SearchBrowseAboutContactDonate
Page Preview
Page 113
Loading...
Download File
Download File
Page Text
________________ भगवती अङ्गसूत्रं १/-/९/९८ अबोधि-जिनधर्मानवाप्तिः, इह तु प्रक्रमान्ममहावीरजिनधर्मानवाप्तिस्तया, अथवीत्पत्तिक्यादिबुद्धयभावेन, ‘अनभिगमेणं'ति विस्तरबोधाभावेन हेतुना 'अष्टानां' साक्षात्स्वयमनुपलब्धानाम् 'अश्रुतानाम्' अन्यतोऽनाकर्णितानाम् 'अस्सुयागं' ति 'अस्मृतानां दर्शनाकर्णनाभावेनाननुध्याता नाम् अत एव ‘अविज्ञातानां’' विशिष्टबोधाविषयीकृतानाम्, एतदेव कुत इत्याह- 'अव्वोकडाणं ति अव्याकृतानां विशेषतो गुरुभिरनाख्यातानाम्, 'अव्वोच्छिण्णाणं 'ति विपक्षादव्यवच्छेदितानाम्, 'अनिशूढाणं 'ति महतो ग्रन्थात्सुखावबोधाय सङ्क्षेपनिमित्तमनुग्रहपरगुरुभिरनुद्धृतानाम्, अत एवास्माभिः 'अनुपधारितानाम्' अनवधारितानाम् 'एयमट्टे' ति एवंप्रकारोऽर्थ अथवाऽयमर्थः 'नो सद्दहिए' त्ति न श्रद्धितः 'नो पत्तिए'त्ति 'नो' नैव 'पत्तियं'ति प्रीतिरुच्यते तद्योगात् 'पत्तिए' त्ति प्रीतः प्रीतिविषयीकृतः, अथवा न प्रतीतः न प्रत्ययितो वा हेतुभिः, 'नो रोइए 'त्ति न चिकीर्षितः 'एवमेयं से जहेयं तुब्भे वयह' त्ति अथ यथैतद्वस्तु यूयं वदथ एवमेतद्वस्त्विति भावः । ११० 'चाउज्जामाउ' त्ति चतुर्महाव्रतात्, पार्श्वनाथजिनस्य हि चत्वारि महाव्रतानि, नापरिगृहीता स्त्रीभुज्यते इति मैथुनस्य परिग्रहेऽन्तर्भावादिति, 'सप्पडिक्कमणं' ति पार्श्वनाथधर्मो हि अप्रतिक्रमणः, कारण एव प्रतिक्रमणकरणादन्यथा त्वकरणात्, महावीरजिनस्य तु सप्रतिक्रमणः, कारणं विनाऽप्यवश्यं प्रतिक्रमणकरणादिति, 'देवाणुप्पिय'त्ति प्रियामन्त्रणं 'मा पडिबंधं 'ति मा व्याघातं कुरुष्वेति गम्यम् । 'मुंडभावे 'ति मुण्डभावो -दीक्षितत्वं 'फलगसेज्ज' त्ति प्रतलातविष्कम्भवत्काष्टरूपा 'कट्टसेज' त्ति असंस्कृतकाष्ठशयनं कष्टशय्या वाऽमनोज्ञा वसति 'लद्धाल्लध्धी 'त्ति लब्धं चलाभोऽपलब्धिश्च - अलाभोऽपरिपूर्णलाभो वा लब्धापलब्धिः 'उच्चावय'त्ति उच्चावचाः अनुकूलप्रतिकूला असमञ्जसा वा 'गामकंटय'त्ति ग्रामस्य- इन्द्रियसमूहस्य कण्टका इव कण्टका- बाधकाः शत्रवो ग्रामकण्टकाः, क एते इत्याह- 'बावीसं परीसहवसग्ग' त्ति परीषहाः क्षुदादयस्त एवोपसर्गाउपसर्जनात् धर्मभ्रंशनात् परीषहोपसर्गा, अथवा द्वाविंशतिपरीषहाः, तथा उपसर्गा-दिव्यादयः कालस्यवैशिकपुत्रः प्रत्याख्यानक्रियया सिद्ध इति तद्विपर्ययभूताप्रत्याख्यानक्रियानिरूपणसूत्रम् मू. (९९) भंतेत्ति भगवं गोयमे समणं भगवं महावीरं वंदति नम॑सति २ एवं वदासी-से नूनं भंते! सेडियस्स य तणुयस्स य किवणस्स य खत्तियस्स य समा चेव अपचक्खाणकिरिया कजइ ?, हंता गोयमा ! सेट्ठियस्स य जाव अपचक्खाणकिरिया कजइ । सेकेणणं भंते! ?, गोयमा ! अविरतिं पडुच्च से तेण० गोयमा ! एवं बुधइ-सेट्ठियस्स य तणु० जाव कज्जइ ॥ वृ. तत्र 'भंते 'त्ति हे भदन्त ! 'इति' एवमामन्त्रयेति शेषः, अथवा भदन्त ! इतिकृत्वा, गुरुरितिकृत्वेत्यर्थः, 'सेट्ठियस्स' त्ति श्रीदेवताऽध्यासितसौवर्णपट्टविभूषितशिरोवेष्टनोपेतपौरजननायकस्य 'तणुयस्स' त्ति दरिद्रस्य 'किवणस्स' त्ति रङ्कस्य । खत्तियस्स त्ति राज्ञः 'अपञ्चक्खाणकिरिय'त्ति प्रत्याख्यानक्रियाया अभावोऽप्रत्याख्यानजन्यो वा कर्मबन्धः, 'अविरई 'त्ति इच्छया अनिवृत्ति, सा हि सर्वेषां समैवेति । अप्रत्याख्यानक्रियायाः- प्रस्तावादिदमाह मू. (१००) आहाकम्मं भुंजमाणे समणे निग्गंथे किं बंधइ किं पकरेइ किं चिणाइ किं For Private & Personal Use Only www.jainelibrary.org Jain Education International
SR No.003339
Book TitleAgam Sutra Satik 05 Bhagavati AngSutra 05
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherAgam Shrut Prakashan
Publication Year2000
Total Pages1096
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari, Agam, Canon, Agam 05, & agam_bhagwati
File Size23 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy