________________
१२६
भगवती अङ्गसूत्रं २/- /१/११२
पूर्वोक्तार्थस्य विशेषद्योतनार्थ अङ्गेत्यामन्त्रणे अभिगमनम् अभिमुखगमनं वन्दनं-स्तुति नमस्यनंप्रणमनं प्रतिप्रच्छनं- शरीरादिवार्त्ताप्रश्नः पर्युपासनं-सेवा तेषाम् अभिगमनादीनां भावस्तत्ता तया आर्यस्येत्यार्यप्रणेतृकत्वात् धार्मिकस्य धर्मप्रतिबद्धत्वात् 'वंदामो' त्ति स्तुमः 'नमस्यामः' इति प्रणमामः ‘सत्कारयामः’ आदरं कुर्मो वस्त्रार्चनं वा सन्मानयाम उचितप्रतिपत्तिभिः ।
किम्भूतम् ? इत्याह- कल्याणं- कल्याणहेतुं मङ्गलं दुरितोपशमनहेतुं दैवतं देवं चैत्यम्इष्टदेवप्रतिमा चैत्यमिव चैत्यं 'पर्युपासयामः' सेवामहे 'एतण्णे' त्त एतत् 'नः' अस्माकं 'प्रेत्यभवे' जन्मान्तरे 'हिताय' पथ्यान्नवत् 'सुखाय' शर्मणे 'क्षेमाय' सङ्गतत्वाय 'निश्रेयसाय' मोक्षाय 'आनुगामिकत्वाय' परम्परा शुभानुबन्धसुखाय भविष्यति 'इतिकृत्वा' इतिहेतोर्बहवः 'उग्रा:' आदिदेवावस्थापिताऽऽरक्षकवंशजाताः 'भोगाः ' तेनैवावस्थापितगुरुवंशजाताः 'राजन्याः ' भगवद्वयस्यवंशजाः 'क्षत्रियाः ' राजकुलीनाः 'भटाः' शौर्यवन्तः 'योधाः ' तेभ्यो विशिष्टतराः मल्लकिनो लेच्छकिनश्च राजविशेषाः ‘राजानः' नृपाः 'ईश्वराः' युवराजास्तदन्ये च महर्द्धिकाः 'तलवराः' प्रतुष्टनरपतिवितीर्णपट्टबन्धविभूषिता राजस्थानीयाः 'माडम्बिकाः' संनिवेशविशेषनायकाः 'कौटुम्बिकाः' कतिपयकुटुम्बप्रभवो राजसेवकाः ।
उत्कृष्टिश्च - आनन्दमहाध्वनि सिंहनादश्च प्रतीतः बोलञ्च वर्णव्यक्तिवर्जितो महाध्वनि कलकलश्च-अव्यक्तवचनः स एवैतल्लक्षणो यो रवस्तेन समुद्ररवभूतमिव-जलधिशब्दप्राप्तमिव तन्मयमिवेत्यर् नगरमिति गम्यत इति ।
एतस्यार्थस्य सङ्क्षेपं कुर्वन्नाह - 'परिसा निग्गच्छति' त्ति ।
‘तएणं’ति ‘ततः’ अनन्तरम् 'इमेया-रूवेत्ति 'अयं वक्ष्यमाणतया प्रत्यक्षः स च कविनोच्यमानो न्यूनाधिकोऽपि भवतीत्यत आह-एतदेव रूपं यस्यासावेतद्रूपः 'अस्मित्थए 'त्ति आध्यात्मिक आत्मविषयः 'चिंतिए 'त्ति स्मरणरूपः 'पत्थिए 'त्ति प्रार्थित अभिलाषात्मकः 'मनोगए' त्ति मनस्येव योगो न हि वचनेनाप्रकाशनात्स तथा 'सङ्कल्पः' विकल्पः 'समुप्पज्जित्थ' त्ति समुत्पन्नवान् ।
'सेयं 'त्ति श्रेयः- कल्याणं 'पुच्छित्तए' त्ति योगः 'इमाई च णं' ति प्राकृतत्वाद् 'इमान्' अनन्तरोक्तत्वेन प्रत्यक्षासन्नान् चशब्दादन्यांश्च 'एयारूवाई' ति 'एतद्रूपान्' उक्तस्वरूपान्, अथतैतेषामेवानन्तरोक्तानामर्थानां रूपं येषां प्रष्टव्यतासाधर्म्यातते तथा तानू 'अर्थान्' भावान् लोकसान्तत्वादस्तदन्यांश्च 'हेऊई' ति अन्वयव्यतिरेकलक्षणहेदुगम्यत्वाद्धेतवो-लोकसान्तत्वादयएव तदन्ये चातस्तान् 'पसिणाइं' ति प्रश्नविषयत्वात् प्रश्ना एत एव तदन्ये वाऽ तस्तान् 'कारणाई' ति कारणम्उपपत्तिमात्रं तद्विषयत्वात्कारणानि एत एव तदन्ये वाऽतस्तानि 'वागरणाई' ति व्याक्रियसमाणत्वाद्वयाकरणानि एत एव तदन्ये वाऽतस्तानि 'पुच्छित्तए 'त्ति प्रष्टुं 'तिकड'- इतिकृत्वाऽनेन कारणेन 'एवं संपेहेइ' त्ति ।
‘एवम्’ उक्तप्रकारं भगवद्नवन्दनादिकरणमित्यर्थः 'संप्रेक्षते' पर्यालोचयति 'परिव्वायावसहे’त्ति परिव्राजकमठः 'कुण्डिका' कमण्डलु 'काञ्चनिका' रुद्राक्षकृता 'करोटिका' मृद्भाजनविशेष: 'भृशिका' आसनविशेष: 'केशरिका' प्रमार्जनार्थं चीवरखण्डं 'षडनालकं' त्रिकाष्ठिका 'अङ्कुशकं' तरुपल्लवग्रहणार्थमङ्कुशाकृति 'पवित्रकम्' अङ्गुलीयकं 'गणेत्रिका' कलाचिकाऽSभरणविशेषः 'धाउरताओ' त्ति साटि इति विशेषः, 'तिदंडे' त्यादि त्रिदण्डकादीनि दश हस्ते
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org