________________
४५६
भगवतीअङ्गसूत्रं (२) २६/-19/९८० 'कण्हलेसेवि चत्तारि भंग'त्ति नारकदण्डके कृष्णलेश्यनारकस्य किल प्रथमतृतीयावुक्ती, असुरकुमारस्य तुकृष्णलेश्यस्यापि चत्वार एव, तस्य हि मनुष्यगत्यवाप्तौ सिद्धिसम्भवेन द्वितीयचतुर्थयोरपि भावादिति।
पृथिवीकायिकदण्डके 'कण्हपक्खिएपढमतइया भंग'त्ति, इह युक्तिपूर्वोक्तैवनुसरणीया
तेजोलेश्यापदे तृतीयो भङ्गः, कथं ?, कश्चिद्देवस्तेजोलेश्यः पृथिवीकायिकेषूत्पन्नः स चापर्याप्तकावस्थायां तेजोलेश्यो भवति, तेजोलेश्याद्धायांचापगतायामायुर्वघ्नातितस्तेजोलेश्यः पृथिवीकायिक आयुर्बद्धवान्, देवत्वे न बघ्नाति तेजोलेश्यावस्थायां भन्स्यति च तस्यामपगतायामित्येवं तृतीयः, एवं आउवाइयवणस्सइकाइयाणवि त्ति उक्तन्यायेन कृष्णपाक्षिकेषु प्रथमतृतीयौ भङ्गौ, तेजोलेश्यायां च तृतीयभङ्गसम्भवस्तेष्वित्यर्थः, अन्यत्र तु चत्वारः, 'तेऊकाइए'इत्यादि, तेजस्कायिकवायुकायिकानांसर्वत्र एकादशस्वपिस्थानकेष्वित्यर्थप्रथमतृतीयमङ्गी भवस्तत उवृत्तानामनन्तरं मनुष्येष्वनुत्पत्त्या सिद्धिगमनाभावेन द्वितीयचतुर्थासम्भवाद्, मनुष्येषु अनुत्पत्तिश्चैतेषां। ॥१॥ __ “सत्तममहिनेरइया तेउवाऊ अनंतरुव्वट्टा ।
न य पावे माणुस्सं तहेवऽसंखाउआ सव्वे ।।"
.. -इति वचनादिति - 'बेइंदिए'इत्यादि, विकलेन्द्रियाणां सर्वत्र प्रथमतृतीयभनौ, यतस्तत उद्वृत्तानामानन्तर्येण सत्यपि मानुषले निर्वाणाभावस्तस्मादश्यं पुनस्तेषामायुषो बन्ध इति, यदुक्तं विकलेन्द्रियाणां सर्वत्रप्रथमतृतीयभङ्गाविति तदपवादमाह-'नवरंसम्मत्ते'इत्यादि, सम्यक्त्वेज्ञाने आभिनिबोधिके श्रुतेचविकलेन्द्रियाणां तृतीयएव, यतः सम्यक्त्वादीनितेषांसासादनभावेनापर्याप्तकावस्थायामेव, तेषु चापगतेष्वायुषो बन्ध इत्यतः पूर्वभवे बद्धवन्तः सम्यक्त्वाद्यस्थायां च न बघ्नन्ति तदनन्तरं च मन्त्स्यंतीति तृतीय इति।
___ 'पंचिंदियतिरिक्खे' त्यादि, पञ्चेन्द्रयितिरश्चां कृष्णपाक्षिकपदे प्रथमतृतीयौ, कृष्णपाक्षिको ह्यायुर्बद्धाऽबद्धा वा तदबन्धकोऽनन्तरमेव भवति तस्य सिद्धिगमानायोग्यत्वादिति ।
"सम्मामिच्छत्तेतईयचउत्थ'त्तिसम्यग्मिथ्याटेरायुषोबन्धाभावात्तीयचतुर्थावेव, भावितं चैतत्यागेवेति । 'सम्मत्ते'इत्यादि, पञ्चेन्द्रियतिरश्चांसम्यक्त्वादिषुपञ्चसु द्वितीयवर्जा भङ्गा भवन्ति, कथं ?, यदा सम्यग्दृष्टयादि पञ्चेन्द्रियतिर्यगायुर्भवति तदा देवेष्वेव सच पुनरपि भन्स्यतीति न द्वितीयसम्भवः, प्रथमतृतीयौतुप्रतीतावेव, चतुर्थपुनरेवं-यथा मनुष्येषुबद्धायुरसौ सम्यक्त्वादि प्रतिपद्यते अनन्तरं च प्राप्तस्य चरमभवस्तदैवेति।
"मणुस्साणंजहाजीवाणं ति, इह विशेषमाह-'नवर'मित्यादि, सम्यक्त्वसामान्यज्ञानादिषु पञ्चसु पदेषु मनुष्या द्वितीयविहीनाः, भावना चेह पञ्चेन्द्रियतिर्यसूत्रवदवसेयेति ॥
शतक-२६ उद्देशकः-१ समाप्तः
-शतकं-२६ उद्देशकः-२:वृ. प्रथमोद्देशके जीवादिद्वारे एकादशकप्रतिबद्धैर्नवभिः पापकर्मादिप्रकरणैर्जीवादीनि पञ्चविंशतिजीवस्थानानि निरूपितानि द्वितीयेऽपि तथैव तानि चतुर्विंशतिनिरूप्यन्त
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org