________________
शतकं - २५, वर्ग:, उद्देशकः-७
विनयोऽनत्याशातनाविनयः ।
‘किरियाए अणच्चासायणाए' त्ति इहक्रिया-अस्ति परलोकोऽस्त्याऽस्ति च सकलक्लेशाकलङ्कितं मुक्तिपदमित्यादिप्ररूपणात्मिका गृह्यते 'संभोगस्स अनच्चासायणाए 'तिसम्भोगस्य-समानधार्मिकाणांपरस्परेण भक्तादिदानग्रहणरूपस्यानत्याशातना - विपर्यासवत्करणपरिवर्जनं 'भत्तिबहुमाणेणं' ति इह णंकारो वाक्यालङ्कारे भक्त्या सह बहुमानो भक्तिबहुमानः भक्तिश्च इह बाह्या परिजुष्टि बहुमानश्च - आनन्तरः प्रीतियोगः 'वन्नसंजलणय'त्ति सद्भूतगुणवर्णनेन यशोदीपनं 'पसत्यमणविनए' त्ति प्रशस्तमन एव प्रवर्तनद्वारेण विनयः - कम्र्म्मापनयनोपायः प्रशस्तमनोविनयः, अप्रशस्तमन एव निवर्त्तनद्वारेण विनयोऽप्रशस्तमनोविनय 'अपावए'त्ति सामान्येन पापवर्जितं शेषतः पुनरसावां - क्रोथाद्यवद्यवर्जितं ।
४४५
'अकिरिए 'त्ति कायिक्यादिक्रयाऽभिष्वङ्गवर्जितं 'निरुवक्केसं' ति स्वगतशोकाद्युपक्लेशवियुक्तं 'अणण्यकरे' त्ति अन आश्रवकरं प्राणातिपाताद्याशर्वणकरणरहितमित्यर्थः ' अच्छविकरे' त्ति क्षपिः- स्वपरयोरायासो यत तत्करणशीलं न भवति तदक्षपिकरं 'अभूयाभिसंक "त्ति यतो भूतान्यभिशङ्कन्ते - बिभ्यति तस्माद्यदन्यत्तदभूताभिराङ्कनं, प्रशस्तवाग्विनयसूत्रे 'अपावए 'त्ति अपापवाकप्रवर्त्तनरूपो वाग्विनयोऽपापक इति, एवमन्येऽपि ।
'आउत्तं'ति आगुप्तस्य - संयतस्य सम्बन्धि यत्तदागुप्तमेव 'उल्लंघणं' ति ऊर्ध्वं लङ्घनं द्वारार्गलावरण्डकादेः 'पल्लंघणं ति प्रलङ्घनं प्रकृष्टं लङ्घनं विस्तीर्णभूखातादेः 'सव्वेंदियजोगजुंजण' त्ति सर्वेषामिन्द्रिय व्यापाराणां प्रयोग इत्यर्थः 'अब्भासवत्तियं' ति अभ्यासो - गौरव्यस्य समीपं तत्र वर्त्तितुं शीलमस्येत्यभ्यासवर्त्ती तदभावोऽभ्यासवर्त्तित्वं, अभ्यासे वा प्रीतिकं प्रेम । 'परछंदाणुवत्तियं' ति पर आराध्यस्य छन्दः - अभिप्रायस्तमनुवर्त्तयतीत्येवंशीलः परच्छन्दानुवर्त्ती तद्भावः परच्छन्दानुवर्त्तित्वं 'कज्जहेउं 'ति कार्यहेतो-ज्ञानादिनिमित्तं भक्तादिदानमिति गम्यं कयपडिकइय'त्ति कृतप्रतिकृ (ति) ता नाम विनयाठासादिता गुरवः श्रुतं दास्यन्तीत्यभिप्रायेणाशनादिदानप्रयत्नः 'अत्तगवेसणय'त्ति आर्त्त - ग्लानीभूतं गवेषयति भैषज्यादिना योऽसावार्त्तगवेषणस्तद्भाव आर्त्तगवेषणता 'देसकालण्णय'त्ति प्रस्तावज्ञता - अवसरो चितार्थसम्पादनमित्यर्थः 'सव्वत्थेसु अपडिलोमय'त्ति सर्वप्रयोजनेष्वाराध्यसम्बन्धिष्वानुकूल्यमिति मू. (९६६) से किं तं वेयावच्चे?, वे०२ दसविहे पं० तं०-आयरियवेयावच्चे उवज्झायवेयाबच्चे थेरवेयावच्चे तवस्सीवेया० गिलाणवेया० सेहवेया० कुलवेया० गणवेया० संघवेया० साहम्मियवेयावच्चे, सेत्तं वेयावच्चे।
मू. (९६७) से किं तं सज्झाए ?, सज्झाए पंचविहे पन्नत्ते, तं०-वायणा पडिपुच्छणा परियहणा अनुप्पेहा धम्मकहा, सेत्तं सज्झाए।
वृ. वैयावृत्यस्वाध्यायभेदाः प्रतीता एव, नवरं 'थेरवेयावच्चे' त्ति इह स्थविरो जन्मादिभिः 'तवस्सिवेयावच्चे' त्ति तपस्वी चाष्टमादिक्षपकः ।
मू. (९६८) से किं तं झाणे ?, झाणे चउव्विहे पन्नत्ते, तंजहा - अट्टे झाणे रोद्दे झाणे धम्मे झाणे सुक्क झाणे । अट्टे झाणे चउव्विहे पन्नत्ते, तंजहा - अमणुत्रसंपयोगसंपउत्ते तस्स विप्पयोगसतिमन्त्रागए यावि भवइ १ मणुन्नसंपओगसंपत्ते तस्स अविप्पयोगसतिसमन्नागए यावि
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org