पारणककाल इति, एवं चायम् 119 11 "पन्नरसवीसचउव्वीस चेव चउवीस पन्नवीसा य । चवीस एक्कवीसा चउवीसा सत्तवीसा य ॥ तीसा तेत्तीसावि य चउव्वीस छवीस अडवीसा य । तीसा बत्तीसावि य सोलसमासेसु तवदिवसा ॥ पन्नरसदसदृछप्पंचचउर पंचसु य तिन्नि तिन्निति । पंचसु दो दो य तहा सोलसमासेसु पारणगा ।। गुणरत्नसंवत्सर तपोयन्त्रमिदम् ।। ॥२॥ ॥३॥ मास तपोदि० पा० दि० १५ २० २४ २४ २५ २४ २१ २४ ३ ૪ ५ ६ ७ ८ Jain Education International १५ १० ८ ६ ५ ४ ३ ३ इह च यत्र मासेऽष्टमादितपसो यावन्ति दिनानि न पूर्यन्ते तावन्त्यग्रेतनमासादाकृष्य पूरणीयानि, अधि| कानि चाग्रेतनमासे क्षेप्तव्यानि । 'चउत्थं चउत्थेणं' ति चतुर्थं भक्तं यावद्भक्तं त्यज्यते | यत्र तच्चतुर्थम्, इयं चोपवासस्य सञ्ज्ञा, एवं षष्ठादिकमुपवासद्वयादेरिति । 'अनिक्खित्तेणं' ति अविश्रान्तेन दिय'त्ति दिवा दिवस इत्यथः 'ठाणुक्कुडुए' त्ति, स्थानम् - आसनमु- कुटुकम्आधारे पतालगनरूपं यस्यासी स्थानोत्कटुकः 'वीरासणेणं' ति सिंहासनोपविष्टस्य भून्यस्तपादस्याप- नीतसिंहा|सनस्येव यदवस्थानं तद्वीरासनं तेन, 'अवा- उडेण य'त्ति प्रावरणाभावेन च । For Private & Personal Use Only www.jainelibrary.org
SR No.003339
Book TitleAgam Sutra Satik 05 Bhagavati AngSutra 05
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherAgam Shrut Prakashan
Publication Year2000
Total Pages1096
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari, Agam, Canon, Agam 05, & agam_bhagwati
File Size23 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy