________________
४५२
भगवती अङ्गसूत्रं (२) २६/-/१/९७७ 'अवेदगाणं चत्तारि 'त्ति स्वकीये वेदे उपशान्ते बध्नाति भन्स्तयति च मोहलक्षणं पापं कर्म्म यावत्सूक्ष्मसम्परायो न भवति प्रतिपतितो वा भन्स्यतीत्यवं प्रथमः, तथा वेदे क्षीणे बघ्नाति सूक्ष्मसंपरायाद्यवस्थायां च न भन्स्तयतीत्येवं द्वितीयः, तथोपशान्तवेदः सूक्ष्मसम्परायादौ न बध्नाति प्रतिपतितस्तु बन्स्यतीति तृतीयः, तथा क्षीणे वेदे सूक्ष्मसम्परायादिषु न बध्नाति न चोत्तरकालं भन्त्सयतीत्येवं चतुर्थः, बद्धवानिति च सर्वत्र प्रतीतमेवेतिकृत्वा न प्रदर्शितमिति ।
कषायद्वारे - 'सकसाईणं चत्तारि' त्ति तत्राद्योऽ भव्यस्य द्वितीयो भव्यस्य प्राप्तव्यमोहक्षयस्य तृतीय उपशमकसूक्ष्मसम्परायस्य चतुर्थ क्षपकसूक्ष्मसम्परायस्य, एवं लोभकषायिणामपि वाच्यं 'कोहकसाईणं पढमबीय'त्ति इहाभव्यस्य प्रथमो द्वितीयो भव्यविशेषस्य तृतीयचतुर्थी त्विह नस्तो वर्त्तमानेऽबन्धकत्वस्याभावात् 'अकसाईण' मित्यादि, तत्र 'बंधी न बंधइ बंधिस्सइ' ति उपशमकमाश्रित्य 'बंधी न बंधइ न बंधिस्सइ' त्ति क्षपकमाश्रित्येति ।
योगद्वारे - 'सजोगिस्स चउभंगो' त्ति अभव्य भव्यविशेषोपशमकक्षपकाणां क्रमेण चत्वारोऽप्यवसेयाः, 'अजोगिस्स चरमो' त्ति बध्यमानभन्त्स्यमानत्वयोस्तस्याभावादिति ।। मू. (९७८) नेरइए णं भंते! पावं कम्पं किं बंधी बंधइ बंधिस्सइ ?, गोयमा ! अत्थेगतिए बंधी. पढमबितिया 9 /
सलेस्से णं भंते! नेरतिए पावं कम्मं चेव, एवं कण्हलेस्सेवि नीललेस्सेवि काउलेसेवि, एवं कण्हपक्खि सुक्कपक्खिए, सम्मदिट्ठी मिच्छादिट्ठी सम्मामिच्छादिट्ठी, नाणी आभिनिवोहियनाणी सुयनाणी ओहिनाणी अत्राणी मइअन्नाणी सुयअन्नाणी विभंगनाणी आहारसन्नोवउत्ते जाव परिग्गहसन्नोवउत्ते ।
सवेदए नपुंसक वेदए, सकसायी जाव लोभकसया, सजोगी मणजोगी वयजोगी कायजोगी, आगारोवउत्ते अनागारोवउत्ते, एएस सव्वेसु पदेसु पढमबितिया भंगा भाणियव्वा ।
एवं असुरकुमारस्सवि वत्तव्वया भाणियव्या नवरं तेउलेस्सा इत्थिवेयगपुरिसवेयगा य अब्भहिया नपुंसगवेदगा न भन्नंति सेसंतं चैव सव्वत्थ पढमबितिया भंगा, एवं जाव थणियकुमारस्स एवं पुढविकाइयस्सवि आउकाइयस्सवि जाव पंचिंदियतिरिक्खजोणियस्सवि सव्वत्थवि पढमबितिया भंगा नवरं जस्स जा लेस्सा, दिट्ठी नाणं अन्नाणं वेदो जोगो य जं जस्स अत्थि तं तस्स भाणियव्वं सेसं तहेव । मणूसस्स जच्चैव जीवपदे वत्तव्वया सच्चैव निरवसेसा भाणियव्वा, वानंतरस्स जहा असुरकुमारस्स, जोइसियस्स वेमाणियस्स एवं चैव नवरं लेस्साओ जाणियव्वाओ, सेसं तहेव भाणियव्वं ।
वृ. 'नेरइएण 'मित्यादि, 'पढमबीय'त्ति नारकत्वादी श्रेणीद्वयाभावात् प्रथमद्वितीयावेव, एवं सलेश्यादि - विशेषितं नारकपदं वाच्यं एवमसुरकुमारादिपदमपि ।
'माणूस' त्यादि, या जीवस्य निर्विशेषणस्य सलेश्यादिपदविशेषितस्य च चतुर्भङ्गयादिवक्तव्यतोक्ता सा मनुष्यस्य तथैव निरवशेषा वाच्या, जीवमनुष्ययोः समानधर्म्मत्वादिति । तदेवं सर्वेऽपि पञ्चविंशतिर्दण्डकाः पापकर्म्माश्रित्योक्ताः, एवं ज्ञानावरणीयमप्याश्रित्य पञ्चविंशतिर्दण्डका वाच्याः, एतदेवाह -
मू. (९७९) जीवे णं भंते! नाणा० कम्मं किं बंधी बंधइ बंधिस्सइ एवं जहेव पावकम्पस्स
For Private & Personal Use Only
www.jainelibrary.org
Jain Education International