SearchBrowseAboutContactDonate
Page Preview
Page 88
Loading...
Download File
Download File
Page Text
________________ समवाय: ४७ विष्कम्भो भवति ९९६४० तत्परिधिस्त्रीणि लक्षाणि पञ्चदश सहाणि एकोननवत्यधिकानि ३१५०८९, एतच्च सूर्यो मुहूर्त्ताना षट्या गच्छतीति षट्याऽस्य भागहारे मुहूर्त्तगतिर्लभ्यते, सा च पञ्च योजनसहस्राणि द्वे चैकपञ्चाशदुत्तरे योजनशते एकोनत्रिंशच्च षष्टिभागा योजनस्य । यदा चाभ्यन्तरमण्डले सूर्यश्चरति तदाऽथदश मुहूर्ता दिवसप्रमाणं तदर्द्धेन नवभिर्मुहूर्तेः मुहूर्त्तगतिर्गुण्यते, ततश्च यथोक्तं चक्षुस्पर्शप्रमाणमागच्छतीति । t ८५ अग्गिमूइ त्ति वीरनाथस्य द्वितीयो गणधरस्तस्य चेह सप्तचत्वारिंशद्वर्षाण्यगारवास उक्तः, आवश्यके तु षट्चत्वारिंशत्, सप्तचत्वारिंशत्तमवर्षस्यासम्पूर्णत्वादविवक्षा, इह त्वसम्पूर्णस्वापि पूर्णत्वविवक्षेति सम्भावनया न विरोध इति । समवायः-४७ समाप्तः समवाय:-४८ मू. (१२६) एगमेगस्स णं रन्नो चाउरंतचक्कवट्टिस्स अडयालीसं पट्टणसहस्सा प० । धम्मस्स णं अरहओ अयडालीसं गणा अडयालीसं गणहरा होत्था । सूरमंडले णं अडयालीसं एकसट्टिभागे जोयणस्स विक्खंभेणं प० । वृ. अष्टचत्वारिंशत्स्थानके किमपि लिख्यते, 'पट्टण' त्ति विविधदेशपण्यान्यागत्य यत्र पतन्ति तत्पत्तनं- नगरविशेषः, पत्तनं रत्नभूमिरित्याहुरेके । 'धम्मस्स'त्ति पञ्चदशतीर्थङ्करस्य, इहाष्टचत्वारिंशद्गणा गणधराश्चोक्ताः आवश्यके तु त्रिचत्वारिंशत् पठयन्ते तदिदं मतान्तरमिति । 'सूरमंडले' त्ति सूर्यविमानं येषां भागानामेकषष्ट्या योजनं भवति तेषामष्टचत्वारिंशत् त्रयोदशभिस्तैर्न्यनं योजनमित्यर्थः । समवायः ४८ समाप्तः समवाय: ४९ मू. (१२७) सत्त सत्तमियाए णं भिक्खुपडिमाए एगूणपन्नाए राइदिएहिं छनउभिक्खासएणं अहासुतं जाव आराहिया भवइ । देवकुरुउत्तरकुरु एणं मणुया एगूणपत्रा राइदिएहिं संपन्नजोव्वणा भवंति । तेइंदियाणं उक्कोसेणं एगूणपन्ना राइंदिया ठिई प० । वृ. अथैकोनपञ्चाशत्स्थानके लिख्यते, 'सत्तसत्तमियाए णं' सप्त सप्तमानि दिनानि यस्यां सा सप्तसप्तमिका - सप्त सप्त दिनानि भवन्ति सप्तसु सप्तकेषु अतः सा सप्तदिनसप्तकमयत्वादेकोनपञ्चाशता दिनैर्भवतीति, 'पडिम' त्ति अभिग्रहः 'छन्नउएणं भिक्खासएणं' ति प्रथमदिनसप्तके प्रतिदिनमेकोत्तरया भिक्षावृध्या अष्टाविंशतिर्भिक्षा भवन्ति, एवंच सप्तस्वपि षण्णवतिभिक्षाशतं भवति, अथवा प्रतिसप्तमेकोत्तरया वृध्या यथोक्तं भिक्षामानं भवति, तथाहि प्रथमे सप्तके प्रतिदिनमेकैकभिक्षाग्रहणात् सप्त भिक्षा भवन्ति, द्वितीये द्वयो २ ग्रहणाच्चतुर्दश, एवं सप्तमे सप्तानां ग्रहणादेकोनपञ्चाशदित्येवं सर्वमीलने यथोक्तमानं भवतीति 'अहासुतं 'ति यथासूत्रं यथागमं सम्यक् कायेन स्पृष्टा भवतीति शेषो द्रष्टव्यः । Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.003338
Book TitleAgam Sutra Satik 04 Samavay AngSutra 04
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherAgam Shrut Prakashan
Publication Year2000
Total Pages204
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari, Agam, Canon, Agam 04, & agam_samvayang
File Size5 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy