SearchBrowseAboutContactDonate
Page Preview
Page 87
Loading...
Download File
Download File
Page Text
________________ ८४ समवायाङ्गसूत्रम्-४५/१२१ वृत्तं विमानकेन्द्रकमुडुविमानमिति । ‘ईसिपव्भार’त्ति सिद्धिपृथिवी 'मंदरस्स णं पव्वयस्ले त्यादि सूत्रे लवणसमुद्राभ्यन्त- रपरिध्यपेक्षयान्तरं द्रष्टव्यमिति । 'सव्वेवि ण' मित्यादि, चन्द्रस्य त्रिंशन्मुहूर्तभोग्यं नक्षत्र क्षेत्रं समक्षेत्रमुच्यते, तदेव सार्द्धं द्वयर्द्ध द्वितीयमर्धमस्येति द्वयर्द्धमित्येवं व्युत्पादनात् तथाविधं क्षेत्रं येषामस्ति तानि द्वयर्द्धक्षेत्रकाणि नक्षत्राणि अत एव पञ्चचत्वारिंशन्मुहूर्त्ता चन्द्रेण सार्द्धं योगः- सम्बन्धो योजितवन्ति । पू. (१२२) तिन्नेव उत्तराई पुनव्वसू रोहिणी विसाहाय । एए छ नक्खत्ता पणयालमुहुत्तसंजोगा ॥ वृ. 'तिन्नेव' गाहा, त्रीण्युत्तराणि उत्तराफाल्गुन्य उत्तराषाढाउत्तराभाद्रपदाश्च । मू. (१२३) महालियाए णं विमाणपविभत्तीए पंचमे वग्गे पणयालीसं उद्देसणकाला प समवायः ४५ समाप्तः - मुनिदीपरत्नसागरेण संशोधिता सम्पादिता अभयदेवसूरिविरचता समवायाङ्गे पञ्च चत्वारिशत्सभवायस्य टीका परिसमाप्ता । समवाय: ४६ मू. (१२४) दिडिवायस्स णं छायालीसं माउयापया प०, भीए णं तिवी छायालीसं माउयक्खराप०, पभंजणस्स णं पाउकुमारिंदस्स छायालीसं भवणावाससय सहस्सा प० । वृ. अथ षट्चत्वारिंशत्स्थानके किञ्चिल्लिख्यते, 'दिट्ठिवायस्स' त्ति द्वादशाङ्गस्य 'माउयापय'त्ति सकलवाङ्मयस्य अकारादिमातृकापदानीव दृष्टिवादार्थप्रसवनिबन्धनत्वेन मातृकापदानि उत्पादविगमध्रौव्यलक्षणानि तानि च सिद्धश्रेणिमनुष्यश्रेण्यादिना विषयभेदेन कथमपि भिद्यमानानि षट्चत्वारिंशद्भवन्तीति सम्भाव्यन्ते । तथा 'बंभीएणं लिवीए' त्ति लेख्यविधौ षटचत्वारिंशन्मातृकाक्षराणि तानि चाकारादीन हकारान्तानि सक्षकाराणि ऋऋ लृलु ळ इत्येवं तदक्षरपञ्चकवर्जितानि सम्भाव्यन्ते, तथा पभंजणस्स त्ति औदीच्यस्येति । समवायः - ४६ समाप्तः समवायः-४७ मू. (१२५) जया णं सूरिए सव्वब्भितरमंडलं उवसङ्कमित्ताणं चारं चरइ तथा णं इहगयस्स मणूसस्स सत्तचत्तालीसं जोयणसहस्सेहिं दोहि य तेवट्टेहिं जोयणसएहिं एक्कवीसाए य सट्टिभागेहिं जोयणस्स सूरिए चक्खुफासं हव्वमागच्छइ । धेरे णं अग्गिभूई सत्तचालीसं वासाइं अगारमज्झे वसित्ता मुंडे भवित्ता अगाराओ अनगारियं पव्चइए । वृ. अथ सप्तचत्वारिंशत्स्थानके किमप्युच्यते, 'जया णमित्यादि, इह लक्षप्रमाणस्य जम्बूद्वीपस्योभयतोऽशीत्युत्तरेऽशीत्युत्तरे योजनशते ३६० अपनीते सर्वाभ्यन्तरस्य सूर्यमण्डलस्य Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.003338
Book TitleAgam Sutra Satik 04 Samavay AngSutra 04
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherAgam Shrut Prakashan
Publication Year2000
Total Pages204
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari, Agam, Canon, Agam 04, & agam_samvayang
File Size5 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy