SearchBrowseAboutContactDonate
Page Preview
Page 130
Loading...
Download File
Download File
Page Text
________________ शतकं-२, वर्गः-, उद्देशकः-१ १२७ गतानि-स्थितानि यस्य स तथा, 'पहारेत्य'त्ति 'प्रधारितवान्' सङ्कल्पितवान् ‘गमनाय' गन्तुं । _ 'गोयमाइ'त्ति गौतम इति एवमामन्त्रेयति शेषः, अथवाऽयीत्यामन्त्रणार्थमेव । “से काहे वत्तिअथ कदावा? कस्यां वेलायामित्यर्थः किहवत्ति केन वाप्रकारेण? साक्षाद्दर्शनतःश्रवणतो वा केवच्चिरेण वत्ति कियतो वा कालात् ?, 'सावत्थी नामंनयरी होत्थ'त्ति विभक्तिपरिणामादस्तीत्यर्थः,अथवा कालस्यावसर्पिणीत्वात्प्रसिद्धगुणा कालान्तर एवाभवन्नेदानीमिति। अदूराइगए'त्ति अदूरेआगतः, सचावधिस्थानापेक्षयाऽपि स्यात् अथवा दूरतरमागपिक्षया क्रोशादिकमप्यदूरस्थादत उच्यते 'बहुसंपत्ते'ईषदूनसंप्रप्तो बहुसंप्राप्तः, सच विश्रामादिहेतोरारामादिगतोऽपि स्यादत उच्यते-'अद्धाणपडिवन्ने'त्ति मार्गप्रतिपत्रः। किमुकतं भवति?-'अंतापहे वट्टइत्ति विवक्षितस्थानयोरन्तरालमार्गेवर्त्तत इति । अनेन च सूत्रेण कथं द्रक्ष्यामि ? इत्यस्योत्तरमुक्तं, कथं ?, यतोऽदूरागतादिविशेषणस्य साक्षादेव दर्शनं संभवति, तथा 'अञ्जव णं दच्छसि'इत्यनेन कियच्चिरादित्यस्योत्तरमुक्तं, 'काहे इत्यस्य चोत्तरं सामर्थ्यगम्यं, यतो यदि भगवता मध्याह्नसमये इयं वार्ताऽभिहिता तदा मध्याह्नस्योपरि मुहूर्ताद्यतिक्रमणे या वेला भवति तस्यां द्रक्ष्मसीति सामथ्या१क्तम्, अदूरागतादिविशेषणस्य हि तद्देशप्राप्ती मुहूर्तादिरेव कालः संभवति न बहुतर इति । 'अगाराओ'त्तिनिष्क्रम्येतिशेषः ‘अनगारितां साधुतां प्रव्रजितुं' गन्तुम्, अथवा विभक्तिपरिणामादनगारितया 'प्रनजितुं' प्रव्रज्यांप्रतिपत्तुम्, 'अब्भुट्टेति'त्ति आसनंत्यजति, यच्चभगवतो गौतमस्यासंयतं प्रत्यभ्युत्थानं तद्भाविसंयतत्वेन तस्य पक्षपातविषयत्वाद् गौतमस्य चाक्षीणरागत्वात्, तथा भगवदाविष्कृततदीयविकल्पस्य तत्समीपगमनतस्तकथनाद् भगवज्ज्ञानातिशयप्रकाशनेन भगवत्यतीव बहुमानोत्पादनस्य चिकीर्षितत्वादिति । 'हे खंदय'त्ति सम्बोधनमात्रं 'सागयं खंदय'त्ति ‘स्वागतं' शोभनमागमनं तव स्कन्दक! महाकल्याणनिधेर्भगवतो महावीरस्य संपर्केण तव, कल्याणनिबन्धनत्वात्तस्य, 'सुसागयंति अतिशयेन स्वागतं, कथञ्चिदेकार्थो वा शब्दावेतौ, एकार्थशब्दोच्चारणं च क्रियमाणं न दुष्टं, संभ्रमनिमि-त्तत्वादस्येति, अनुरागयंखंदय! त्तिरेफस्यागमिकत्वाद् ‘अन्वागतम् अनुरूपमागमनं स्कन्दक!तवेतिध्श्य, सागयमनुरागतिशोभनत्वानुरूपत्वलक्षणधर्मद्वयोपेतं तवागमनमित्यर्थः 'जेणेव इहं'ति यस्यामेव दिशीदं भगवत्समवसरणं 'तेणेव'त्ति तस्यामेव दिशि "अत्थे समत्थे "त्तिअस्त्येषोऽर्थः। 'अढेसमडे'त्ति पाठान्तरं, काक्वाचेदमध्येयं, ततश्चार्थः किं समर्थः' सङ्गतः ? इति प्रश्नः स्यात्, उत्तरं तु 'हंता अस्थि' सद्भूतोऽयमर्थ इत्यर्थः । 'नाणी त्यादि, अस्यायमभिप्रायः-ज्ञानी ज्ञानसामाज्जानातितपस्वीच तपःसामथ्यद्दिवतासान्नि-ध्याजानातीति प्रश्नः कृतः 'रहस्सकडे'त्ति रहः कृतः-प्रच्छन्नकृतो, हदय एवावधारितत्वात्। ___'धम्मायरिए'त्ति कुत एतत् ? इत्याह-'धम्मोवएसए'त्ति, उत्पन्नज्ञानदर्शनधरोन तु सदा संशुद्धः, अर्हद्वन्दनाधर्हत्वात्, जिनोरागादिजेतृत्वात्, केवली असहायज्ञानत्वात्, अतएवातीतप्रत्युत्पन्नानागतविज्ञायकः, स च देशज्ञोऽपि स्यादित्याह। सर्वज्ञः सर्वदर्शी, वियट्टभोइ'त्तिव्यावृत्ते २ सूर्येभुङ्क्ते इत्येवंशीलो व्यावृत्तभोजीप्रतिदिनभोजीत्यर्थः, ओरालंति प्रधानं 'सिंगारंति श्रृङ्गारः-अलङ्कारादिकृता शोभा तद्योगात् श्रृङ्गारं, Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.003339
Book TitleAgam Sutra Satik 05 Bhagavati AngSutra 05
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherAgam Shrut Prakashan
Publication Year2000
Total Pages1096
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari, Agam, Canon, Agam 05, & agam_bhagwati
File Size23 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy