________________
शतकं -१, वर्गः, उद्देशक:- ९
१०७
च, नवरं काङ्क्षा दर्शनान्तरग्रहो गृद्धिर्वा सैव प्रकृष्टो दोषः काङ्क्षाप्रदोषः काङ्क्षाप्रद्वेषं वा, रागद्वेषावित्यर्थः । काङ्क्षाप्रदोषः प्रागुक्तः, प्रदोषत्वं च काङ्क्षायास्तद्विषयभूतदर्शनान्तरस्य विपर्यस्तत्वादिति दर्शनान्तरस्य विपर्यस्ततां दर्शयन्नाह-
मू. (९७) अन्नउत्थिया णं भंते! एवमाइक्खंति एवं भासेति एवं पन्नवेति एवं परूवेतिएवं खलु एगे जीवे एगेणं समएणं दो आउयाई पकरेति, तंजहा- इहभवियाउयं च परभवियाउयं च, जं समयं इहभवियाउयं पकरेति तं समयं परभवियाउयं पकरेति जं समयं परभवियाजयं पकरेति तं समयं इहभवियाउयं पकरेति, इहभवियाउयस्स पकरणयाए परभवियाउयं पकरेइ, परभवियाउयस्स पकरणयाए इहभवियाउयं पकरेति, एवं खलु एगे जीवे एगेणं समएणं दो आउयाइं पकरेति, तं० - इहभवियाउयं च परभवियाउयं च ।
सेकहमेवं भंते ? एवं खलु गोयमा ! जण्णं ते अन्नउत्थिया एवमातिक्कंति जाव परभवियाउयं च, जे ते एहमाहंसु मिच्छं ते एवमाहंसु, अहं पुण गोयमा ! एवमाइक्खामि जाव परुवेमि-एवं खलु एगे जीवे एगेणं समएणं एवं आउयं पकरेति, तं० - इह भवियाउयं वा परभवयाउयं वा, जं समयं इहभवियाउयं पकरेति नो तं समयं परभवियाउयं पकरेति, जं समयं परभवियाउयं पकरेइ नो तं समयं इहभवियाउयं पकरेइ, इहभवियाउयस्स पकरणताए नो परभवियाउयं पकरेति, परभवियाउयस्स पकरणताए नो इहभवियाउयं पकरेति ।
एवं खलु एगे जीवे एगेणं समएणं एगं आउयं पकरेति, तं० - इहभवियाज्यं वा परभवियाउयं वा । सेवं भंते! सेवं भंते! त्ति भगवं गोयमे जाव विहरति ।
वृ. 'अन्नुत्थिए' इत्यादि, अन्ययूथं-विवक्षितसङ्घादपरः सङ्घस्तदस्ति येषां तेऽन्ययूथिकाः, तीर्थान्तरीया इत्यर्थः, 'एवम्' इति वक्ष्यमाणम् 'आइक्खति' त्ति आख्यान्ति सामान्यतः 'भासंतित्ति विशेषतः 'पन्नवेति'त्ति उपपत्तिभिः 'परूवेति' ति भेदकथनतः, द्वयोर्जीवयोरेकस्य वा समयभेदेनायुर्द्वयकरणे नास्ति विरोध इत्युक्तम्
'एगे जीवे' इत्यादि 'दो आउयाइं पकरेइ' त्ति जीवो हि स्वपर्यायसमूहात्मकः, स च यदैकमायुः पर्यायं करोति तदाऽन्यमपि करोति, स्वपर्यायत्वात्, ज्ञानसम्यक्त्वपर्यायवत्, स्वपर्यायकर्त्तृ त्वं च जीवस्याभ्युपगन्तव्यमेव, अन्यथा सिद्धत्वादिपर्यायाणामनुत्पादप्रसङ्ग इति भावः, उक्तार्थस्यैव भावनार्थमाह
'जमि' त्यादि, विभक्तिविपरिणामाद् यस्मिन् समये इहभवो वर्तमानभवो यत्रायुषि विद्यते फलतयैतदिहभवायुः, एवं परभवायुरपि, अनेन चेहभवायुःकरणसमये परभवायुःकरणं नियमितम्, अथ परभवायुःकरणसमये इहभवायुःकरणं नियमयन्नाह - 'जं समय परभवियाउय' मित्यादि, एवमेकसमयकार्यतां द्वयोरप्यभिधायैकक्रियाकार्यतामाह
'इह भवियाउयरसे' त्यादि, 'पकरणयाए 'त्ति करणेन 'एवं खलु' इत्यादि निगमनं । 'जण्णं ते अन्नउत्थिया एमाइक्खंती' त्याद्यनुवादवाक्यास्यान्ते तत् प्रतीतं न केवलमित्ययं वाक्यशेषो द्दश्यः, 'जे ते एवमाहंसु मिच्छं ते एवमाहंसु 'त्ति तत्र 'आहंसु 'त्ति उक्तवन्तः, यच्चायं वर्त्तमाननिर्देशेऽधिकृतेऽतीत निर्देशः स सर्वो वर्त्तमानः कालोऽतीतो भवतीत्यस्यार्थस्य ज्ञापनार्थः, मिध्यात्वं चास्यैवम्-एकेनाध्यवसायेन विरुद्धयोरायुषोर्बन्धायोगात् यच्चोच्यते-पर्यायान्तरकरणे पर्यायान्तरं
For Private & Personal Use Only
www.jainelibrary.org
Jain Education International