________________
४४४
भगवतीअङ्गसूत्रं (२) २५/-/७/९६५ प्रतिपद्यते, चियत्तोवगरणसाइजणय'त्ति चियत्तस्सत्तिलक्षणोपेततया संयतस्यैव साइजणय'त्ति स्वदनता परिभोजनमिति, चूां तूक्तं-'जंवत्थाइ धारेइतमिविममत्तं नत्थि, जइ कोइमग्गइ तस्स देइ'त्ति ।
_ 'अप्पकोहे'त्ति अल्पक्रोधः पुरुषोऽवमोदरिको भवत्यभेदोपचारादिति ‘अप्पसद्दे'त्ति अल्पशब्दो रात्र्यादावसंयतजागरणभयात् 'अप्पझंझेत्तिइह झञ्झा विप्रकीकोपविशेषाद्वचनपद्धत्तिः, चूर्ध्या तूक्तं - 'झंझा अनत्थयबहुप्पलावितं' 'अप्पतुभंतुमे'त्ति तुमन्तुमो-हृदयस्थः कोपविशेष एव
दव्वाभिग्गचरए'त्ति भिक्षाचर्यायास्तद्वतचाभेदविवक्षणाद्रव्याभिग्रहचरको भिक्षाचयेत्युच्यते, द्रव्याभिग्रहाश्च लेपकृतादिद्रव्यविषयाः 'जहा उववाइए'ति, अनेनेदं सूचितं खेत्ताभिग्गहचरए कालाभिग्गहचरएभावाभिग्गहचरए' इत्यादि, 'सुद्धेसणिएत्ति शुद्धैषणाशङ्कितादिदोषपरिहारतः पिण्डग्रहस्तद्वांश्च शुद्धैषणिकः 'संखादत्तिए'त्ति सङ्ख्याप्रधानाः पञ्चषादयो दत्तयोभिक्षाविशेषायस्य स तथा, 'जहा उववाइए'त्तिअनेनेदं सूचितम्-'आयंबिलिए आयामसित्थभोई अरसाहारे'इत्यादि।
'ठाणाइए'त्ति स्थानं-कायोत्सर्गादिकमतिशयेन ददाति गच्छतीति वा स्थानातिदः स्थानातिगोवा, 'जहा उववाइए'त्ति, अनेनेदं सूचितं-'पडिमट्ठाई वीरासणिए नेसज्जिए' इत्यादि, इह च प्रतिमाः-मासिक्यादयः, वीरासनं च-सिंहासननिविष्टस्यभून्यस्तपादस्य सिंहासनेऽपनीते याशमवस्थान, निषद्या च-पुताभ्यां भूमावुपवेशनं, “सोइंदियविसयप्पयारनिरोहोव'त्ति श्रोत्रेन्द्रियस्ययो विषयेषु–इष्टानिष्टशब्देषुप्रचार:-श्रवणलक्षणा प्रवृत्तिस्तस्ययो निरोधो-निषेधः सतथा शब्दानां श्रवणवर्जनमित्यर्थः 'सोइंदियविसए'इत्यादि श्रोत्रेन्द्रियविषयेषु प्राप्तेषुच 'अर्थेषु' इष्टानिष्टशब्देषु रागद्वेषविनिग्रहो-रागद्वेषनिरोधः।।
___'मणस्स वाएगत्तीभावकरण मनसो वा एगत्त'त्ति विशिष्टकाग्रत्वेनैकता तद्रूपस्य भावस्य करणमेकताभावकरणं, आत्मना वासहयैकता-निरालम्बनत्वंतद्रूपोभावस्तस्य करणं यत्तत्तथा 'वईए वाएगत्तीभावकरणं'ति वाचो वा विशिष्टैकाग्रत्वनैकतारूपभावकरणमिति 'सुसमाहियपसंतसाहरियपाणिपाए ति सुष्ठुसमाहितः-समाधिप्राप्तो बहिर्वृत्या स चासौ प्रशान्तश्चान्तकृत्या यः सतथा संहृतं-अविक्षिप्ततयाधृतंपाणिपादयेनसतथाततः कर्मधारयः 'कुम्मोइव गुत्तिदिए'त्ति गुप्तेन्द्रियो गुप्त इत्यर्थः, क इव ? कूर्म इव, कस्यामवस्थायामित्यत एवाह-'अल्लीणे पल्लीणे'त्ति आलीनः-ईषल्लीनः पूर्वं प्रलीनः पश्चात्प्रकर्षेणलीनस्ततः कर्मधारः, सोमिलुद्देसए'त्तिअष्टादशशतस्य दशमोद्देशके, एतेन च यत्सूचितं तत्तत एवावधार्यम् । 'पायच्छित्ते'त्ति इह प्रायश्चित्तशब्देनापराधशुद्धिरुच्यते, 'वेयावच्चंति वैयावृत्यं-भक्तपाना-दिभिरुपष्टम्भः।
___'नाणविनए'त्ति ज्ञानविनयो-मत्यादिज्ञानानां श्रद्धानभक्तिबहुमानतदष्टार्थभावनाविधिग्रहणाभ्यासरूपः 'दंसनविणए'त्ति दर्शनविनयः-सम्यग्दर्शनगुणाधिकेषु शुश्रूषादिरूपः 'चरित्त विनए'त्ति सामायिकादिचारित्राणांसम्यक्श्रद्धानकरणप्ररूपणानि 'लोगोवयारविनए'त्ति लोकानामुपचारो-व्यवहारः पूजा वातद्रूपोयो विनयः सतथा सुस्सूसणाविनए'त्ति शुश्रूषणा-सेवा सैव विनयः शुश्रूषणाविनयः 'अनन्चासायणाविनए'त्ति अत्याशातना-आशातना तन्निषेधरूपो arnational
For Private & Personal Use Only
Jain Education International
www.jainelibrary.org