SearchBrowseAboutContactDonate
Page Preview
Page 131
Loading...
Download File
Download File
Page Text
________________ १२८ भगवतीअङ्गसूत्रं २/-19/११२ श्रृङ्गारमिव श्रृङ्गारमतिशयशोभावदित्यर्थः, 'कल्याणं' श्रेयः ‘शिवम्' अनुपद्रवमनुपद्रवहेतुर्वा 'धन्य धर्मधनलब्धृ तत्र वा साधु तद्वाऽर्हत ‘मङ्गल्यं' मङ्गले-हितार्थप्रापके साधु माङ्गल्यम्, अलङ्कृतं मुकुटादिभिर्विभूषितं-वादिभिस्तन्निषेधादनलङ्कृतविभूषितं, 'लक्खणवंजणगुणोववेयंति लक्षणंमानोन्मानादि, तत्र मान-जलद्रोणमानता, जलभृतकुण्डिकायां हि मातव्यं पुरुषः प्रवेश्यते तत्प्रवेशे च यज्जलं ततो निस्सरति तद्यदि द्रोणमानं भवति तदाऽसौ मानोपेत उच्यते, उन्मानं त्वर्द्धभारमानता, मातव्यः पुरुषोहि तुलारोपितोयद्यर्द्धभारमानो भवति तदोन्मानोपेतोऽसावुच्यते, प्रमाणं पुनः स्वाङ्गुलेनाटेत्तरशताङ्गुलोच्छ्रयता, यदाह॥१॥ “जलदोणमद्धभारं समुहाइ समूसिओ उजो नव उ। माणुम्माणपमाणं तिविहं खलु लक्खणं एयं। व्यञ्जनं-मषतिलकादिकमधवा सहजं लक्षणंपश्चाद्भवं व्यञ्जनमिति, गुणाः-सौभाग्यादयो लक्षणव्यञ्जनानां वा ये गुणास्तैरुपपेतंयत्तत्तथा, उपअपइतम् इत्येतस्य स्थाने निरुक्तिवशादुपपेतं भवतीति, 'सिरीए'त्ति लक्ष्म्या शोभया वा ॥ 'हट्टतुटुचित्तमाणंदिए'त्ति हृष्टतुष्टमत्यर्थं तुष्टं हृष्टं वा-वस्मितं तुष्टं च-सन्तोषवच्चित्तं-मनो यत्र तत्तथा, तद् हृष्टतुष्टचित्तं यथा भवति एवम् 'आनन्दितः' ईषन्मुखसौम्यतादिभावैः समृद्धिमपगतः, ततश्च 'नंदए'त्ति नन्दितस्तैरेव समृद्धतरतामुपगतः ‘पीइमणे'त्ति प्रीति-प्रीणनमाप्यायनं मनसि यस्य स तथा परमसोमनस्सिए'त्ति परमं सौमनस्यंसुमनस्कता संजातं यस्य स परमसौमनस्थितस्तद्वाऽस्यास्तीति परमसौमनस्थिकः 'हरिसवसविसप्पमाणहियए'त्ति हर्षवशेन विसर्पद्-विस्तारं व्रज हृदयं यस्य स तथा, एकार्थिकानि वैतानि प्रमोदप्रकर्षप्रतिपादनार्थानीति 'दव्यओ णं एगे लोए सअंते'त्ति पञ्चास्तिकायमयैकद्रव्यत्वाल्लोकस्य सान्तोऽसौ, 'आयामविक्खंभेणं ति आयामो-दैर्घ्यं विष्कम्भो-विस्तारः परिक्खेवेणं तिपरिधिना 'भुविंसुय'त्तिअभवत् इत्यादिभिश्च पदैः पूर्वोक्तपदानामेव तात्पर्यमुक्तं, 'धुवे'त्तिध्रुवोऽचलत्वात्स चानियतरूपोऽपि स्यादत आह-'नियए'त्ति नियत एकस्वरूपत्वात्, नियतरूपः कादाचित्कोऽपि स्यादत आह'सासए'त्ति शाश्वतः प्रतिक्षणं सद्भावात्, सच नियतकालापेक्षयाऽपि स्यादित्यत आह ___ अक्खए'त्ति अक्षयोऽविनाशित्वात्, अयं च बहुतरप्रदेशापेक्षयाऽपि स्यादित्यत आह'अव्वए'त्ति अव्ययस्तयदेशानामव्ययत्वात, अयं च द्रव्यतयाऽपि स्यादित्याह-'अवट्ठिए'त्ति अवस्थितः पर्यायाणामनन्ततयाऽवस्थितत्वात्, किमुक्तं भवति?-नित्य इति, 'वन्नपज्जवति वर्णविशेषा एकगुणकालत्वादयः, एवमन्येऽपि गुरुलघुपर्यवास्तद्विशेषाबादरस्कन्धानाम्, अगुरुलघुपर्यवा अणूनां सूक्ष्मस्कन्धानाममूर्तानांच, 'नाणपज्जवत्ति ज्ञानपर्याया ज्ञानविशेषा बुद्धिकृता वाऽविभागपरिच्छेदाः, अनन्ता गुरुलघुपर्याया औदारिकादिशरीराण्याश्रित्य, इतरेतुकर्मणादिद्रव्याणि जीवस्वरूपं चाश्रित्येति। जेवि य ते खंदया पुच्छत्ति अनेन समग्र सिद्धिप्रश्नसूत्रमुपलक्षणत्वाच्चोत्तरसूत्रांशश्च सूचितः, तच्च द्वयमप्येवम्-'जेवि य ते खंदया इमेयारूवे जाव किं सअंता सिद्धी अनंता सिद्धी तस्सवि य णं अयमढे, एवं खलु मए खंदया ! चउव्विहा सिद्धी पन्नत्ता, तंजहा-दव्वओ खेत्तओ कालओ भावओत्ति, दव्वओणं एगा सिद्धित्ति, इह सिद्धिर्यद्यपि परमार्थतः सकलकर्मक्षयरूपा Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.003339
Book TitleAgam Sutra Satik 05 Bhagavati AngSutra 05
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherAgam Shrut Prakashan
Publication Year2000
Total Pages1096
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari, Agam, Canon, Agam 05, & agam_bhagwati
File Size23 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy