SearchBrowseAboutContactDonate
Page Preview
Page 1005
Loading...
Download File
Download File
Page Text
________________ ४३८ भगवतीअङ्गसूत्रं (२) २५/-/७/९५३ _ 'उमेसेणं देसूणएहिति,अस्यायमर्थः-देशोननववर्षजन्मपर्यायेण केनापिपूर्वकोट्यायुषा प्रव्रज्या प्रतिपन्ना, तस्य च विंशतिवर्षप्रव्रज्यापर्यायस्य दृष्टिवादोऽनुज्ञातस्ततश्चासौ परिहारविशुद्धिकंप्रतिपन्नः, तम्राष्टादशमासमानमप्यविच्छिन्नतत्परिणामेन तेनाजन्म पालितमित्येवमेकोनत्रिंशद्वर्षोनांपूर्वकोटिंयावत्तत्स्यादिति, "अहक्खाए जहा सामाइयसंजए'ति तत्र जघन्यत एक समयं उपशमावस्थायां मरणात्, उत्कर्षतो देशोना पूर्वकोटी, स्नातकयथाख्यातापेक्षयेति । पृथक्त्वेन कालचिन्तायां छेओवट्ठावणिए' इत्यादि, तत्रोत्सपिण्यामादितीर्थकरस्य तीर्थ यावच्छेदोपस्यापनीयं भवतीति, तीर्थं च तस्य साढे द्वे वर्षशते भवतीत्यत उक-'अदाइलाई इत्यादि, तथाऽवसर्पिण्यामादितीर्थकरस्य तीर्थं यावच्छेदोपस्थापनीयंप्रवर्ततेतच्च पञ्चाशत्सागरोपमकोटीलक्षा इत्यतः 'उक्कोसेणं पन्नासमित्याधुक्तमिति। ___ परिहारविशुद्धिककालोजघन्येन देसूणाइंदोवाससयाइंति,कथम्?, उत्सर्पिण्यामाद्यस्य जिनस्य समीपे कश्चिद्वर्षशतायुः परिहारविशुद्धिकं प्रतिपन्नस्तस्यान्तिके तज्जीवितान्तेऽन्यो वर्षशतायुरेव ततः परतो न तस्य प्रतिपत्तिरस्तीत्येवं द्वे वर्षशते, तयोश्च प्रत्येकमेकोनत्रिंशति वर्षेषु गतेषु तातिपत्तिरित्येवमष्टपञ्चाशता वर्षेन्यूँनेते इति देशोने इत्युक्तुं। एतच्च टीकाकारव्याख्यानं, चूर्णिकारव्याख्यानमप्येवमेव, किन्त्वसर्पिण्यन्तिमजिनापेक्षमिति विशेषः, 'उक्कोसेणं देसूणाओ दो पुब्दकोडीओ'त्ति, कथम् ?, अवसर्पिण्यामादितीर्थकरस्यान्तिके पूर्वकोट्यायुः कश्चित्परिहारविशुद्धिकं प्रतिपन्नस्तस्यान्तिके तज्जीवितान्तेऽन्यस्ताईश एव तत्प्रतिपन्न इत्येवं पूर्वकोटीद्वयं तथैव देशोनं परिहारविशुद्धिकसंयतत्वं स्यादिति । अनन्तरद्वारे-'छेओवट्ठावणिए'त्यादी 'जहन्नेणं तेवढेि वाससहस्साइंति, कथम् ?, अवसर्पिण्या दुष्पमा यावच्छेदोपस्थापनीयं प्रवर्तते ततस्तस्या एवैकविंशतिवर्षसहस्रमानायामेकान्तदुष्षमायामुत्सपिण्याश्चैकान्तदुष्षमायांच तत्प्रमाणायामेव तदभावः' त्एवं चैकविंशतिवर्षसहस्रमानत्रयेण त्रिषष्टिवर्षसहस्राणामन्तरमिति, 'उक्कोसेणं अट्ठारस सागरोवमकोडाकोडीओ'त्ति किलोत्सर्पिण्यां चतुर्विंशतितमजिनतीर्थे छेदोपस्थापनीयं प्रवर्तते ततश्च । सुषमदुष्षमादिसमात्रयेक्रमेण द्वित्रिचतुःसागरोपमकोटीकोटीप्रमाणेअतीतेअवसर्पिण्याश्चैकान्तसुषमादित्रयेक्रमेण चतुस्त्रिद्विसागरोपमकोटीरप्रमाणे अतीतप्रायेप्रथमजिनतीर्थे छेदोपस्थापनीयं प्रवर्तत इत्येवं यथोक्तंछेदोपस्थापनीयस्यान्तरं भवति, यच्चेह किञ्चिन्नपूर्यतेयच्चपूर्वसूत्रेऽतिरिच्यते तदल्पत्वान्न विवक्षितमिति, 'परिहारविसुद्धिस्से'त्यादि । परिहारविशुद्धिकसंयतस्यान्तरंजघन्यं चतुरशीतिवर्षसहस्राणि, कथम्?,अवसर्पिण्या दुष्षमैकान्तदुष्षमयोरुत्सपिण्याश्चैकान्तदुष्षमादुष्षमयोः प्रत्येकमेकविंशतिवर्षसहनप्रमाणत्वेन चतुरशीतिवर्षसहस्राणां भवति तत्र च परिहारविशुद्धिकं न भवतीतिकृत्वा जघन्यमन्तरं तस्य यथोक्तं स्यात्, यश्चेहान्तिमजिनानन्तरो दुष्षमायां परिहारविशुद्धिककालो यश्चोत्सर्पिण्यास्तृतीयसमायांपरिहारविशुद्धिकप्रतिपत्तिकालापूर्वकालो नासौ विवक्षितोऽल्पत्वादिति, उक्कोसेणं अट्ठारस सागरोवमकोडाकोडीओत्ति छेदोपस्थापनीयोत्कृष्टान्तरवदस्य भावना कार्येति । परिणामद्वारे 'छेदोवठ्ठावणिये' इत्यादौ 'जहन्नेणं कोडिसयपुहुत्तं उक्कोसेणवि कोडिसयपुहत्तं त्ति, इहोत्कृष्टं छेदोपस्थापनीयसंयतपरिमाणमादितीर्थकरतीर्थान्याश्रित्य संभवति, जघन्यं Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.003339
Book TitleAgam Sutra Satik 05 Bhagavati AngSutra 05
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherAgam Shrut Prakashan
Publication Year2000
Total Pages1096
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari, Agam, Canon, Agam 05, & agam_bhagwati
File Size23 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy