SearchBrowseAboutContactDonate
Page Preview
Page 1006
Loading...
Download File
Download File
Page Text
________________ शतकं - २५, वर्ग:-, उद्देशकः - ७ ४३९ तु तत्समयग् नावगम्यते, यतो दुष्यमान्ते भरतादिषु दशसु क्षेत्रेषु प्रत्येकं तद्वयस्य भावाद्विंशतिरेव तेषां श्रूयते केचित्पुनराहुः - इदमप्यादितीर्थकराणां यस्तीर्थकालस्तदपेक्षयैव समवसेयं, कोटी शतपृथकत्वं च जघन्यमल्पतरमुत्कृष्टं च बहुतरमिति । अल्पबहुत्वद्वारे-'सव्वत्थोवा सुहुमसंपरायसंजय'त्ति स्तोकत्वात्तकालस्य निर्ग्रन्थतुल्यत्वेन च शतपृथक्त्व प्रमाणत्वात्तेषां 'परिहारविसुद्धियसंजया संखेज्जगुण' त्ति तत्कालस्य बहुत्वात्, पुलाकतुल्यत्वेन च सहस्रपृथक्त्वमानत्वात्तेषाम्, 'अहक्खायसंजया संखेज्जगुण' त्ति कोटीपृथक्त्वमानत्वात्तेषां 'छेदोवट्टावणियसंजया संखेज्जगुण' त्ति कोटीशतपृथक्त्वामानतया तेषामुक्तत्वात, 'सामाइयसंजया संखेज्जगुण'त्ति कषायकुशीलतुल्यतया कोटीसहस्रपृथक्त्वमानत्वेनोक्तत्वातेषामिति अनन्तरं संयता उक्तास्तेषां च केचित्प्रति सेवावन्तो भवन्तीति प्रतिसेवाभेदान् प्रतिसेवा च निर्दोषमालोचयितव्येति आलोचनादोषान् आलोचनासम्बन्धादालोचकगुणान् गुरुगुणांश्च दर्शयन्नाह - मू. (९५४) पडिसेवण दोसालोयणा य आलोयणारिहे चेव । तत्तो सामायारी पायच्छित्ते तवे चेव ॥ . मू. (९५५) कइविहाणं भंते! पडिसेवणा प० गो० ?, गोयमा ! दसविहा पडिसे० पं०, तं०मू. (९५६ ) दप्प १ प्पमाद २ ऽणाभोगे ३, आउरे ४ आवती ५ तिय । संकिने ६ सहसक्कारे, ७ भय ८ प्पओसा ९ य वीमंसा १० | वृ. 'दसविहे 'त्यादि, 'दप्पप्पमायणाभोगे'ति, इह सप्तमी प्रत्येकं दृश्या, तेन दर्षे सति प्रतिसेवा भवति दर्पश्चवल्गनादि, तथा प्रमादे सति, प्रमादश्च मद्यविकथादिः, तथाऽनाभोगे सति, अनाभोगश्चाज्ञानम्, ‘आतुरे' त्ति आतुरत्वे सति आतुरश्च बुभुक्षापिपासादिबाधितः, आवईय ति आपदि सत्यां, आपच्च द्रव्यादिभेदेन चतुर्विधा, तत्र द्रव्यापत् प्रासुकादिद्रव्यालाभः, क्षेत्रापत् कान्तारक्षेत्रपतितत्वं, कालापत् दुर्भिक्षकालप्राप्ति, भावापद् ग्लानत्वमिति । 'संकिण्णे 'त्तिसङ्कीर्णे स्वपक्षपरपक्षव्याकुले क्षेत्रे सति, 'संकिय' तिक्वचित्पाठस्तत्र च शङ्किते आधाकम्र्म्मादित्वेन शङ्कितभक्तादिविषये, निशीथपाठे तु 'तिंतिण' इत्यभिधीयते, तत्र च तिन्तिणत्वे सति, तच्चाहाराद्यलाभे सखेदं वचनं, 'सहसक्कारे' ति सहसाकारे सति - आकस्मिकक्रियायां तथा च ॥ १ ॥ "पुव्विं अपासिऊणं पाए छूढंमि जं पुणो पासे । न तरइ नियत्तेउं पायं सहसाकरणमेयं ॥ इति । भयप्पओसायत्ति भयात्-सिंहादिभयेन प्रतसेवा भवति, तथा प्रद्वेषाच्च, प्रद्वेषश्चक्रोधादिः, 'वीमंस' त्तिविमर्शात्- शिक्षकादिपरीक्षणादिति, एवं कारणभेदेन दश प्रतिसेवाभेदा भवन्ति । दस आलोयणादोसा पत्रत्ता, तंजहा पू. (९५७) मू. (९५८) आकंपइत्ता १ अणुमाणइत्ता २ जं दिट्ठ ३ बायरं च ४ सुहुमं वा ५ । छन्नं ६ सद्दाउलयं ७ बहुजण ८ अव्वत्त ९ तस्सेवी १० ॥ वृ. ‘आकंपइत्ता’गाहा, आकम्य-आवर्जितः सन्नाचार्य स्तोकं प्रायश्चित्तं मे दास्यती For Private & Personal Use Only www.jainelibrary.org Jain Education International
SR No.003339
Book TitleAgam Sutra Satik 05 Bhagavati AngSutra 05
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherAgam Shrut Prakashan
Publication Year2000
Total Pages1096
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari, Agam, Canon, Agam 05, & agam_bhagwati
File Size23 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy