________________
समवायः - ३०
६५
वृ. यो नायकं वा प्रभुं राष्ट्रस्य राष्ट्रमहत्तरादिकमिति भावः, तथा 'नेतारं ' प्रवर्तयितारं प्रयोजनेषु निगमस्य-वाणिजकसमूहस्य, कं ? -श्रेष्ठिनं' श्रीदेवताङ्कितपट्टबद्धं, किंभूतं ? - 'बहुरवं' भूरिशब्दं प्रचुरयशमित्यर्थः हत्वा महामोहं प्रकुरुत इति षोडशं १६ ।
मू. (८४)
बहुजणस्स नेयारं, दीवं ताणं च पाणिणं । एयारिसं नरं हंता, महामोहं पकुव्वइ ॥
वृ. 'बहुजनस्य' पञ्चषादीनां लोकानां 'नेतारं' नायकं द्वीप इव द्वीपः संसारसागरगतानामाश्वासस्थानं अथवा दीप इव दीपोऽज्ञानान्धकारावृतबुद्धिदृष्टिप्रसराणां शरीरिणां हेयोपादेश्यवस्तुस्तोमप्रकाशकत्वात् तं, अत एव त्राणं- आपद्रक्षणं प्राणिनामेताध्शं यादृशा गणधरादयो भवन्ति, 'नवरं' प्रावचनिकादिपुरुषं हत्वा महामोहं प्रकरोतीति सप्तदशं १७ । पू. (८५) उवट्ठियं पडिविरयं, संजयं सुतवस्सियं ।
वुकम्म धम्माओ भंसेइ, महामोहं पकुव्वइ ॥
बृ. उपस्थितं प्रव्रज्यायां प्रविव्रजिषुमितर्थः, 'प्रतिविरतं' सावद्ययोगेभ्यो निवृत्तं प्रव्रजितमेवेत्यर्थः 'संयतं' साधुं 'सुतपस्विनं' तपांसि कृतवन्तं शोभनं वा तपः श्रितं-आश्रितं कचित् 'जे भिक्खुंजगजीवणं ति पाठः, तत्र जगन्ति-जंगमानि अहिंसकत्वेन जीवयतीति जगज्जीवनस्तं विविधैः प्रकारैरुपक्रम्याक्रम्य व्यपक्रम्य बलादित्यर्थः, धर्मात् श्रुतचारित्रलक्षणादभंशयति यः स महामोहं प्रकरोतीति अष्टादशं १८ ।
सू. (८६)
तहेवानंतनाणीणं, जिणाणं वरदंसिणं । तेसिं अवनवं बाले, महामोहं पकुव्वइ ॥
बृ. यथैव प्राक्तनं मोहनीयस्थानं तथैवेदमपि, अनन्तज्ञानिनां ज्ञानस्यानन्तविषयत्वेन अक्षयित्वेन वा जिनानां अर्हता वरदर्शिनां क्षायिकदर्शनत्वात् तेषां ये ज्ञानाद्यनेकातिशयसम्पदुपेतत्वेन भुवनत्रये प्रसिद्धाः 'अवर्ण' अवर्णवादो वक्तव्यत्वेन यस्यास्ति सोऽवर्णवान्, यथा नास्ति कश्चित् सर्वज्ञो, ज्ञेयस्यानन्तत्त्वात्, उक्तं च
119 11
“अजवि धावइ नाणं अज्जवि य अनंतओ अलोगोवि ।
अवि न कोई विउहं पावन्ति सव्वनुयं जीवो ॥ अह पावति तो संतो होइ अलोओ न चेयमिति त्ति ।
अदूषणं चैतद्, उत्पत्तिसमय एव केलज्ञानं युगपल्लोकालोको प्रकाशयदुपजायते, यताऽपवरकान्तर्वर्त्तिदीपकलिका अपवरकमध्यप्रकाशस्वरूपेत्यभ्युपगमादिति, बालः-अज्ञो महामोहं प्रकरोतीति एकोनविंशतितमं १९ ।
मू. (८७)
नेयाइअस्स मग्गस्स, दुठ्ठे अवयरी बहु । तं तिप्पयंतो भावेइ, महामोहं पकुव्यइ ॥
वृ. 'नैयायिकस्य' न्यामनतिक्रान्तस्य 'मार्गस्य' सम्यगदर्शनादेः मोक्षपथस्य दुष्टो द्विष्ठो वा‘अपकरोति' अपकारं करोतीति, 'बहु' अत्यर्थं पाठान्तरेणापहरति बहुजनं विपरिणमयतीति भावः तं मार्ग 'तिप्पयंतो' त्ति निन्दयन् भावयति-निन्दया द्वेषेण वां वासयति आत्मानं परं च यः
4 5
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org