________________
६६
सम महामोहं प्रकरोतीति विंशतितमं २० ।
मू. (८८)
समवायाङ्गसूत्रम्-३०/८७
आयरियउवज्झाएहिं सुवं विणवं च गाहिए। ते चेव ख्रिसई बाले, महामोहं पकुव्वइ ।।
वृ. आचार्योपाध्यायैर्यैः श्रुतं स्वाध्यायं विनयं च चारित्रं 'ग्राहितः' शिक्षितः तानेव 'खिसति' निन्दति-अल्पश्रुता एते इत्यादि ज्ञानतः अन्यतीर्थिकसंसर्गकारिण इत्यादि दर्शनतः मन्दधर्माणः पार्श्वस्थादिस्थानवर्त्तिन इत्यादि चारित्रतः, यः स एवंभूतो बालो महामोहं प्रकरोतीत्येकविंशतितमं २१ ।
मू. (८९)
आयरिउवज्झायाणं, सम्मं नो पडितप्पइ । अप्पडिपूयए थद्धे, महामोहं पकुव्वइ ॥
वृ. आचार्यादीन् श्रुतदानग्लानावस्थाप्रतिचरणादिभिस्तर्पितवतः- उपकृतवतः सम्यक् न तान् प्रति ‘तर्प्पयति' विनयाहारोपध्यादिभिर्न प्रत्युपकरोतीति, तथा अप्रतिपूजको नपूजाकारी तथा 'स्तब्धो' मानवान् स महामोहं प्रकरोतीति द्वाविंशतितमं २२ ।
मू. (९०)
अबहुस्सुए य जे केई, सुएणं पविकत्थई । सज्झायवायं वयइ, महामोहं पकुव्वइ ॥
वृ. अबहुश्रुतश्च यः कश्चित् श्रुतेन 'प्रविकत्थते' आत्मानं श्लाघते श्रुतवानहमनुयोगधरोऽहमित्येवं, अथवा कस्मिंश्चित्त्वमनुयोगाचार्यो वाचकोवेति पृच्छति प्रतिभणति आमं, स्वाध्यायवादं वदति विशुद्धपाठकोऽहमित्यादिकं यः स महामोहं श्रुतालाभहेतुं प्रकरोतीति त्रयोविंशतितमं २३ । .मू. (९१)
अतवस्सीए य जे केई, तवेण पविकत्थइ । सव्वलोयपरे तेणे, महामोहं पकुब्वइ ॥
'वृ. 'अतवस्सीए' सुगमं, पूर्वार्द्धं पूर्ववत्, नवरं 'सर्वलोकात्' सर्वजनात् सकाशात्परःप्रकृष्टः स्तेनः चौरो भाव चौरत्वात् महामोहं अतपस्विताहेतुं प्रकरोतीति चतुर्विंशतितमं २४ । सू. (९२) साहारणठ्ठा जे केई, गिलणम्मि उवट्ठिए ।
पभू न कुणई किचं, मज्झपि से न कुव्वइ ॥ सढे नियडीपत्राणे, कसुलाउलचेयसे । अप्पणी य अबोहीय, महामोहं पकुव्वइ ॥
मू. (९३)
वृ. साधरणार्थ मुपकारार्थं यः कश्चिदाचार्यदिग्लाने- रोगवति 'उपस्थिते' प्रत्यासन्नीभूते 'प्रभुः' समर्थ उपदेशेनौषधा- दिदानेन च स्वतोऽन्यतश्चोपकारं न करोति, कृत्यमुपेक्षते इत्यर्थः, केनाभिप्रायेणेत्याह- ममाप्येष न करोति किंचनापि कृत्यं समर्थोऽपि सन्विद्वेषेण, असमर्थो वाऽयं बालत्वादिना किं कृतेनास्य ?, पुनरुपकर्तुमशक्तत्वादिति लोभेनेति, 'शठः' कैतवयुक्तः शक्तिलोपनात् निकृति माया तद्विषये प्रज्ञानं यस्य स तथा ग्लानः प्रतिचरणीयो मा भवत्विति ग्लानवेषमहं करोमीति विकल्पवानित्यर्थः, अत एव च कलुषाकुलचेताः आत्मनश्चाबोधिकोभवान्तराप्राप्तव्यजिनधर्मको ग्लानाप्रतिजागरेणा ज्ञाविराधनात् चशब्दात्परेषां चावोधिकः अविद्यमाना बोधिरस्मादिति व्युत्पादनात् ये हि तदीयं ग्लानाप्रतिजागरणमुपलभ्य जिनधर्मपराङ्मुखा भवन्ति
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org