________________
समवायः-३०
६३
वृ.पौनःपुन्येनप्रणिधिना-मायया यथा वाणिजकादिवेषंविधाय गलकर्त्तकाः पथि गच्छता सह गत्वा विजने मारयति तथा हत्वा-विनाश्य इति गम्यते उपहसेत् आनन्दातिरेकात् 'जन' मूर्खलोकं हन्यमानं, केन हत्या ? -‘फलेन' योगभावितेन मातुलिङ्गादिना ‘अदुवा' अथवा दण्डेन प्रसिद्धेन स इति गम्यते, महामोहं प्रकरोतीति षष्ठम् ६। मू. (७१) गूढायारी निगूहिज्जा, मायं मायाए छायए।
असच्चवाई निण्हाई, महामोहं पकुब्वइ ।। वृ. 'गूढाचारी' प्रच्छन्नानाचारवान् निगूहयेत-गोपयेत्, स्वकीयं प्रच्छन्नं दुष्टमाचारं तथा मायांपरकीयांमायया स्वकीयया छादयेत्-जयेत्, यथा शकुनिमारकाश्छदैरात्मानमावृत्यशकुनीन् गृह्णन्तः स्वकीयमाययाशकुनिमायांछादयन्ति, तथा असत्यावादी 'निह्नवी' अपलापकः स्वकीयाया मूलगुणोत्तरगुणप्रतिसेवायाः सूत्रार्थयोर्वा महामोहं प्रकरोतीति सप्तमं ७ । मू. (७२) धंसेइ जो अभूएणं, अकम्मं अत्तकम्मुणा ।
अदुवा तुम कासित्ति, महामोहं पकुव्वइ ।। वृ. ध्वंसयति-छायया भ्रंशयति इति यः पुरुषोऽभूतेन-असद्भूतेन, कं ? -अकर्मकंअविद्यमानदुश्चेष्टितं आत्मकर्मणा-आत्मकृतऋषिधातादिनादुटव्यापारेण ‘अदुवा' अथवा यदन्येन कृतं तदाश्रित्य परस्य समक्षमेवं त्वमकार्षीरेतन्महापापमिति वदति, वदिक्रियायाः गम्यमानत्वात्स इत्यस्यापि गम्यमानत्वात् महामोहं प्रकरोतीत्यष्टमं । मू. (७३) जाणमाणो परिसओ, सच्चामोसाणि भासइ।
अक्खीणझंझे पुरिसे, महामोहं पकुव्यइ ।। वृ. जानानः यथा अनृतमेतत्परिषदः-सभायांबहुजनमध्ये इत्यर्थः, सत्यामृषाणि-किच्चित्सत्यानि बह्वसत्यानि वस्तूनि वाक्यानि वा भाषते 'अक्षीणझञ्झः' अनुपरतकलहः यः स इति गम्यते, महामोहं प्रकरोतीति नवमं ९ ॥ मू. (७४) अनायगस्स नयवं, दारे तस्सेव धंसिया।
विउलं विस्खोभइत्ताणं, किच्चाणं पडिबाहिरं ।। मू. (७५) __उवगसंतंपि झपित्ता, पडिलोमाहिं वग्गुहि।
भोगभोगे वियारेई, महामोहं पकुव्वइ ।। वृ. अनायकः-अविद्यमाननायको राजा तस्य नयवान्-नीतिमानमात्यः स तस्यैव राज्ञो 'दारान्' कलत्रं द्वारं वा-अर्थागमस्योपायं ध्वंसयित्वा भोगभोगान् विदारयतीति सम्बन्धः, किं कृत्वा ? -'विपुलं' प्रचुरमित्यर्थः, 'विक्षोभ्य' सामन्तादिपरिकरभेदेन संक्षोभ्य नायकंतस्य क्षोभ जनयित्वेत्यर्थः, 'कृत्वा' विधायणमित्यलङ्कारे प्रतिबाह्य-अनधिकारिणं दारेभ्योऽर्थागमद्वारेभ्यो वा, दाराम्राज्यवास्वयमधिष्ठायेत्यर्थः, तथा उपकसन्तमपि समीपमागच्छन्तमपि, सर्वस्वापहारे कृतेप्राभृतेनानुलोमैः करुणैश्च वचनैरनुकूलयितुमुपस्थितमित्यर्थः, झम्पयित्वा-अनिष्टवचनावकाश कृत्वा प्रतिलोमाभिः-तस्य प्रतिकूलाभिर्वाग्भि-वचनैरेताशस्ताईशस्त्वमित्यादिभिरित्यर्थः, 'भोगभोगान्' विशिष्टान् शब्दादीन् विदारयति योऽसौ महामोहं प्रकरोतीति दशमं १०॥
अकुमारभूएजे केई, कुमारभूएत्तिहं वए। इत्थीहिं गिद्धे वसए, महामोहं पकुव्वइ ।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org