________________
४४०
भगवतीअङ्गसूत्रं (२) २५/-/७/७५८ तिबुद्धयाऽऽलोचनाऽऽचार्य वैयावृत्यकणादिनाऽऽवयं यदालोचनमसावालोचनादोषः 'अणुमाणइत्त'त्तिअनुमान्य–अनुमानं कृत्वा लघुतरापराधनिवेदनेन मृदुदण्डादित्वमाचार्यस्याकालय्य यदालोचनमसौ तद्दौषः, एवं जंदि8'त्तियदाचार्यादिना दृष्टमपराधजातं तदेवालोचयति
'बायरंव'त्तिबादरमेवातिचारजातमालोचयतिनसूक्ष्मंतत्रावज्ञापरत्वात्, 'सुहुमंव'त्ति सूक्ष्ममेवातिचारजातमालोचयति,यः किल सूक्ष्म तदालोचयति स कथं बादरं तन्नालोचयतीत्येवंरूपभावसम्पादनायाऽऽचार्यस्येति, 'छन्नं ति छन्नं प्रतिच्छन्नं प्रच्छनं-अतिलज्जालुतयाऽव्यक्तवचनं यथा भवति, एवमालोचयति यथाऽऽत्मनैव शृणोति। ___सद्दाउलय'ति शब्दाकुलं-बृहच्छब्दं यथा भवत्येवमालोचयति, अगीतार्थान् श्रावयन्नित्यर्थः, 'बहुजण त्ति बहवो जना-आलोचनागुरवोयत्रालोचनेतद्बहुजनंयथा भवत्येवमालोचयति, एकस्याप्यपराधस्य बहुभ्योनिवेदनमित्यर्थः, 'अव्वत्तत्ति अव्यक्तः-अगीतार्थस्तस्मै आचार्याययदालोचनंतदप्यव्यक्तमित्युच्यते, 'तस्सेविति यमपराधमालोचयिष्यतितमेवासेवते योगुरु सतत्सेवीतस्मैयदालोचनं तदपि तस्वीति, यतःसमानशीलाय गुरवे सुखेनैव विवक्षितापराधो निवेदयितुं शक्यत इति तत्सेविने निवेदयतीति।
मू. (९५९) दसहिं ठाणेहिं संपन्ने अनगारे अरिहति अत्तदोसं आलोइत्तए, तंजहा-जातिसंपन्ने २ कुलसंपन्ने २ विनयसंपन्ने ३ नाणसंपन्ने ४ दंसणसंपन्ने ५ चरित्तसंपन्ने ६ खंते ७ दंते ८ अमायी ९ अपच्छाणुतावी १०।। - अहिं ठाणेहिं संपन्ने अणगारे अरिहति आलोयणं पडिच्छित्तए, तंजहा-आयारवं १ आहारवं २ ववहारवं ३ उव्वीलए ४ पकुव्वए ५ अपरिस्सावी ६ निजवए ७अवायदंसी ८॥
वृ. 'जाइसंपन्ने' इत्यादि, नन्वेतावान् गुणसमुदाय आलोचकस्य कस्मादन्विष्यते? इति, उच्यते, जातिसम्पन्नः प्रायोऽकृत्यं न करोत्येव कृतंचसम्यगालोचयतीति, कुलसम्पन्नोऽङ्गीकृतप्रायश्चित्तस्य वोढा भवति, विनयसम्पन्नो वन्दनादिकाया आलोचनासामाचार्याप्रयोक्ता भवतीति, ज्ञानसम्पन्नः कृत्याकृत्यविभागं जानाति, दर्शनसम्पन्नः प्रायश्चित्ताच्छुद्धिं श्रद्धत्ते, चारित्रसम्पन्नः प्रायश्चित्तमङ्गिकरोति,क्षान्तो-गुरुभिरुपालम्भितो न कुप्यति, दान्तो-दान्तेन्द्रियतयाशुद्धिं सम्यग् वहति, अमायी-अगोपयन्त्रपराधमालोचयति, अपश्चात्तापी आलोचितेऽपराधे पश्चात्तापमकुर्वनिर्जराभागी भवतीति। ___'आयारव'मित्यादि, तत्र आचारवान्' ज्ञानादिपञ्चप्रकाराचारयुक्तः 'आहारवं'ति आलोचितापराधानामवधारणावान् ‘ववहारवं'तिआगमश्रुतादिपञ्चप्रकारव्यवहाराणामन्यतमयुक्तः 'उब्बीलए'त्ति अपव्रीडकः लजजयाऽतीचारान् गोपायन्तं विचित्रवचनैर्विलजीकृत्य सम्यगालोचनांकारयतीत्यर्थः पकुव्वए'त्तिआलोचितेष्वपराधेषुप्रायश्चित्तदानतो विशुद्धिंकारयितुं समर्थः 'अपरिस्सावित्ति आलोचकेनालोचितान् दोषान् योऽन्यस्मै न कथयत्यसावपरिश्रावी 'निजवए'त्ति निर्यापकः' असमर्थस्य प्रायश्चित्तिनः प्रायश्चित्तस्य खण्डशः करणेन निर्वाहकः 'अवायदंसित्ति आलोचनाया अदाने पारलौकिकापायदर्शनशील इति । ___ अनन्तरमालोचनाचार्य उक्तः, सच सामाचार्या प्रवर्तको भवतीति तांप्रदर्शयन्नाहमू. (९६०) दसविहा सामायारि प० तं०
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org